________________ परिणाम 605 - अभिधानराजेन्द्रः - भाग 5 परिणाम निरवसे सं० जाव पञ्ज तासव्वट्ठसिद्धअणुत्तरोववाइय० जाव देवपंचिंदियकम्मासरीरमीसापरिणए वा, अपज्जत्तासव्वट्ठसिद्धअणुत्तरोववाइय० जाव कम्मासरीरमीसापरिणए वा / जइ वीससापरिणए किं वण्णपरिणए, गंधपरिणए, रसपरिणए, फासपरिणए, संठाणपरिणए? गोयमा ! वण्णपरिणए वा० जाव संठाणपरिणए वा / जइ वण्णपरिणए किं कालवण्णपरिणए, नीलवण्ण जाव सुकिल्लवण्णपरिणए? गोयमा ! कालवण्णपरिणए वा०जाव सुकिल्लवण्णपरिणए वा। जइ गंधपरिणए किं सुब्भिगंधपरिणए, दुन्भिगंधपरिणए? गोयमा! सुब्भिगंधपरिणए वा, दुब्भिगंधपरिणए वा / जइ रसपरिणए किं तित्तरसपरिणए पुच्छा? गोयमा ! तित्तरसपरिणए जाव महुरसपरिणए वा / जइ फासपरिणए किं कक्खडफासपरिणए० जाव लुक्खफासपरिणए? गोयमा! कक्खङकासपरिणए वा० जाव लुक्खफास-- परिणए वा / जइ संठाणपरिणए पुच्छा? गोयमा ! परिमंडलसंठाणपरिणए० जाव आययसंठाणपरिणए वा। (एगेत्यादि) (मणपओगपरिणए त्ति) मनस्तया परिणतमित्यर्थः / (वयप्पओपरिणए ति) भाषाद्रव्य काययोगेने गृहीत्वा वाग्योगेन निसृज्यमानं वाक्प्रयोगपरिणतमित्युच्यते। (कायपओगपरिणए त्ति)। औदारिकाऽऽदिकाययोगेन गृहीतमौदारिकाऽऽदिवर्गणाद्रव्यमौदारिकाऽऽदिकायतया परिणतं कायप्रयोगपरिणतमित्युच्यते / (सचमणेत्यादि) सद्भुतार्थचिन्तननिबन्धनस्य मनसः प्रयोगः सत्यमनःप्रयोग उच्यते / एवमन्येऽपि, नवरं मृषा असद्भूतोऽर्थः सत्यमृषामिश्रो, यथा पञ्चसु दारकेषु जातेषु दश दारका जाता इति असत्यमृषासत्यमृषास्वरूपमतिक्रान्तो यथा देहीत्यादि। (आरंभसच्चेत्यादि) आरम्भो जीवोपघातस्तद्विषयं सत्यमारम्भसत्यं तद्विषयो यो मनःप्रयोगस्तेन परिणतं यत्तत्तथा, एवमुत्तस्त्रापि, नवरमनारम्भो जीवानुपघातः। (सारंभ त्ति) सरम्भो वधसङ्कल्पः, समारम्भस्तु परिताप इति / (ओरालिएत्यादि)। औदारिकशरीरमेव पुद्गलस्कन्धरूपत्वेनोपचीयमानत्वात् काय औदारिकशरीरकायस्तस्य यः प्रयोग औदारिकशरीरस्य वा० यः कायप्रयोगः स तथा, अयं च पर्याप्तकस्यैव वेदितव्यस्तेन यत्परिणतं तत्तथा। (ओरालियमिस्सासरीरकायप्पओगपरिणए त्ति)। औदारिकमुत्पत्तिकाले असंपूर्ण सन् मिश्र कार्मणेनेति औदारिकमिश्र, तदेवौदारिकमिश्रक, तल्लक्षणं शरीरमौदारिकमिश्रकशरीर, तदेव कायस्तस्य यः प्रयोग औदारिकमिश्रकशरीरस्य वा य कायप्रयोगः स औदारिकमिश्रकशरीरकायप्रयोगस्तेन परिणतं यत्त तथा, अयं पुनरौदारिकमिश्रकशरीरकायप्रयोगो पर्याप्तकस्यैव वेदितव्यो, यत आह-"जोएण कम्मएणं, आहारेई अणंतरं जीवो। तेण परं मीलेणं, जाव सरीरस्य निप्फत्ती।।