________________ परतत्त 523 - अमिधानराजेन्द्रः - भाग 5 परतत्त तदेव विशिनष्टिनिर्वाणसाधनं भुवि, भव्यानामग्र्यमतुलमाहात्म्यम्। सुरसिद्धयोगिवन्द्यं, वरेण्यशब्दाऽभिधेयं च // 4 // (निर्वाणत्यादि) निर्वाणसाधनं परमपदप्रापक सुखसाधनं वा भुवि पृथिव्यां, भव्याना योग्यानामग्र यं प्रधानम्, अतुलमाहात्म्यमसाधारणप्रभावं, सुरा देवाः सिद्धा विद्यामन्त्रसिद्धाऽऽदयो योगिनो योगबलसंपन्नाः, तैर्वन्द्यं वन्दनीयं स्तुत्य, वरेण्यशब्देनाभिधेयं वाच्यं वरेण्यशब्दाभिधेयं च, जिनेन्द्ररूपं धयेयमित्यभिसंबध्यते / / 4 / / एवमाद्यं सालम्बनध्यानमभिधाय तत्फलमभिधित्सुराहपरिणत एतस्मिन् सति, सद्ध्याने क्षीणकिल्विषो जीवः। निर्वाणपदाऽऽसन्नः,शुक्लाऽऽभोगो विगतमोहः / / 5 / / (परिणत इत्यादि) परिणते सात्मीभूते एतस्मिन् सति प्रस्तुते, सद्ध्याने शोभनध्याने, क्षीणकिल्मिषः क्षीणपापो, जीव आत्मा, निर्वाणपदस्याऽऽसन्नः प्रत्यासत्तिमान्, शुक्लाऽऽभोगः शुक्लज्ञानोपयोगो, विगतमोहोऽपगतमोहनीयः / / 5 / / चरमावञ्चकयोगा-त्प्रातिभसंजाततत्त्वसंदृष्टिः। इदमपरं तत्त्वं तद्, यद्शतस्त्वस्त्यतोऽप्यन्यत्॥६॥ (चरमेत्यादि) चरमावञ्चकयोगात् फलावञ्चकयोगात् प्रागुक्तात् प्रतिभा मतिस्तत्र भवं प्रातिभ, प्रतिभैव वा प्रातिभ, तेन संजाता तत्त्वसंदृष्टिस्तत्वसदर्शनं यस्य स प्रातिभसंजाततत्त्वसंदृष्टिः, परिणत एतस्मिन् भवतीत्यवसयम्। इदमिति प्रत्यक्षीकृतं सालम्बनध्यानद्वारेण जिनेन्द्ररूपम्, अपरमर्वागभागवर्ति परस्मादन्यत्, तत्त्वं परमार्थरूपं, ध्येयं तद्वर्तते / यद्वशतस्तु यद्वशादेव, यत्सामर्थ्यादपरतत्त्वसामर्थ्यादित्यर्थः / अस्ति भवत्योऽप्यपरतत्त्वादन्यत्परतत्त्वं मुक्तिस्थम् / इदमुक्तं भवतिसर्वस्याऽपि ध्यानपरस्य योगिनोऽपरतत्त्ववशात्परंतत्वमाविर्भवतीति।६।। कस्मात्पुनः परं तत्त्वमेवं संस्तूयत इत्याहतस्मिन् दृष्टे दृष्टं, तद्भूतं तत्परं मतं ब्रह्म। तद्योगादस्याऽपि, ह्येषा त्रैलोक्यसुन्दरता |7|| (तस्मिन्नित्यादि) तस्मिन्परतत्त्वे सिद्धस्वरूपे, दृष्टे समुपलब्धे, दृष्ट सर्वमव वस्तु भवति, जीवाऽऽद्यमूर्त्तवस्त्वालम्बनस्य बोधस्य सर्वविषयत्वात् / तद्भूतं तदेव सिद्धस्वरूपं भूतं सत्यं संसारिजीवस्वरूपस्य ज्ञानाऽऽवरणाऽऽदिकऽिऽवृतस्य सद्भूततत्त्ववियोगात्। कर्ममलमलिनस्य ह्यात्मनो न भूतं रूपमुपलक्ष्यते, तद्विकाररुपद्रूयमाणत्वात्, सिद्धस्थरूपस्य तु निरुपद्रवत्वात् भूतमेव स्वरूपं सर्वदा समुपलभ्यते, नेतरत, तदेव परमात्मस्वरूपं परं प्रकृष्ट मतमभिप्रेतं, ब्रह्म महत्, बृहत्तम न ततोऽन्यदस्ति, तद्योगात्परतत्त्वयोगात्, अस्याऽपि हि परतत्त्वविषयध्यानविशेषस्यानालम्बनयोगस्य, एषा लोके लोकोत्तरे च प्रसिद्धा, त्रैलोक्यसुन्दरता त्रैलाक्ये सर्वस्मिन्नपि जगति विशेषवस्तुभ्यः सुन्दरता शोभनता / / 7 / / कः पुनर्निरालम्बनयोगः कियन्तं कालं भवतीत्याहसामर्थ्ययोगितो या, तत्र दिदृक्षेत्यसङ्गशक्त्यादया। साउनालम्बनयोगः, प्रोक्तस्तदर्शनं यावत् // 8 सामर्थ्ययोगतः शास्त्रोक्तत्वात् क्षपक श्रेणीद्वितीयाऽपूर्वकरणभाविनः