________________ परिणिट्टिया 621 - अभिधानराजेन्द्रः - भाग 5 परिण्णा परिणिट्ठिया स्त्री० (परिनिष्ठिता) द्विस्विर्वा तृणाऽऽदिशोधनेन कृषिभेदे, पुनः पुनरतिचाराऽऽलोचनेन प्रव्रज्याभेदे, स्था० 4 ठा०४ उ०। परिणिव्वप्पवायणया स्त्री० (परिनिर्वाप्यवाचनता) परीति सर्वप्रकारं निर्वापयतो निरो निर्दग्धाऽऽदिषु भृशार्थस्यापि दर्शनात् भृशं गमयतः पूर्वदत्ताऽऽलापकाऽऽदि सर्वाऽऽत्मना स्वाऽऽत्मनि परिणामयतः शिष्यस्य सूत्रगताशेषग्रहणकालं प्रतीक्ष्य शक्तयनुरूपप्रदानेन प्रयोजकत्वमनुभूय परिनिर्वाप्य वाचनता / पूर्वदत्ताऽऽलापकानधिगमय्य शिष्याय पुनः सूत्रदाने, स्था० 8 ठा०। वाचनासंपर्दोदे, उत्त०१ अ०। परिनिव्वविय वायणा, जेत्तिय मेत्तं तु तरइ उग्घेउं। जोहगदिटुंतेणं, परिचिते ताव तमुद्दिसति।। परिनिर्वाप्य वाचयति, किमुक्तं भवति? जोहकदृष्टान्तेन यावन्मात्रमवग्रहीतु शक्रोति तावन्मात्रमग्रेतनपरिचितेतामुद्विशति। एषा परिनिर्वाप्य वाचना। व्य० 10 उ०। परिणिध्वयंत त्रि० (परिनिर्बजत्) परिसमन्ताद्वजत्। संयमानुष्ठानोद्युक्ते, सूत्र०१ श्रु०३ अ० 330 / परिणिव्वाण न० (परिनिर्वाण) परि समन्तान्निर्वातीति निर्वाणम् / सकलकर्मकृतविकारनिराकरणतः स्वस्थीभवनं परिनिर्वाणम्। स्था०१ ठाण अनिवृत्तिरूपे, आचा०१ श्रु०४ अ०२ उ०। सर्वकर्मक्षयरूपे (संथा०) सुखे, आचा०१ श्रु०१ अ०६ उ०। सर्वदुःखानामन्ते, ए०सू०४ सूत्र। कल्प०। मोक्षगमने, आव०४ अ०। स्वस्थीभवने, नि०१ श्रु०५ वर्ग 1 अ०।"एगे परिणिव्वाणे।" परिनिर्वाणम् एकमेकदा तस्य संभवे पुनरभावादिति। स्था० 1 ठा०। कर्मकृतसन्तापाभावेन शीतीभवने, औ०। उपरती, मरणे, ज्ञा०१ श्रु०१ अ01 परिणिव्वाणचरियणिबद्ध न० (परिनिर्वाणचरितनिबद्ध) तीर्थप्रवर्तन चरमपरिनिर्वाणनिबद्ध नाट्यविधौ, रा०। परिणिव्वाणपुर न० (परिनिर्वाणपुर) सिद्धिपत्तने, आव० 4 अ०) परिणिव्वाणमग्ग पुं० (परिनिर्वाणमार्ग) कर्माभावप्रभवसुखोपाये, उत्त० 2 अ०। निवृत्तिनगरीपथे, स्था० 6 ठा०। परिणिव्वाणवत्तिय पुं० (परिनिर्वाणप्रत्ययिक) परिनिर्वाणं मरणं, तत्र यच्छरीरस्य परिष्ठापनं तदपि परिनिर्वाणमेव, तदेव प्रत्ययो हेतुर्यस्य सः। मृतपरिष्ठापननिमित्तके कायोत्सर्गे, 'तएणं ते थेरा भगवंतो खंदयं अणगारं कालगयं जाणित्ता परिणिव्वाणवत्तियं काउस्सगं करेइ भ०२ श० १उ०। परिणिव्वुइस्त्री० (परिनिर्वृति) परिनिर्वाण, आनन्दसुखावाप्ती, सूत्र०२ श्रु०२ अ०। परिणिव्युय त्रि० (परिनिर्वृत) परि समन्तान्निर्वृतः। अशेषकर्भक्षयं कृतवति, सूत्र० 2 श्रु०१ अ० / कर्मकृतविकारविरहात् स्वस्थीभूते, स्था०१ ठा० / निर्वाणं गते, पञ्चा० 16 विव० / स्था०। जं०। कर्मक्षयसिद्धे, सर्वतः शारीरमानसा स्वास्थ्यविरहिते, 'एगे