१।।" एवं तावत् कार्मणेनौदारिकशरीरस्य मिश्रतोत्पत्तिमाश्रित्य तस्य प्रधानत्वात्, यदा पुनरौदारिकशरीरो वैक्रियलब्धिसम्पन्नो मनुष्यः पञ्चेन्द्रियतिर्यग्योनिकः, पर्याप्तबादरवायुकाविको वा; वैक्रियं करोति तदौदारिककाययोग एव वर्तमानः प्रदेशान्विक्षिप्य वैक्रियशरीरयोग्यान् | पुगलानुपादाय यावद्वैक्रियशरीरपर्याप्त्या न पर्याप्ति गच्छति तावद्वैक्रियेणौदारिकशरीरस्य मिश्रताप्रारम्भकत्वेन तस्य प्रधानत्वादेवमाहारकेणाप्यौदारिकशरीरस्य मिश्रता वेदितव्येति / (वेउव्वियसरीरकायप्पओगपरिणए ति) / इह वैक्रियशरीरकायप्रयोगो वैक्रियपर्याप्तकस्येति (वेउब्वियमीसाशरीरकायप्पओगपरिणए त्ति)। इह वैक्रियमिश्रकशरीरकायप्रयोगो देवनारकेषूत्पद्यमानस्यापर्याप्तकस्य, मिश्रता चेह वैक्रियशरीररस्य कार्मर्णनैव, लब्धिवैक्रियपरित्यागे त्वौदारिकप्रवेशाद्धायामौदारिकोपादानाय प्रवृत्ते वैक्रियप्राधान्यादौदारिकेणापि वैक्रियस्य मिश्रतेति / (आहारगसरीरकायप्पओगपरिणए त्ति) इहाऽऽहारकशरीरकायप्रयोग आहारकशरीरनिवृत्तौ सत्या तदानीं तस्यैव प्रधानत्वात्। (आहारगमीसासरीरकायप्पओगपरिणए त्ति) इहाऽऽहारकमिश्रशरीरकायप्रयोग आहारकस्यौदारिकेण मिश्रतायां, सा च आहारकत्यागेनौदारिकग्रहणाभिमुखस्य। एतदुक्तं भवति-यदाहारकशरीरीभूत्वाकृतकार्यः पुनरप्यौदारिकं गृह्णाति तदाहारकस्य प्रधानत्यादौदारिकप्रवेश प्रति व्यापारभावान् परित्यजति यावत्सर्वथैवाऽऽहारकं तावदोदारिकेण सह मिश्रतेति। ननुन तत्तेन सर्वथा मुक्तं पूर्वनिर्वर्तितं तिष्ठत्येव तत्कथं गृह्णाति? सत्य तिष्ठति तत् तथाप्यौदारिकशरीरोपादानार्थ प्रवृत्त इति गुह्मत्येवेत्युच्यत इति। (कम्मासरीरकायप्पओगपरिणए त्ति) इह कार्मणशरीरकायप्रयोगे विग्रहे समुद्धातगतस्य च केवलिनस्तृतीयचतुर्थपञ्चमसमयेषु भवति / उक्त च- "कार्मणशरीरयोगी, चतुर्थक पञ्चमे तृतीये च'' इति। एवं प्रज्ञापनाटीकाऽनुसारेणौदारिकशरीरकायप्रयोगाऽऽदीनां व्याख्याशतकटीकाऽनुसारतः पुनर्मिश्रकायप्रयोगणामेवम् औदारिकमिश्र औदारिक एवापरिपूर्णो मिश्र उच्यते, यथा गुडमिश्र दधिन गुडतया नापि दधितया व्यपदिश्यते, तद् द्वाभ्यामपरिपूर्णत्वादेवमौदारिक मिश्र कार्मणेन नौदारिकतया नापि कार्मणतया व्यपदेष्टु शक्यमपरिपूर्णत्वादिति तस्यौदारिकमिश्रव्यपदेशः, एवं वैक्रियाऽऽहारकमिश्रावपीति, नवरम्(वायरवाउकाइय इत्यादि) यथौदारिकशरीरकायप्रयोगपरिणते सूक्ष्मपृथिवीकायिकाऽऽदिप्रतीत्यालापकोऽधीतस्तथौदारिकमिश्रशरीरकायप्रयोगपरिणतेऽपि वाच्यो नवरमयं विशेषः तत्र सर्वेऽपि सूक्ष्मपृथिवीकायिकाऽऽदयः पर्याप्तापर्याप्तविशेषणा अधीता इह तु बादरवायुकायिका गर्भजपञ्चेन्द्रियतिर्यग्मनुष्याश्च पर्याप्तकाsपर्याप्तकविशेषणा अध्येतव्याः शेषास्त्वपर्याप्तकविशेषणा एव यतो बादरवायुकायिकाऽऽदीना पर्याप्तकावस्थायामनि वैक्रियाऽऽरम्भणत औदारिकमिश्रशरीरकायप्रयोगोलभ्यते, शेषाणां पुनरपर्याप्तकाऽवस्थायामेवेति। (जहा ओगाहणसंढाणे ति) प्रज्ञापनाया एकविंशतितमेपदे तत्र चैवमिदं सूत्रम्-"जइ वाउकाइयएगिदियवेउटिवयसरीरकायप्पओ - गपरिणए किं सुहुसयाइकाइयएगिदिय० जाव परिणय, वायरवाउकाइयएगिदिय० जाव परिणए ? गोयमा ! नोसुहुम जाव परिणए वायर० जाव परिणए'' | इत्यादीति / (एवं जहा ओगाहणसंठाणे त्ति) तत्र चैवमिदं सूत्रम्- ''गोयमा ! नोअमणुस्साऽऽहारगसरीरकायप्पओ-''