________________ परिणामिय 616 - अभिधानराजेन्द्रः - भाग 5 परिणामिया सि ज्वलभीमशब्दरूपाणि, अमोघाः सूर्यबिम्बादधः कदाचिदुपलभ्यमानशकटोर्द्धिसंस्थितश्यामाऽऽदिरेखाः, वर्षाणि भरताऽऽदीनि, वर्षधरास्तु हिमवदादयः, पातालाः पातालकलशाः, शेषास्तु ग्रामाऽऽदयःप्रसिद्धा एव। अत्राऽऽहननु वर्षधराऽऽदयः शाश्वतत्वात्न कदाचितद्भावं मुञ्चन्ति तत्कथं सादिपारिणामिकभाववर्तित्वं तेषाम्? नैतदेवम्, तदाकारमात्रतयैव तेऽवतिष्ठमानाशाश्वता उच्यन्ते, पुद्गलास्त्वसंख्येयकालादूर्व न तेष्वेवावतिष्ठन्ते, किं त्वपरापरे तद्भावेन परिणमन्ति, तावत्कालादूर्द पुद्रलानामेकपरिणामेनाऽवस्थितेः प्रागेव निषिद्धत्वादिति सादिपारिणामिकता न विरुध्यते, अनादिपारिणामिके तु धर्मास्तिकायाऽऽदयः, तेषां तद्रूपतया अनादिकालात्परिणतः, वाचनान्तराण्यपि सर्वाण्यक्तानुसारतो भावनीयानि / (से तं इत्यादि) निगमनद्वयम्। अनु०। आभ्यन्तरचित्ते, "परिणामियं पमाणं, णिच्छयमवलंबमाणाणं (81)" जी०१४ अधि०। परिणामिया स्त्री० (पारिणामिकी) परिसमन्तानमनं परिणामः / सुदीर्घकालपूर्वापरपर्यालोचनजन्य आत्मनो धर्मविशेषः स प्रयोजनमस्थाः पारिणामिकी / नं० / परिणामजन्ये बुद्धिभेदे, आ०म० 1 अ०। संप्रति पारिणामिकया लक्षणमाहअणुमाणउद्दिटुं-तसाहिया वयविवागपरिणामा। हियनिस्सेसफलवई, बुद्धी परिणामिया नाम / / 11 / / "अणुमाण'' इत्यादि। लिङ्गात् लिङ्गिनि ज्ञानमनुमानं, तच स्वार्थानुमानमिह द्रष्टव्यम्, अन्यथा हेतुग्रहणस्य नैरर्थक्याऽऽपत्तेः। अनुमानप्रतिपादकं ववो हेतुः, परार्थानुमानमित्यर्थः / अथवा-ज्ञापकमनुमान कारकं हेतुः, दृष्टान्तः प्रतीतः। आह अनुमानग्रहणेन दृष्टान्तस्य गतत्वादलमस्योपन्यासः। न अनुमानस्य क्वचिद्दृष्टान्तमन्तरेणाऽन्यथानुपपत्तिग्राहकप्रमाणवलनप्रवृत्तेः / यथा सात्मकजीवच्छरीरं प्राणाऽऽदिमत्त्वान्यथानुपपत्तेः, न च दृष्टान्तोऽनुमानस्याङ्गम्। यत उक्तम्-"अन्यथाऽनुपपन्नत्वं यत्र तत् त्रयेण किं ततः पृथग्दृष्टान्तस्योपादानम्। तत्र साध्यस्योपमाभूतो दृष्टान्तः। तथा चोक्तम्-"यः साध्यस्योपमाभूतः स दृष्टान्त इति कथ्यते।" अनुमानहेतुदृष्टातैः साध्यमर्थ साधयतीति अनुमानहेतुदृष्टान्तसाधिका / तथा कालकृतो देहावस्थाविशेषो वयः, तद्विपाके परिणामः पुष्टता यस्याः सा वयोविपाकपरिणामा / तथा हितमभ्युदयो निःश्रेयसं मोक्षः ताभ्यां फलवती, ते द्वे अपि तस्याः फले इत्यर्थः / बुद्धिः पारिणामिकी नाम। नं०। (आव० 1 अ०६४८ गाथा)। अस्या अपि शिष्यगुणहितायोदाहरणैः स्वरूपं प्रकटयति "अभये' इत्यादि गाथा त्रयम्अभए सेट्ठि कुमारे, देवी उदिओइए हवइ राया। साहू य नंदिसेणे, धणदत्ते सावय अमचे / / 12 / / खमए अमच्चपुत्ते, चाणक्के चेव थूलिभद्दे य / नासिक्कसुंदरीनं-दे वइरे परिणामिया बुद्धी।।१३।। चलणाहए आमडे, मणी य सप्पे य खग्गि थूभिंदे। परिणामियबुद्धीए, एवमाई उदाहरणा ।।१४।।