________________ परिहार 676 - अभिधानराजेन्द्रः - भाग 5 परिहार रसुं सालिं चरतं पासिऊण दुवारस्स एगपासे मिच्छा सबै करेइ, ततो सो वसभी नीतो तेण दुवारेण निप्फडति, निप्फडतो य लेटुमादीहिं आहतो. एवं तस्स खेत्तमलणादिया पुव्वुत्ता दोसा न जाया। एवं आयरिएण वि सो उवाएण चोएयव्वो जहान रूसति, ततो पुव्वुत्तो एगो विदोसोन संभवति / व्याख्यातं प्रथमसूत्रम्। अधुना द्वितीय व्याविख्यासुःप्रथमतः सूत्रेण सह संबन्धमाहतेणेव सेविएणं, असंथरंतो वि संथरो जातो। वितिओ पुण सेवंतो, अकप्पियं नेव संथरति / / 72 / / अनन्तरसूत्राभिहितोऽसंस्तरन्नपि तेनैव प्रामुक्तेनाकल्पिकेन सेवितेन संस्तरो विवक्षितानुष्ठानवहनसमर्थो जातः। द्वितीयः पुनरधिकृतसूत्रोकोऽकल्पिकमपि प्रतिसेवभानो नैव संस्तरति नैवाधिकृतानुष्ठानवहनसमर्थ उपजायते। ततोऽसंस्तरतो व्याचिख्यासनार्थमधिकृतसूत्राऽऽरम्भःएमेव वीयसुत्ते, नाणत्तं नवरमसंथरतम्मि। करणं अणुपरिहारी, चोयगगोणीऍ दिट्ठतो।।७३ / / यथा प्रागुक्तसूत्रेऽभिहित्तम्-"उभयबले परियाय"(६२) इत्यादि, एवमेव अनेनैव प्रकारेणास्मिन्नप्यधिकृते द्वितीये सूत्रे वक्तव्यं, नवरमत्र नानात्वमिदमसंस्तरति अकल्पिकप्रतिसेवने-नापि संस्तरणमप्राप्नुवति करणमनुपरिहारिणः यन्न शक्रोति परिहारिकः कर्तु तद्भणितः, स न करोत्यनुपरिहारिक इति भावः / 'चोयगगोणीऍ दिहतो'' इति पश्चाद व्याख्येयम्। संप्रति यदनुपरिहारिणा कर्तव्यं तदाहपेहा भिक्खग्गहणे, उटुंतनिवेसणे य धुवणे य। जं जं न तरह काउं, तं तं से करेइ वितिओ उ७४ / / प्रेक्षा या भिक्षाग्रहणे उत्तिष्ठति उत्थानं कर्तुमारभमाणो निवेशते चानुपरिहारिणः, करणं भवतीति शेषः / इयमत्र भावना-यदि परिहारिको भाण्ड प्रत्युपेक्षितुं न शक्नोति ततोऽनुपरिहारिकं ब्रूते-प्रत्यवेक्षस्वेद भाण्डकमिति। ततोऽनुपरिहारिकस्तस्य भाण्ड प्रत्यवेक्षते। तथा यदि भिक्षानिमित्त हिण्डितुन शक्नोति ततोऽभिधत्ते, भिक्षामटित्वा ददाति। एवमुत्थानं यदि कर्तुं न शक्तस्तत उत्थापयति, उपवेष्टुमशक्तमुपवेशयति, लेपकृदादिना खरण्टितं पात्रबन्धाऽऽदि यदि प्रक्षालयितुमशक्तरस्तदा तदपि प्रक्षालयति। अत्र ''चोयगगोणीऍदिट्टतो' इत्यस्यावकाशः / चोदक आयदि नाम तस्यानुपरिहारिणा कर्तव्यं, ततः किमुक्तमेव करोति, सर्व करमान्न कुरुते? तथाहि-यथा भिक्षाहिण्डनार्थमुत्थातुमशक्नुवता परिहारिकेणोक्ते मामुत्थापयेतितमनुपरिहारिक उत्थापयति। तथा भिक्षामटित्वा कस्माद्भक्तमानेतुंददाति / यथा वा भणितः सन् भिक्षामटित्वा भक्तमानेतुं तस्मै प्रयच्छति। तथा भाण्डप्रत्युपेक्षणाऽऽदिकमप्यभणित एव करमान्न करोति? सूरिराहगोण्या दृष्टान्तः यथा कस्यापि गौर्वाताऽऽदिना लगशरीरा, तामुपविष्टामुत्थातुमशक्नुवतीं पृच्छे गृहीत्वा गोनायक उत्थायति, सा चोत्थिता स्वयमेव चारि चरितुं याति, यदि पुनरसमर्था चारिचरणाय गन्तुं तदा चारं पानीयं चाऽऽनीय | ददाति, एवं चतावत् कारिता यवदलिष्ठोपजायते। एवं च पारिहारिकोऽपि यत् यत्कर्तुं न शक्नोति तत्तत्(से) तस्य द्वितीयोऽनुपारिहारिकः करोति, यत्पुनः कर्तुमलं तत्स्वयमेवानिगृहितबलवीर्यः करोति / एवं नाम तेन वीर्याचारोऽ-नुचीर्णो भवति। संप्रति यदुक्तम्-''अणुपरिहारिएण कीरमाणं वेयावच्चं जे साइजति।" तत्र साइजणामाहजं से अणुपरिहारी, करेइ तं जइ बलम्मि संतम्मि। न निसेहेई साइ-जणा उ तहियं तु संठाणं // 75 / / यत् (से) तस्य परिहारिणोऽनुपरिहारी करोति, तद्य दि तेन क्रियमाणं सत्यपि बले, अपिशब्दोऽत्रानुक्तोऽपि सामर्थ्यागम्यते / न निषेधते न निवारयति। सा नाम "साइजणा'' स्वादना० तत्र चतस्यां च स्यादनायां क्रियमाणायां प्रायश्चित्तं स्थानम् / किमुक्तं भवति?-प्रथमोद्देशके येषु स्थानेष्वालपनाऽऽदिलघव उक्तास्तेषु स्थानेष्वस्य गुरुका दातव्याः, अनुमननाध्यवसायस्याति-प्रमादहेतुत्वादिति। सूत्रम्परिहारकप्पट्ठियं भिक्खुं गिलायमाणं णो कप्पइ तस्स गणावच्छे इयस्स णिज्जू हित्तए, अगिलाए तस्स करणिचं वेयावडियं० जाव ततो रोगायंकाओ विप्पमुक्को ततो पच्छा तस्स अहालहुस्सयं नामं ववहारे पट्टवेयव्वे सिया // 7 // ___ अथास्य सूत्रस्य पूर्वसूत्रेण सह कः संबन्धः? उच्यतेतवसोसियस्य वाऊ, खुभेज पित्तं व दोवि समगं वा। सण्णग्गि पारणम्मी, गेलण्णमयं तु संबंधो // 76 // तपःशोषितस्य यो हि परिहारतपसा शोषमुपगतस्य वातः क्षुभ्येत, यदि वा पित्तम् / अथवा द्वयमपि वातपित्तं समकं क्षुभ्येयाताम् / ततो वातेन पित्तेन वा सन्ने विध्याते अग्नौ पारणे कृते सति ग्लानत्वमुपजायते। ततो ग्लानस्य सतो विधिख्यापनार्थभेतत्सूत्रमुपगतमित्येष सूत्रस्य संबन्धः। अनेन संबन्धेनाऽऽयातस्याऽस्य सूत्रस्य(७) व्याख्यापरिहारकल्पस्थितं भिक्षुग्लायन्तं यस्य सकाशभागतस्तस्य गणावच्छेदिनो नकल्पते निथुहितुमपाकर्तु वैयावृत्त्यकरणाऽऽदिना, किं त्वग्लान्या तस्य करणीय वैयावृत्त्यं तावद्यावत्स रोगाऽऽतङ्काद्विप्रमुक्तो भवति, ततः पश्चात्तस्य परिहारिणो (लहुस्सग त्ति) स्तोको नाम व्यवहारः प्रायश्चितं प्रस्थापयितव्यो दातव्यः स्यादिति सूत्रसंक्षेपार्थः। व्यासार्थ तु भाष्यकृद्विवक्षुर्यः कारणैः सग्लायतितान्य भिधित्सुराहपढमविइएहिं न तरइ, गेलण्णेणं तवोकिलंतो वा। निज्जूहणा अकरणे, ठाणं व न देइ वसहीए।।७७ / / प्रथमद्वितीयाभ्यां क्षुत्पिपासालक्षणाभ्यामभिभूतः सन् परिहारी ग्लायति। यदि वाग्लानत्वेन, अथवा-तपसा क्लान्तः सन् / एतावता "गिलायमाणं'' इति पदं व्याख्यातम्। अधुना "निज्जूहित्तए" इति व्याचिख्यासुराहनि!हना नाम वैयावृत्त्यख्याकरणे, यदि वावसतौ दोषाऽभावे यत्स्थानं न ददाति एषा नियूहना। वैयावृत्त्याकरणाऽऽदिना यत्तस्य तपोऽकरणं सा नियूहनेति भावः / यदुक्तम्-'अगिलाए तस्स करणिज्ज' इति। तत्र गिलाप्रतिषेधेन अगिला ज्ञायते, इति गिलाव्याख्यानार्थमाह