________________ पलंब 714 - अभिधानराजेन्द्रः - भाग 5 पलंब तथा"जो एगदेसे अदढो उ पोतो, सीलप्पए सो उ करेइ कज। जे दुब्बलो सीलविओ वि संतो न तं तु सीलेंति विसिन्नदारू।२" एवं / त्वमपि जानीपे अह प्रगुणीभविष्यामि, प्रगुणीभूतश्च प्रायश्चित्तं वोढास्मि / अपरं च स्वाध्यायवैयावृत्यतपःप्रभृतिभिरधिक लाभसुपाजयिष्यामीति तत इद प्रतिसेवस्वाकल्पनीयम् / अथैतेषामसमर्थरत्ततो मा प्रतिसेवस्वेति गत वैद्यप्रच्छनयतनापुरुषलक्षण द्वारत्रयम्। अथ लिङ्गाऽऽदीनि सर्वाण्यपि द्वाराणि गाथाद्वयेन भावयतिसो पुण आलेवो वा, हवेज आहारिमं व मिस्सियरं / पुव्वं तु पिट्ठगहणं, विगरणजं पुव्वछिन्नं वा / / 226 / / भावियकुलेसु गहणं, तेसऽसति सलिंगगेण्हणाऽवन्नो। विकरणकरणाऽऽलोयण, अमुगगिहे पचओऽगीते / / 227|| यो वनस्पतिभेदो व्रणाऽऽदौ पित्तोदयाऽऽदौ वा. उपयुज्यते, सपुनरालेपो वा स्याद् बहिः पिण्डीप्रदानाऽऽदिक इत्यर्थः / आहारिमं वा / बीजपूराऽऽदिकं, तच्चोभयमपि प्रथमतोऽचित्तं, तदलाभे मिश्रम्, अस्याप्यभावे इतरत् सचित्तम्। अथ वा मिश्रं नामयदालेप आहारयितव्यं च भवति, इतरन्नामयन्नालेपो नाहारयितव्यं तच्च स्पर्शन स्पर्शनीय वा स्यात् पद्मोत्पलवत्, नासिकया आघ्रातव्यं भवेत्पुष्पाऽऽदिवत् / एतावता द्रव्यग्रहणद्वारं व्याख्यातम् / अथ पिष्टापिष्टद्वारम् - तत्राऽऽलेपाऽऽदिक सर्वमपि यत्पूर्व पिष्ट लभ्यते तस्य ग्रहण कर्त्तव्यम्, पूर्वपिष्टस्यालाभे तृतीयेनाऽपि भनेन, तस्याप्यलाभे द्वितीयेन, तस्याप्यसति प्रथमभङ्गेन यत् पूर्वच्छिन्नं तद्विकरणं कृत्वा ग्राह्य, विविधमनेकप्रकारं करणं खण्डनं यस्य तद्विकरणं, तत्तादृशं चाऽऽनीय पेषणीयम् / एतेन च यदधस्तादुक्तम् "इयरे गहणं कह होजा? इति, तदेवं भवेदिति प्रतिपत्तव्यम् / अथ पूर्वच्छिन्नं न लभ्यते तत आत्मनाऽपि छिन्दन्ति, तच पूर्वच्छिन्न भावित - कुलेषु ग्रहीतव्यम्, तत्र यानि श्राद्धकुलानि मातापितृसमानानि साधूनामपवादपदे प्राशुकाऽऽदिकं गृह्णतामनुड्डाहकारीणि तानि भावितकुलान्युघ्यन्ते, तेषामसति यद्यभावितकुलेषु स्वलिडेन गृह्णाति ततो महानवों भवति, अतस्तेष्वन्यलिङ्गेनग्रहीतव्यम्। इति लिङ्गद्वारमपिव्याख्यातम् / अथवा भावितकुलानामभावे यानि सुप्रज्ञापनीयानि कुलानि तानि प्रज्ञाप्य मार्गयति गृह्णाति च एषा प्रज्ञापना मन्तव्या। एतानि पुनः प्रथमद्वितीयभगवर्ती नि प्रलम्बानि यत्र गृहीतानि तत्रैव विकरणानि कृत्वा आनीय गुरुसमीपे आलोचयति अगीतार्थप्रत्ययनिमित्तं, यथा- अमुकस्य गृहे स्वार्थे कृतानि मया लब्धनीति / एषा आलोचना / यतना तु सर्वथा पूर्वच्छिन्नानामलाभे स्वयमपि छेत्तव्यानि च प्रथमं परीत्तानि, ततोऽनन्तान्यपि पूर्व स्वलिङ्गेन, तत इतरेणापि, एतच निर्गन्थानाश्रित्य भणितम्। अथ निर्ग्रन्थीनां विधिमतिदिशन्नाहएसेव गमो नियमा, निग्गंथीणं पि