________________ परिट्ठवणा 574 - अभिधानराजेन्द्रः - भाग 5 परिट्ठवणा तापोदकं स्वभावादेवोष्णं, शेषा आपोऽप्कायद्रव्याणि शीतानि, मिश्राणि वा शीतोष्णोभ स्वभावानि मन्तव्यानि / एवमेव शेषाण्यप्कायविरहितानि यानि यानि सर्वाण्यपि रूपिद्रव्याणि तानि कानिचिदुष्णानि, यथाऽग्निः, कानिचित् शीतानि, यथा हिम, कानिचित्तु शीतोष्णानि, यथा पृथिवी। एएण सुत्त न गतं, जो कायगताण होइ परिणामो। सीतोदगमिस्सियम्मि उ,दव्वम्मि उमग्गणा होति // 226 / / य एष कायगतानामोहारिताना द्रव्याणां परिणाम उक्तो, नैतेन सूत्रं गतं, किं तु शीतोदकमिश्रितेन सचित्तोदकमिश्रेण द्रव्येणेहाधिकारः। तत्र चेयं मार्गणा भवतिदुहतो थोवं एकेक्कएण अंतम्मि दोहि वी बहुगं। भावुगमभावुगं पि य, फासाऽऽदिविसेसितं जाण / / 230 // इह पूर्वगृहीते द्रव्ये यथा शीतोदकं पतति तदेयं चतुर्भङ्गी (दुहतो थोवं ति) स्तोकं पतितमिति प्रथमो भगः। (एक्किक्कएणं ति) स्तोके बहुकं पतितमिति द्वितीयः / बहुके स्तोकं पतितमिति तृतीयः। (अंतम्मि दोहि वी बहुगं ति) बहुके बहुपतितमिति चतुर्थः। यद्रव्यं पतति यत्र वा पतति तद्भावुकमभावुकं वा स्पर्शाऽऽदिविशे-षितंजानीयात्। किमुक्तं भवति ?स्पर्शरसगन्धैरुत्कटमयानि यदपराणि द्रव्याणि स स्याऽऽदिभिः भावयति परिणामयति तद्भावुकम्, तद्विपरीतमभावुकम्। ये च स्तोकबहुपदाभ्यां चत्वारो भङ्गाः कृतास्तेषु प्रत्येकममी चत्वारो भङ्गा भवन्ति-उष्णमुष्ण पतितम् 1 उष्णे शीतपतितं 2, शीते उष्णं पतितं 3. शीते शीतपतितम् / / एतेषु विधिमाहचरिमे विगिंचियव्वं, दोसु तु मज्झिल्ल पडिएँ भयणा उ। खिप्पं विगिंचियव्वं, मायविमुक्केण समणेणं // 231 / / चरमं नाम यत् शीते शीतं पतितं तत्पुनः स्तोके चाऽस्तोक पतितं, बहुलं पतितं भवेत् उभयमपि क्षिम विवेक्तव्यं परिष्ठापयितव्यम्। द्वयोस्तु मध्यमयोर्भङ्गयांरुष्णे शीतं पतितं, शीते उष्णं पतितमिति लक्षणयोर्वक्ष्यमाणा भजना भवति। यः पुनरुष्णे उष्णं पतितमिति प्रथमो भङ्ग, तत्र तत्क्षणादेव सचित्तभावो नापगच्छतीतिकृत्या क्षिप्रमेव मायाविमुक्तेन श्रमणेन तत् विवेचनीयम् / मायाविमुक्तग्रहणेनेदं ज्ञापयात-श धं परिष्ठापयितुकामोऽपि यावत् स्थण्डिलं गच्छति तावत्तत् अचित्तभूतं, ततः परिभुङ्क्ते, न परिष्ठापयति। अथ मातृस्थानेन मन्दं मन्दं गच्छति, चिन्तयति च तिष्ठतुं तावत्पश्चात्परिणतं परित्यक्ष्ये, एवं मायां कुर्वतः स्थण्डिलादर्वाक् परिणतमपि न कुरुते। अथमध्यमभङ्गद्वयभजनामाहथोवं बहुम्मि पडियं, उसिणे सीतोदकं ण उज्झंती। हंदिहु जाव विगिवति, भावेजति तावती तेणं // 232|| बहुके पूर्वगृहीते स्तोकं पतितमित्यत्र याष्णे बहुके शीतोदगं स्तोक पतितं तदा नोज्झंति कुत इत्याह-हन्दीत्युपदर्शते, यावत् विविनक्ति / तावत्तत् स्तोकं शीतोदकं तेन बहुकेनोष्णेन भाव्यते