________________ पलंब 713 - अभिधानराजेन्द्रः - भाग 5 पलंब गुरुराहअद्धाणे जयणाए, परूवणं वक्खती उवरि सुत्ते। ओमे वुवरि वोच्छइ, रोगायंकेसिमा जयणा // 218|| अध्वनि गच्छता या प्रलम्बग्रहणे यतना सामाचारी, तस्याः प्ररूपणमुपरि अधः सूत्रे इहैवोद्देशके वक्ष्यति, अवमेऽपि यः कोऽपि विधिः स सर्वोऽप्युपरि इहैव प्रलम्बप्रकृते वक्ष्यते। अत्र पुनर्यग्लानत्वद्वारं तदभिधीयते / तच ग्लानत्वं द्विधा-रोगः, आतङ्कश्च / तयोः रोगाऽऽतङ्कयोयोरपीयं वक्ष्यमाणलक्षणा यतना। अत्र तिष्ठतु तावद्यतना, रोगाऽऽतङ्कयोरेव कः परस्परं विशेषः? उच्यतेगंडीकोढखयाऽऽदी, रोगो कासाइओय आयंको। दीहरूया वी रोगो, आतंको आसुघाती उ॥२१६।। गण्डी गण्डमालाऽऽदिकः, कुष्ठं पाण्डुरोगः, गलतकुष्ठ वा, क्षयो राजयक्ष्मा, आदिशब्दात् श्लीपदश्वयथुगुल्माऽऽदिकः सर्वोऽपि रोग इति ध्यपदिश्यते।कासाऽऽदिकस्तुआतङ्कः, आदिग्रहणेन श्वासशूलहिक्काज्वरातिसाराऽऽदिपरिग्रहः / अथवा-दीर्घकालभाविनी सर्वाऽपि रुक रोग उच्यते। यस्तु आशुधाती विसूचिकाऽऽदिकः स आतङ्कः। अथ सामान्येन ग्लानत्वे विधिमाहगेलण्णं पि य दुविहं, आगाढं चेव नो अ आगाढं। आगाढे कमकरणा, गुरुगा लहुगा अणागाढे // 220 / / ग्लानत्वमपि द्विविधम्-आगाढं चैव, नो आगाढम, अनागाढमित्यर्थः। आगाढ यदि क्रमेण पश्चकपरिहाण्या करोति ततश्चत्वारो गुरवः, अनागाढे तु यदि आगाढकरणीयं करोति तदा चत्वारो लघवः / एतदेव स्पष्टयन्नाहआगाढमणागाद, पुटवुत्तं खिप्पगहणमागाढे। फासुगमफासुगं वा, चउ परियटुंतऽणागाढे // 221 / / आगाढम्, अनागाढंच पूर्वोक्तम्-“अहिडक्कविसविसूई' इत्यादिना पूर्वमेव व्याख्यातं, तत्राऽऽगाढे शूलविसूचिकाऽऽदौ ग्लानत्वे समुत्पन्ने प्राशुकम्, अप्राशुकं वा-एषणीयमनेषणीय वा क्षिप्रमेव गृहीतव्यम्, आगाढे त्रिःपरिवर्तनरूपया, पञ्चकपरिहाणिरूपया वा यतनया क्रमेण गृह्णन्ति, ततश्चत्वारो गुरवः, अनागाढे पुनस्विकृत्वः परिवर्तने कृतेऽपि यदिशुद्धं न प्राप्यते ततश्चतुर्थे परिवर्ते पञ्चकाऽऽदियतनया अनेषणीयं गृह्णाति / अथ "अनागाढे त्ति' परिवर्तनं पञ्चकपरिहाणिं वा न करोति ततश्चतुर्लघवः / अथ ग्लानत्वविषयां यतनामाहविजे पुच्छा जयणा, पुरिसे लिंगे य दव्वगहणे य। पिट्ठमपिढे आलो-यणा य पन्नवण जयणा य / / 222 / / प्रथमतो वैद्यस्वरूपं वक्तव्यं, ततस्तत्पार्चे यथा प्रच्छने यतना क्रियते तथा वाच्य, पुरुष आचार्याऽऽदिकोऽभिधातव्यः,लिङ्गेनवायथा प्रलम्बग्रहणं भवति यथा वक्तव्यं, द्रव्यग्रहणं वा लेपाऽऽदिद्रव्योपादानमभिधानीयम्, पिष्टस्य च प्रलम्बग्रहणे विधिर्वक्तव्यः, तत आलोचना प्रज्ञापना यतना वाऽभिधातव्या / इति नियुक्तिगाथासमासार्थः / अथ तस्या एव भाष्यकृत् व्याख्यानमाह विजऽट्ठग एगदुगाऽऽ-दिपुच्छणे जा चउक्कउवएसो। इह