नवरि छडभंगा। आमे भिन्नाभिन्ने, जाव पउमुप्पलाईणि / / 227 / / एष एवग मो नियमात् निर्ग्रन्थीनामपि ज्ञातव्यो, यावत्पद्मोत्पलाऽऽदीनि "पउमुपलमाउलिंगे" इत्यादिगाथा यावत् एतच्च नियुक्तिमङ्गीकृत्योक्तम्। भाष्यमाश्रित्य तु- 'अमुगगिहे पच्चओऽगीए' इति पर्यन्तं द्रष्टव्य, नवरं तासामाम प्रलम्बे भिन्नाभिन्नपदाभ्यां विधिभिन्नाविधिभिन्नपदसहिताभ्यांषड्भङ्गाः कर्त्तव्याः,तेचानन्तरसूत्रे स्वस्थान एव भावयिष्यन्ते। (14) सूत्राणिकप्पइ निग्गंथीणं पक्के तालपलंबे मिन्ने वा पडिगाहित्तए॥३॥ नो कप्पइ निग्गंथीणं पक्के तालपलंबे अभिन्ने पडिगाहित्तए॥४|| कप्पइ निग्गंथीणं पक्के तालपलंबे भिन्ने पढिगाहित्तए, से वि य विहिमिन्ने, नो चेव णं अविहिमिन्ने / / 5 / / एतानि त्रीणि सूत्राणि समकमेव व्याख्यायन्ते- कल्पते निर्ग्रन्थीना पक्वं तालप्रलम्ब द्रव्यतो भिन्नं वा प्रतिगृहीतुम, नो कल्पते निर्गन्थीनां पक्व तालप्रलम्बमभिन्न प्रतिगृहीतुम्; कल्पते निर्ग्रन्थीनां पक्वं तालप्रलम्ब च द्रव्यो भिन्न प्रतिग्रहीतु, तदपि च विधिभिन्न विधिना वक्ष्यमाणलक्षणेन भिन्न विदारितं, नैव, णं वाक्यालङ्कारे। अविधिभिन्नमिति सूत्रार्थः / वृ० १उ०२ प्रक०। ('पक्क 'शब्देऽस्मिन्नेव भागे तन्निक्षेपः कृतः) अथ भिन्नाभिन्नपदे व्याचष्टेपक्के भिण्णे समणा-ण वि दोसे किं तु समणीणं / समणे लहुओ मासो, विकडुभमाई य ते चेव // 236 / / पक्वं यन्निर्जीव तद् द्रव्यतो भिन्नं वा स्यादभिन्न वा / तत्रोभयेऽपि श्रमणानामपि दोषा भवन्ति, किं तु किं पुनः श्रमणीनां, श्रमणा यदि गृह्णन्ति ततो मासलघु, द्वाभ्यामपि तपःकालाभ्यां लघुक विकडुभपलिमन्थाऽऽदयश्चत एव दोषा:। इदमेव स्फुटतरमाहआणाऽऽदिरसपसंगा, दोसा ते चेव जे पढमसुत्ते। इह पुण सुत्तनिवाओ, ततियचउत्थेसु भंगेसु // 237 / / आज्ञाऽऽदयो रसप्रसङ्गाऽऽदयश्च दोषास्त एव पक्कप्रलम्यग्रहणेऽपि भवन्ति ये प्रथमसूत्रेऽभिहिताः / यद्येवं ततः सूत्रमपार्थकमित्याह-इह पुनः सूत्रनिपातस्तृतीयचतुर्थयोर्भङ्गयोर्भवति, भावतो भिन्नमिति कृत्वा तृतीयचतुर्थरूपं भङ्गद्वयमधिकृत्य सूत्रं प्रवृत्तमिति भावः। एमेव संजईण वि, विकडुभपलिमंथमाइया दोसा। कम्माईया य तहा, अविभिन्ने अविधिभिन्ने च / / 238 / / एवमेव संयतीनामपि विकटुभपलिमन्थाऽऽदयो दोषाः। तथा अविभिन्ने अविधिभिन्नो च प्रलम्बे हस्तकर्माऽऽदयः सर्शिवषा दोषा मन्तव्याः, अतस्तासां विधिभिन्नमेव कल्पते नाविधिभिन्नम्। अत्रचषड्भङ्गीमाहविहिअविहीभिन्नम्मि य, समणीणं होंतिमे तु छन्भंगा। पढमं दोहि अभिन्नं, अविहिविही दव्वविइ तइए॥२३६।। एमेव भावतो विय, भिन्ने तत्थेक्क दव्वतोऽभिन्नं / पंचमें छठे दोहि वि, नवरं पुण पंचमे अविही // 24 // "से वि य विहिभिन्ने नो चेव णं अविहिभिन्ने' इत्यत्र श्रमणीनां सूत्रे इमे षड् भङ्गा भवन्ति / 'पढम" इ