परिणमितं क्रियते, ततः परिभोक्तव्य तदिति भावः। जं पुण दुहतो उसिणे, सममतिरेगं च तक्खणा वेव / मज्झिल्लभंगएसुं, चिरं पि चिट्टे बहुं छूढं // 233 / / यत्पुनर्द्विधाऽप्युष्णं, उष्णे उष्ण पतितमित्यर्थः। तत्परिणामतः परस्पर समं तुल्य भवेत् / अतिरिक्तं वा द्वयोरेकतरमधिकतरं, तत्राऽपि तत्क्षणादेव, सचित्तभावो नापगच्छतीति वाक्यशेषः / यौ तु मध्यमौ द्वी भङ्गावूष्णे शीतं पतितं, शीते वा उष्णं पतितमिति लक्षणी, तयोः स्तोक बहु प्रक्षिप्तं चिरमपि सचित्तं तिष्ठत्, ततस्तदपि क्षिप्रं चिरेण वा विवेचनीयम्। अथोदकस्यैव परिणमनलक्षणमाहवण्णरसगंधफासा, महदव्वे जम्मि उक्कडा होति। तह तह चिरं न चिट्ठइ, असुमेसु सुभेसु कालेणं / / 234|| यस्मिन् द्रव्ये यथा वर्णगन्धरसस्पर्शा उत्कटतरा भवन्ति, तथा तथा तेन द्रव्येण सह मिश्रितमुदक चिरं न तिष्ठति, क्षिप्रं क्षिप्रतर परिणमतीति भावः / किमविशेषेणेत्याह-ये अशुभा वर्णाऽऽदय उत्कटास्तेष्वेव क्षिप्रं परिणमति, ये तु शुभा वर्णाऽऽदयस्तेषूत्कटेषु कालेन परिणमति, चिरादित्यर्थः। अत्रेद निदर्शनम्जो चंदणे कडुरसो, संसट्ठजले य दूसणा जा तु / सा खलु दगस्स सत्थं, फासो उ उवग्गहं कुणति // 235 / / इह तन्दुलोदकं चन्दनेन क्वाऽपि मिश्रितं, तत्र चन्दनस्य यः कटुको रसः स तन्दुलोदकस्य शस्त्रं, परं यस्तदीयः स्पर्शः शीतलः स जलस्योपग्रहं करोतीति कृत्वा चिरेण परिणमति, एवं संसृष्टजलस्याऽपि या दूषणा अम्लरसता, साउदकस्य शस्त्र, स्पेशेषु शीतलत्वादुपग्रहकारी, अतश्चिरेण परिणमात। घयकिट्टविस्सगंधो, दगसत्थं मधुरसीतलं ण घतं / कालंतरमप्पुण्णा, अंविलया चाउलोदगस्स।।२३६|| घृतस्य संबन्धी यः किट्टस्तेन यश्च विश्रोगन्धस्तावुदकस्य शस्त्रं, या रसेन मधुरं स्पर्शन च शीतलं घृतं, तदुपग्रहं करोतीति शस्त्रं न भवति। अतश्चिरात्परिणमति, तथा कुकुसैरभिगुलिकैस्तन्दुलोदकस्योष्णता यत्कालान्तरेणोत्पन्ना साऽप्युदकस्य शस्त्रं भवति। अव्वुक्कं ते जति चा-उलोदए छुज्झते जलं अण्णं / दोणि वि चिरपरिणामा, भवंति एमेव सेसा वि // 237|| अव्युत्क्रान्ते अपरिणते तन्दुलोदके पंद्यन्यदपरं सचित जलं प्रक्षिप्यते, ततो द्वे अप्युदके चिरपरिणामे भवतः, शेषाण्यपि यानि संसृष्टपानके (?) पानकाऽऽदीनि तेष्वपि सचित्तोदकं यदि प्रक्षिप्यते, तत एवमेव तान्यपि चिरात्परिणमन्तीति। अथ द्वितीयपदमाहथंडिल्लस्स अलंभे, अद्धाणोमअसिवे गिलाणे य। सुद्धा अविचिंता आ-उट्टिया गेण्हमाणा वा / / 238|| स्थण्डिलस्यालाभे अपरिणतपानकमपरिष्ठापयन्तोऽपि शुद्धाः / अध्वामाशिवग्लानाऽऽदिकारणेषु पानकस्य दुर्लभतायामविगिचयन्तोऽपरिष्ठापयन्त आकुट्टिकया वा जानन्तोऽपि गृह्णन्तः शुद्धाः। बृ० 5 उ०। अधुना पञ्चेन्द्रियत्रसपारिस्थापनिका विवृण्यन्नाहपंचिंदिएहिँ जा सा, सा दुविहा होइ आणुपुवीए।