________________ पएस 23 - अभिधानराजेन्द्रः - भाग 5 पएस लेसा, सागारोवउत्तअणागारोवउत्तेहिं जीवे गिं दियवज्जो तियभंगो,सवेयगा जहा सकसाई इत्थीवेयगपुरिसवेयगनपुंसगवेयगेसु जीवादिओ तियभंगो, णवरं नपुंसगवेदे एगिदिएसु अभंगयं, अवेयगा जहा अकसाई, ससरीरी जहा ओहिओ, ओरालियवेउटिवयसरीराणं जीवेगिं दियवज्जो तियभंगो, आहारगसरीरे जीवमणुएसु छन्भंगा, तेयगकम्मगाई जहा ओहिया, असरीरेहिं जीवसिद्धेहिं तियभंगो, आहारपज्जत्तीए सरीरपञ्जत्तीए इंदियपज्जत्तीए आणापाणपज्जत्तीएजीवेगिदियवज्जो तियभंगो, भासामणपज्जत्ती जहा सन्नी, आहारअपज्जत्ती जहा अगाहारगा, सरीरअपजत्तीए इंदियअपज्जत्तीए आणापाणअपजत्तीए जीवे एगिदियवजो तियभंगो, नेरइयदेवमणुएहिं छन्भंगा, भासामण-अपज्जत्तीए जीवादिओ तियभंगो, णेरइयदेवमणुएहिं छन्भंगा। "सपएसाहारगभवियसयण्णिलेसदिविसंजयकसाए।नाणे जोगुवओगे, वेए यसरीरपज्जत्ती॥१॥" जीद णमित्यादि) (कालादेसेणं ति) कालप्रकारेण, कालमाश्रित्येत्यर्थः। (सपएस ति) सविभागः। (नियमा सपएसे ति) अनादित्वेन जीवस्यानन्त स्मयस्थितिकत्वात्सप्रदेशता, यो ह्येकसमयस्थितिः सोऽप्रदेशः / व्यादिसमयस्थितिस्तु सप्रदेशः। इह चानया गाथया भावना कार्या'जो जस्त पढमसमए, वट्टइ भावस्स सो उ अपएसो। अण्णम्मि वट्टमाणो, कालाएसेण सपएसो।।१।।''नारकस्तु यः प्रथमसमयोत्पन्नः सोऽप्रदेशो. द्वयादिसमयोत्पन्नः पुनः सप्रदेशः। अत उक्तम्- 'सिय सपएर सिब अपएसे।'' एष तावदेकत्वेन जीवाऽऽदिः-सिद्धावसानःषविंशतिदण्डकः कलसप्रदेशत्वाऽऽदिना चिन्तितोऽथायमेव तथैव पृथक्त्वेन चिन्त्यते- (सव्वे वि ताव होज सपएस त्ति) उपपातविरहकालेऽसङ्ख्यातानां पूर्वोत्पन्नानां भावात्सर्वेऽपि सप्रदेशा भवेयुः, तथा पूर्वोत्पन्नेषु मध्ये यदैकाऽन्यो नारक उत्पद्यते तदा तस्य प्रथमसमयोत्पन्नत्वेनाऽप्रदेशत्वाच्छेषाणां च द्वयादिसमयोत्पन्नत्वेन सप्रदेशत्वादुच्यते-(सपएसा रा अपएसे यत्ति) एवं यदा बहव उत्पद्यमाना भवन्तितदोच्यते-(सपएसा य अपएसा यत्ति) उत्पद्यन्ते चैकदैकाऽऽदयो नारकाः। यदाह- "एगोव दो वतिन्नि वि, संखमसंखा व एगसमएणं / उववजंतेवइया, उव्वद्धृता वि एमेव // 1 // ' (पुढविकाइयाणमित्यादि) एकेन्द्रियाणां पूर्वोत्पन्नानामुत्पधमानानां च बहूनां सम्भवात् "सपएसा वि अपएसा वि'' इत्युच्यते। (सेसा जहा णेरड्या इत्यादि) यथा नारका अभिलापत्रयेणोक्तास्तथा शेण द्वीन्द्रियाऽऽदयः सिद्धावसाना वाच्याः, सर्वेषामेषां विरहसम्भवादेकाऽऽद्युत्पत्तेश्चेति, एवमाहारकानाहारकशब्दविशेषितावेतावेबकत्वपृथक्त्वदण्डकावध्येयौ / अध्ययनक्रमश्चायम्- "आहारए ण भते ! जीचे कालाएसेणं किं सपएसे, अपएसे? गोयमा ! सिय सपएसे, सिय अपएसे।'' इत्यादि स्वधिया वाच्यः। तत्र यदा विग्रहे, केवलिसमुद्धाते वा अनाहारको भूत्वा पुनराहारकत्व