नं०। (अभए त्ति) अभयकुमारस्य यचण्डप्रद्योतादरचतुष्टय मार्गण, यत्तु चण्डप्रद्योतं वध्वा नगरमध्येनाऽऽरटन्तं नीतवानित्यादि सा पारिणामिकी बुद्धिः / (सेट्टि त्ति) काष्ठ श्रेष्ठी, तस्य यत् स्वभार्यादुश्चरितमवलोक्य प्रव्रज्याप्रतिपत्तिकरणं, यच पुत्र राज्यमनुशासति वर्षाचतुर्मासिकानन्तरं विहारक्रमं कुर्वतः पुत्रसमक्ष धिग्जातीयैरूपस्थापिताया व्यक्षरिकाया आपन्नसत्त्वायास्त्वदीयोऽयं गर्भः त्वं च ग्रामान्तरं प्रति चलितः ततः कथमहं भविष्यामीति वदन्त्याः , प्रवचनापयशोनिवारणाय यदि मदीयो गर्भः ततो योनेविनिर्गच्छतु, नो चेदुदरं भित्त्वा निर्गच्छत्विति यद् शापप्रदानं सा परिणामिकी बुद्धिः / (कुमारे ति) मोदकप्रियस्य कुमारस्य प्रथमे वयसि वर्तमानस्य कदाचिद् गुणन्या (?) गतस्य प्रमदाऽऽदिभिः सह यथेच्छ मोदकान् भक्षितवतो जीर्णरोगप्रादुर्भावादतिपूतगन्धि वातकायमुत्सृजतो या उद्भूता चिन्ता / यथा अहो तादृशान्यपि मनोहराणि कणिकाऽऽदीनि द्रव्याणि शरीरसंपर्कवशात् पूतिगन्धानि संजातानि, तस्मात् धिग् इदम् अशुचि शरीरं, धिग्व्यामोहो, यदेतस्यापि शरीरस्य कृते जन्तुः पापान्यारभते, इत्यादिरूपा सा परिणामिकी बुद्धीः तत ऊर्द्ध तस्य शुभशुभतराध्यव्यवसायभावतोऽन्तर्मुहूर्तेन केवल ज्ञानोत्पत्तिः। (देवी त्ति) देव्याः पुष्पवत्यमिधानायाः प्रव्रज्यां परिपाल्य देवत्वेनोत्पन्नायाः यत्पुष्पचूलाऽभिधानायाः स्वपुत्र्याः स्वप्ने नरकदेवलोकप्रकटनेन प्रबोधकरणं सा पारिणामिकी बुद्धिः / (उदिओदए ति) उदितोदयस्य राज्ञः श्रीकान्तपतेः पुरिमतालपुरे राज्यमनुशासतः श्रीकान्तानिमित्तं वाराणसीवास्तव्येन धर्मरुचिना राज्ञा सर्वबलेन समागत्य निरुद्धस्य प्रभूतजनपरिक्षयभयेन यत् वैश्रणमुपवासं कृत्वा समाहूय सनगरस्याऽऽत्मनोऽन्यत्र संक्रामणं सा परिणामिकी बुद्धिः / (साहू य नंदिसेण त्ति) साधोः श्रेणिकपुत्रस्य नन्दिषेणस्य स्वशिष्यस्य व्रतमुज्झितुकामस्य स्थिरीकरणाय भगवद्वर्द्धमानस्वामिवन्दननिमित्तचलितमुक्ताऽऽभरणश्वेताम्बरपरिधानरूपरमणीयकविनिर्जितामरसुन्दरीकस्वान्तः पुरदर्शनं कृतं सा परिणामिकी बुद्धिः, स हि नन्दिषेणस्य तादृशमन्तः, पुरं नन्दिषेणपरित्यक्तं दृष्ट्वा दृढतरं संयमे स्थिरो बूभव। (धणदत्ते ति) धनदत्तस्य सुंसुमाया निजपुत्र्याश्चिलातीपुत्रेण मारितायाः कालमपेक्ष्य यन्मांसभक्षणं सा पारिणामिकी बुद्धिः / (सावगो त्ति) कोऽपि श्रावकः प्रत्याख्यातपरस्त्रीसंभोगः कदाचिन्निजजायासखीमवलोक्य तत्रातीवाध्युपपन्नः, तं च तादृशं दृष्ट्वा तद्भार्याऽचिन्तयत्, नूनमेवं यदि कथमप्येतस्मिन्नध्यवसाने वर्तमानो म्रियते तर्हि नरकगति तिर्यग्गतिं वा याति, तस्मात्करोमि किञ्चिदुपायमिति / तत एवं चिन्तयितत्वा स्वपतिमभाणीत् मात्वमातुरी भूरहमेतां विकालवेलायां संपादयिष्यामि, तेन प्रतिपन्न, ततो विकालवेलायामीषदन्धकारे जगति प्रसरति स्वसख्या वस्त्राण्याभरणानि च परिधाय सास्वसखीरूपेण रहसि तमुपासृपत् / स च सेयं मद्भार्यासनीत्यवगम्य तां परिभुक्तवान्, परिभोगेच कृतेऽपगतकामाध्यवसायोऽस्मरचप्राग्गृहीतंव्रतं, ततो व्रतभङ्गो मे समुदपादीति खेदं कर्तुं प्रवृत्तः, ततस्तद्भार्या तस्मै यथावस्थित निवेदयामास ततो मनाक् स्वस्थीबभूव गुरुपादमूल च गत्वा दुष्टमनः संकल्पनिमित्तव्रतभङ्गशुद्ध्यर्थं प्रायश्चित्तं व्रतिपन्नवान् श्राविकायाः पारि