________________ परिग्गह 553 - अभिधानराजेन्द्रः - भाग 5 परिग्गह णेरः / अमिलान्यूर्णावस्त्राणि, काष्ठानि श्रीपर्णाऽऽदिफलकाऽऽदीनि, चर्माणि सिंहाऽऽदीना, दन्ता गजाऽऽदीनां, बालाश्चमर्यादीनां द्रव्यौषधानि पिप्पल्पादीनि। (स्थावरम् 'थावर' शब्दे चतुर्थभागे 2408 पृष्ठे गतम्) (द्विपदं 'दुपय' शब्दे चतुर्थभागे 2560 पृष्ठे द्रष्टव्यम्) (चतुष्पदम् 'चउप्पद' शब्दे तृतीयभागे १०५०पृष्ठ गतम्) (कुप्यस्वरूपम् 'कुम्प' शब्दे तृतीयभागे 586 पृष्ठ गतम्) नानाविधमपि कुप्यमेकमेव, यथा- "नाणाविहोवगरण, णेगविहं कुप्पलक्खण होद्द। एसो अत्थो भणिओ, छव्विह चउसहिभेओ उ॥१॥" चतुःषष्टिभेदोऽप्येष नवविधपरिग्रहेऽन्तर्भवति। ध०२ अधि० / प्रव०। नं0 आतु०। आचा०/बृ०॥ (परिगहं अममायमाणे) परिगृह्यत इति परिग्रहः-संयमातिरिक्तमुपकरणाऽऽदिः, तमममीकुर्वन्-अस्वीकुवन्मनसाऽप्यनाददान इति यावत् / स एवंविधो भिक्षुः कालज्ञो बलज्ञो, मात्रज्ञः, क्षेत्रज्ञः,खेदज्ञः, क्षणज्ञो, विनयज्ञः, समयज्ञो, भावज्ञः, परिग्रहमममीकुर्वाणश्च / आचा०१ श्रु०२ अ०५ उ०। "बहु पि लब्धंण णिहे ति।" (60 सूत्र) (बहुं पि) बहपिलब्ध्वा (न निहे त्ति) न स्थापयेन्न सन्निधिं कुर्यात्, स्तोकं तावन्न सन्निधीयत एव, बहुपि न सन्निदध्यादित्यपिशब्दार्थः न केवलमाहारसन्निधिं न कुर्याद, अपरमपि वस्त्रपात्राऽऽदिक संयमोकरणातिरिक्तं न विभृयादित्याह-परिगृह्यत इति परिग्रहो धर्मोपकरणातिरिक्तमुपकरणं, तस्मादात्मानमपष्वष्केद पसर्पयद्, अथवा संयमोपकरणमपि मूर्च्छया परिग्रहो भवति, "मूर्छा परिग्रहः।' (तत्त्वात अ०८ सूत्र०) इति वचनात्, तत आत्मानं परिग्रहादपसर्पयन्नुपकरणे तुरगवद् मूर्छा न कुर्यात् / आचा०१ श्रु०२ अ० 5 उ० / (धर्मोपकरणं न परिग्रहे गृहीतमिति 'धम्मोवगरण' शब्दे चतुर्थभागे 2763 पृष्ठे गतम्) कर्मशरीरभाण्डपरिग्रहो:कइविहे णं भंते ! परिग्गहे? गोयमा! तिविहे परिग्गहे पण्णत्ते।। तं जहा-कम्मपरिग्गहे, सरीरपरिग्गहे, बाहिरभंडमत्तोवगरणपरिग्गहे। णेरइयाणं भंते ! एवं जहा उवहिणा दो दंडगा भणिया तहेव परिग्गहेण वि दो दंडगा भाणियव्वा / (परिगहे त्ति) परिगृह्यत इति परिग्रहः / अथैतस्योपधेश्च को भेदः? उच्यते-उपकारकः, उपधिर्ममत्वबुद्ध्या परिगृह्यमाणस्तु परिग्रह इति। भ०१८ श०७ उ०। तिविहे परिग्गहे पण्णत्ते / तं जहा कम्मपरिग्गहे, सरीरपरिग्गहे, बाहिरभंडणमत्तपरिग्गहे / एवमसुरकुमाराणं एवं एगिंदियनेरइयवजंजाव वेमाणियाणं / अहवा-तिविहेपरिग्गहे पण्णते / तं जहा-सचित्ते, अचित्ते, मीसए! एवं नेरझ्याणं निरंतरं.