परिणिव्वुए।'' परिनिर्वृत एकः, द्रव्यार्थतया परिनिर्वृतशब्दाभिधेयत्वसाम्यात् वा / अन्यथा स्वनन्ताः / स्था०१ ठा०। कषायोपशमाच्छीतीभूते, परिनिर्वृत (सिद्ध) कल्पे, सूत्र०१ श्रु०३ अ०४ उ०। आचा०ा रागद्वेषविरहाच्छान्तीभूते, सूत्र०१श्रु०३ उ०। स्वास्थ्यातिरेकात् (ज्ञा०१ श्रु०५ अ०) सर्वसन्तापवर्जित, कल्प० 1 अधि०६ क्षण / परि समन्तात्सर्वप्रकारैर्निर्वृतः। सकलसमीहितार्थलाभ-प्रकर्षप्राप्तत्वात् शीतीभूते, अनु०। परिणीआ स्त्री० (परिणीता) विवाहितकुमारिकायाम्, पाइ० ना०२२२ गाथा। परिण त्रि० (परिज्ञ) परि समन्ताद् विशेषतो जानातीति परिज्ञः / ज्ञानयुक्ते, "ण इत्थी ण पुरिसे ण अण्णहा परिणे।" आचा०१ श्रु०५ अ०६ उ०। परिणचारिण त्रि० (परिज्ञाचारिन्) परिज्ञानं परिज्ञा सदसद् विवेकः, तया चरितु शीलमस्येति परिज्ञाचारी। ज्ञानपूर्वक्रियाकारिणि, "तहा विमुक्कस्स परिणचारिणो, धितीमतो दुक्खखमस्स भिक्खुणो / ' आचा०२ श्रु०४ चू०१ अ० परिण्णा स्त्री० (परिज्ञा) परिज्ञानं परिज्ञा। अवबोधे , षो०५ विवा ज्ञाने, स्था०८ ठा० / सदसद्विवेके, आचा०२ श्रु० 4 चू०१ अ०। सूत्र० / ध० र०। आव०। केवलेन मनसा पर्यालोचने, सूत्र०१ श्रु०१०१ उ०। ज्ञानपूर्वके प्रत्याख्याने, स्था०६ ठा०। परिज्ञानिक्षेपःणाम ठवणपरिन्ना, दव्वे भावे य होइ नायव्वा / दव्वपरिन्ना तिविहा, भावपरिन्ना भवे दुविहा / / 10 / / (णाममित्यादि) तत्रनामस्थापनाद्रव्यभावभेदात्परिज्ञा चतुर्धा। तत्रापि नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यपरिज्ञा प्रतिपादयन् गाथापरार्द्धमाह-द्रव्यपरिक्षेति / द्रव्यस्य द्रव्येण वा परिज्ञा द्रव्यपरिज्ञा, सा च परिच्छेद्यद्रव्यप्राधान्यात्तस्य च सचित्ताचित्तमिश्रभेदेन त्रैविध्यात्रिविधेति / भावपरिज्ञाऽपि ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभेदेन द्विविधेति, शेषस्त्वागमनोआगमज्ञशरीरभव्यशरीरव्यतिरिक्ताऽऽदिको विचारः शस्त्रपरिज्ञावद्रष्टव्यः। सूत्र०२ श्रु०३ अ०। परिज्ञा चतुर्धेत्याहदव्वं जाण पञ्च-क्खाणे दविए सरीर उवगरणे। भावपरिण्णा जाणण, पच्चक्खाणं च भावेणं // 37 // (दव्वे सञ्चित्ताऽऽदी, भावे अणुभवण जाणा सण्णा या मति होई जाणा पुण, अणुभवणा कम्मसंजुत्ता॥३८|| आहारभयपरिग्गह-मेहुणसुहदुक्खमोहवितिगिच्छा। कोहमाणमायलोभे, सोगे लोगे य धम्मोहे // 36 // *) तत्र द्रव्यपरिज्ञा द्विधा-ज्ञपरिज्ञा,प्रत्याख्य नपरिज्ञा च।ज्ञपरिज्ञा आगमनोआगमभेदाद् द्विधा, आगमतो ज्ञातानुपयुक्तः, नोआगमतस्त्रिधा० तत्र व्यतिरिक्ताद्रव्यपरिज्ञा यो यत् द्रव्य जानीते सचित्ताऽऽदिसा परिच्छेद्यद्रव्यप्राधान्यात द्रव्यपरिक्षेति, प्रत्याख्यानपरिज्ञाऽप्येवमेव, तत्र व्यतिरिक्तद्र