पुण दव्वपलंबा, तिन्नि य पुरिसाऽऽयरियमाई // 223 / / वैद्याष्टकमष्टौ वैद्याः-"संविग्गमसविगा २,लिंगी 3 तहसावए 4 अहाभद्दे 5 / अणभिग्गह मिच्छे 6 तर 7, अट्ठमए अन्नतित्थी य 8 // 1 // '' इति गाथोक्ताः प्रष्टव्याः। एते च मासकल्पप्रकृते ग्लानद्वारे व्याख्यास्यन्ते। एतेषां च प्रच्छने इयं यतना-वैद्यस्य समीपे एकः प्रच्छको न गच्छति, मा यमदण्ड आगत इति निमित्तं ग्रहीत्। द्वावपिन व्रजतः, यमदूतावेताविति मननात्। आदिशब्दात् चत्वारोऽपि न व्रजन्ति नीहरणकारिण एते इति कृत्वा, यत एवं ततस्त्रयः पञ्च वा गन्तव्या इति, इत्यादिको विधिस्तावद् ज्ञेयो यावत् किमस्मिनोगेप्रतिकर्तव्यमिति पृष्टः सन्स वैद्यश्चतुष्कोपदेश दद्यात् / तद्यथा-द्रव्यतः, क्षेत्रतः, कालतो, भावतश्च / एते ग्लानद्वार एव व्याख्यास्यन्ते। इह पुनर्रव्यतः प्रलम्बानि पुरुषाश्च त्रय आचा-याऽऽदय आचार्योपाध्यायभिक्षुरूपा द्रष्टव्या इति / तत्र वैद्यः पृष्टः कदाचिदेवमभिदध्यात्-यादृशं रोगं यूयं कथयत ईदृशस्योपशमनार्थमिदं वनस्पतिजातंग्लानस्य दातव्यम्। सच वनस्पतिर्यो यस्य रोगस्योपशमनाय प्रभवति तद्विषयं तमभिधित्सुराहपउमुप्पलें माउलिंगे, एरंडे चेव निवपत्ते य। पित्तुदऍ संनिवाए, वायकोवे य सिंभे य॥२२४।। पित्तोदये पद्मोत्पलमौषधं सन्निपाते मातुलिङ्ग वीजपूरकं, वातप्रकोपे एरण्डपत्राणि, (सिंभ ति) श्लेष्मोदये निम्बपत्राणि / अथ यदुक्तम्"तिन्नि य पुरिसाऽऽयरियमाइ त्ति'' तदेतद्भावयतिगणि वसभ गीय परिणा-मगा य जाणंति तं जहा दव्वं / इयरेसिं वाउलणा, नायंसि य मंडिपोउवमा / / 225 // योऽसौ ग्लानः स गणी आचार्यो, वृषभ उपाध्यायो, भिक्षुश्चेति त्रयः पुरुषाः। अत्र भिक्षुर्द्विधा-गीतार्थागीतार्थश्च, परिणामकोऽपरिणामको वा तत्र गणीवृषभगीतार्थभिक्षूणां त्रयाणां पुरुषाणां प्राशुकैषणीयेन द्रव्येणाऽऽलेपाऽऽदिना कर्त्तव्यं, यदा प्राशुकमेषणीयं वा न प्राप्यते तदा तदितरेणापि कर्त्तव्यम् / एतेषां च यद् यथा गृहीतं तत्तथैव निवेद्यते, निवेद्यन्ते च ते तथैवाऽऽगमप्रामाण्येन सचित्तमचित्त वा शुद्धमशुद्ध वा द्रव्यं यद्यस्मिन्नवसरे कल्पते तद्यथावद् जानन्ति। यस्तु अगीतार्थः पर परिणामकः सोऽपि यद्यथा क्रियते तत्तथैव, परिणामकत्वात्कथितं सञ्जानीते, इतरे अपरिणामकाः सन्तो ये अगीतार्थास्तेषां न कथ्यते। यथा अप्राशुकमनेषणीयं वा गृहीतं, किं तु तेषां व्याकुलना क्रियते। तथा अभुकगृहादात्मार्थ कृतमानीतमिदम्; अथ कथमपि तैज्ञति, यथाएतदप्राशुकमनेषणीयं वा, ततो ज्ञाते सति भण्डी गन्त्री, पोतः प्रवहणं, तदुपमा कर्तव्या। यथा"जा एगदेसे अदढा उभंडी, सीलप्पए सा उ करेति कजं / जा दुब्बला सीलविया वि संती, नतं तु सीलेंति विसिन्नदारु"॥१॥ शीलाप्यते, समारच्यते इत्यर्थः।