जाव वेमाणियाणं। परिगृह्यते स्वीक्रियत इति परिग्रहो मूर्छाविषय इति / इह चैषामयमिति व्यपदेशभागो ग्राह्यः। स च नारकैकेन्द्रियाणां कर्माऽऽदिरेव संभवति, न भाण्डाऽऽदिरिति। स्था०३ ठा० 1 उ०। दश०। द्रव्याऽऽदिवतुर्विधपरिग्रहेषु जघन्यतोऽतिचारे सत्येकाशनम्, मध्ये आचाम्लम्, उत्कृष्ट क्षपणम् / जीतः / "विभूसावतिएण वा परिग्गहं सुहुमं वा, वायरं वा / तत्थ सुहुमंकम्मट्ठगरक्खणसमत्थो, बादरं हिरण्णमादीणं गहणे धारणे वा।" प्रवृत्तः चारित्रकुशीलो भवति।महा०३ अ० / “जत्थ व अज्जालद्ध, पडिग्गहमादिवि-विहउवगरण। परिभुंजइ साहूहि, तं गोयम ! केरिसं गच्छ ? ||1||" महा०५ अ०। परिग्रहःअत्थेगे गोयमा ! पाणी, जे णो चयइ परिग्गहं / जावइयं गोयमा! तस्स, सचित्ताचित्तमीसग / / पभूयं वाणुजीवस्स, भवेजा उ परिग्गहं। तावइएणं तु सो पाणी, ससंगो मुक्खसाहणं / / णाणातिगंण आराहे, तम्हा वजे परिग्गह। अत्थेगे गोयमा! पाणी, जे य हित्ताएँ परिग्गहं / / आरंभं नो विवजेजा, जंतिय भवपरंपरं / महा०२ अ०। जंबू ! एत्तो परिग्गहो पंचमो नियमा णाणामणिकणगरयणमहरिहपरिमलसपुत्तदारपरिजणदासीदासभयगप्पेसहयगयगोमहिसउट्टखरअथगवेलगसिवियासगडरहजाणजुगासंदणसयणाऽऽसणवाहणकुवियधणघण्णपाणभोयणआच्छायणगंधमल्लभायणभवणविहि चेव बहुविहियं भरहं नगनगरनिगमजणवयपुरवरदोणमुहखेडकव्वडमडंबसंवाहपट्टणसहस्समंडियं थिमियमेयणीयं एगच्छत्तं ससागरं भुंजिऊण वसुहं अपरिमियमणंततण्हमणुगयमहिच्छासारनिरयमूलो लोभकलिकसायमाहखंधो चिंताऽऽयासनिचियविपुलसालो गारवपविरेलियग्गविडवो नियडितया पत्तपल्लवधरो पुप्फफलं जस्स कामभोगा आयासविसूरणाकलहपकंपियग्गसिहरो नरवइसंपूजिओ बहुजणस्स हिययदइओ इमस्स मोक्खवरमुत्तिमग्गस्स फलिहभूओ चरिमं अहम्मदारं / / (जंबू ! इत्यादि) जम्बूरिति शिष्याऽऽमन्त्रणम्। (एतो ति) इतश्चतुर्थाऽऽश्रवद्वारादनन्तर परिग्रहणं परिग्रह्यत इति परिग्रहः / इह च परिग्रहशब्दोपादानेऽपि वक्ष्यमाणविशेषणाऽन्यथाऽनुपपत्त्या परिग्रहतरूरिति द्रष्टव्यम्। पञ्चमस्तु पञ्चमः पुनराश्रवो भवतीति गम्यते / पञ्चमत्वं चाऽस्य तत्र क्रमाऽऽश्रयणात् नियमान्निश्चयेन नान्यः पञ्चमत्वमाग्रवाणां लभते मध्ये कथम्भूतोऽसावित्याह-(नानामणी यदि) तत्र नानामण्यादि-विधेः भारत वसुधां च भुक्त्वाऽपि या अपरिमितानन्ततृष्णा अनुगता च महेच्छा सैव मूलं यस्य परिग्रहतरोः स तथेति सम्बन्धः / तत्र नानाविधा ये मणयः चन्द्रकान्ताऽऽद्याः, कनक च सुवर्ण रत्नानिच कर्केतनाऽऽदीनि, महार्हयरिमलाः महार्हसुगन्धद्रव्याऽऽमोदाथे सपुत्रदाराः सुतयुक्तकलत्राणि, तेच परिजनश्व परिवारा दासीदासाश्व चेटीवेटाः,भृतकश्चराः,प्रेष्याश्च प्रयोजनेषु प्रेषणीयाः हयगजगोमहिषोष्ट्रखराजगवेलकाश्च प्रतीताः / शिविकाश्च कूटाऽऽच्छादितजम्पानवेशेषाः शक्टानि चगन्त्र्य, स्थाश्च प्रतीताः, यानानि च गन्त्रीविशेषाः, युग्यानि च वाहनानि गोलदेशप्रसिद्धजम्पानविशेषा वा, स्यन्दनाश्व रथविशेषा, शयनाऽऽसनानि च प्रतीतानि, वाहनानि यानपा