सकाशात्। सामर्थ्ययोगस्वरूपं चेदम्-"शास्त्रसन्दर्शितोपायस्तदतिक्रान्तगोचरः / शक्त्युकाद्विशेषण, सामर्थ्याऽऽख्योऽयमुत्तमः / / 1 / / " या तत्र परतत्त्वे द्रष्टुमिच्छा दिदृक्षा, इत्येवस्वरूपाऽसङ्गा चाऽसौ शक्तिश्च निरभिष्वङ्गाऽनवरतप्रवृत्तिस्तयाऽऽढ्या परिपूर्णा दिदृक्षा। सा परमाऽऽत्मविषयदर्शनच्छा, अनालम्बनयोगः प्रोक्तस्तद्वेदिभिस्तस्य परतत्त्वस्य दर्शनमुपलम्भस्तद्यावत्। परमात्मस्वरूपदर्शन तु केवलज्ञानेन अनालम्बनयोगो न भवति, तस्य तदालम्बनत्वात् // 8 // कथं पुनरनालम्बनोऽयमित्याहतत्राऽप्रतिष्ठितोऽयं, यतःप्रवृत्तश्च तत्त्वतस्तत्र। सर्वोत्तमानुजः खलु, तेनानालम्बनो गीतः।।६।। तत्र परतत्त्वेऽप्रतिष्ठितोऽलब्धप्रतिष्ठः, अयमनालम्बनो, यतो यस्मात्प्रवृत्तश्च ध्यानरूपेण तत्त्वतो वस्तुतस्तत्र परतत्त्वे, सर्वोत्तमानुजः खलु सर्वोत्तमस्य योगस्यानुजः प्रागनन्तरवर्ती, तेन कारणेनानाऽलम्बनो, गीतः कथितः / / 6 / / किं पुनरनालम्बनाद्भवतीत्याहद्रागस्मात्तद्दर्शन-मिषुपातज्ञातमात्रतो ज्ञेयम् / एतच केवलं तज्-ज्ञानं यत्तत्परं ज्योतिः ||10|| (द्रागित्यादि) द्राक्शीघ्रमस्मात्प्रस्तुतादनालम्बनात्तद्दर्शन परतत्त्वदर्शनमिषोः पातस्तनिषयं ज्ञातमुदाहरणं तन्मात्रादिषुपातज्ञातमात्रतो, ज्ञेयं दर्शनम् / एतच परतत्त्वदर्शन केवल संपूर्ण , तदिति तत्प्रसिद्ध ज्ञानं केवलज्ञानमित्यर्थः। यत्तत्केवलज्ञानं, परं प्रकृष्ट, ज्योतिः प्रकाशरूपम् / इषुपातोदाहरणं च, यथा-केनचिद् धनुर्द्धरेण लक्ष्याभिमुखे वाणे तदविसंवादिनि प्रकल्पिते यावत्तस्य वाणस्य न विमोचनं तावत्तत्प्रगुणतामात्रेण तदविसंवादित्वेन च समानोऽनालम्बनो योगो, यदा तु तस्य वाणस्य विमोचनं लक्ष्याविसंवादिपतनमात्रादेव लक्ष्यवेधकंतदाऽऽलम्बनोत्तरकालभावी तत्पातकल्पः सालम्बनः केवलज्ञानप्रकाश इत्यनयोः साधर्ममङ्गीकृत्य निदर्शनम् / / 10 / / कीदृशं पुनस्तत्केवलज्ञानमित्याहआत्मस्थं त्रैलोक्य-प्रकाशकं निष्क्रियं परानन्दम्। तीताऽऽदिपरिच्छेदक-मलं ध्रुवं चेति समयज्ञाः।।११।। (आत्मस्थमित्यादि) आत्मनि तिष्ठतीत्यात्मस्थं जीवस्थंसत् त्रैलोक्यस्य त्रिलोकीव्यवस्थितस्य ज्ञेयस्यजीवाजीवस्वरूपस्य, प्रकाशकमयबोधकमात्मनः परेषां च पदार्थानां स्वरूपज्ञापकं वा, निष्क्रिय गमनाऽऽदिक्रियारहित, पर आनन्दोऽस्मिन्निति परानन्दम। पाठान्तरं वापरैरानन्धमभिनन्दनीयतत्प्राप्त्यर्थिभः श्लाधनीय, रोचनीयमिति यावत्। तीताऽऽदिपरिच्छेदकम् अतीतशब्दस्यार्थेऽतीतशब्दो वर्तते, सिद्धविनिश्चयाऽऽदिग्रन्थेषु दर्शनात् / इताऽऽदिपरिच्छेदकं वा; इतं गतमतिक्रान्तम् अतीतवर्तमानानागताना कालत्रयविषयाणां पदार्थाना, परिच्छेदक परिच्छेत्तृ, ज्ञातृस्वभावम्, अलं समर्थ, ध्रुवं चेति शाश्वतं चेति, समयज्ञा आगमज्ञा इत्थमभिदधति। कथपुनरतीताऽऽदिपरिच्छेदकत्वं केवलज्ञानस्य यावताऽतीतानागतवोर्विचार्यमाणयोर्वस्तुत्वमेव न घटां प्राशति, विनष्टानुत्पन्नत्वेनासत्वादसतश्च ज्ञानविषयत्वविरोधादिति। अत्रोच्यतेन वर्तमानकालविषयकपर्यायप्रतिबद्धस्वभाव वस्तु, तस्य क्षणमात्रवृत्तित्या