प्रतिपद्यते, तदा तत्प्रथमसमयेऽप्रदेशो, द्वितीयाऽऽदिषु तुसप्रदेश इत्यत उच्यते-(सिय सपएसे. सिय अपएसे ति) एवमेकत्वे सर्वेष्वपि सादिभावेषु; अनादिभावेषु तु"नियमा सपएसे'' इति वाच्यम्। पृथक्त्वदण्डके त्वेवमभिलापो दृश्यः "आहारया णं भंते! जीवा कालाएसेणं तु नियमा सपएसे '' इति वाच्यम्। पृथक्त्वदण्डके त्वेवमभिलापो दृश्यः-"आहारया णं भंते ! जीवा कालाएरसेणं किं सपएसा, अपएसा ? गोयमा ! सपएसा वि, अपएसा वि' इति / तत्र बहूनामाहारकत्वेनावस्थितानां भावात्सप्रदेशत्वम्, तथा बहूनां विग्रहगतेरनन्तरं प्रथमसमये आहारकत्वसम्भवादप्रदेशत्वमप्याहारकाणां लभ्यत इति सप्रदेशा अपि अप्रदेशा अपीत्युक्तम् / एव पृथिव्यादयोऽप्यध्येयाः / नारकाऽऽदयः पुनर्विकल्पत्रयेण वाच्याः / तद्यथा 'आहारया ण भंते ! नेरइयाणं किं सपएसा, अपएसा ? गोयमा ! सव्वे विताव होज सपएसा। अहवा-सपएसा य, अपएसे य। अहवासपएसा य, अपएसा य। इति। एतदेवाऽऽह-(आहारगाणं) जीवेगिंदियवजो तियभंगो त्ति) जीवपदमेकेन्द्रियपदपञ्चकं च वर्जयित्वा त्रिकरूपो भङ्गस्त्रिकभङ्गो, भङ्ग कत्रयं वाच्यमित्यर्थः, सिद्धपदं त्विह न वाच्यं, तेषामनाहारकत्वात्, अनाहारकदण्डद्वयमप्येवमनुसरणीयम्। तत्रानाहारको विग्रहगत्यापन्नः समुद्घातगतकेवली अयोगी सिद्धो वा स्यात्स चानाहारकत्वप्रथमसमयेऽप्रदेशः, द्वितीयाऽऽदिषु तु सप्रदेशस्तेन स्यात्सप्रदेश इत्याधुच्यते / पृथक्त्वदण्डके विशेषमाह- (अणाहारगाणमित्यादि) जीवानेकेन्द्रियांश्च वर्जयन्तीति जीवैकेन्द्रियवस्तिानवर्जयित्वेत्यर्थः / जीवपदे, एकेन्द्रियपदे च- "सपएसाय, अपएसाया' इत्येवंरूप एक एव भङ्गको, बहूनां विग्रहगत्यापन्नाना सप्रदेशानामप्रदेशानां चलाभात्। नारकाऽऽदीना, द्वीन्द्रियाऽऽदीनां च स्तोकतराणामुत्पादः, तत्र चैकट्यादीनामनाहारकाणां भावात् षड्भङ्गिकासम्भवः, तत्र द्वौ बहुवचनान्तौ, अन्ये तु चत्वारः, एकवचनबहुवचनसंयोगात्, केवलैकवचनभङ्गकाविह न स्तः, पृथक्त्वस्याधिकृतत्वादिति। (सिद्धेहि ति यभंगो त्ति) सप्रदेशपदस्य बहुवचनान्तस्यैव सम्भवात्। (भवसिद्धीय अभवसिद्धी य जहा ओहिय त्ति ) अयमर्थः-औधिकदण्डकवदेषां प्रत्येक दण्डकद्वयं, तत्र च भव्योऽभव्योवाजीवो नियमात्सप्रदेशो, नारकाऽऽदिस्तु सप्रदेशोऽप्रदेशो वा / बहवस्तु जीवाः सप्रदेशा एव, नारकाऽऽद्यास्तु विभगवन्तः, एकेन्द्रियाः पुनः प्रदेशा-श्वाप्रदेशाश्वेत्येक-भड़ा एवेति। सिद्धपदंतुन वाच्यं, सिद्धाना भव्याभव्यविशेषणानु-पपत्तेरिति। तथा - (नोभवसिद्धी य नोअभवसिद्धी यत्ति) एतद्विशेषणं जीवाऽऽदिदएडकद्वयमध्येयम्। तत्र चाभिलापः-(नो भवसिद्धी य नो अभवसिद्धी य णं भंते ! जीवे सपएसे अपएसे इत्यादि) एवं पृथक्त्वदण्डकोऽपि, केवलमिह जीवपदं सिद्धपदं चेति द्वयमेव, नारकाऽऽदिपदानां नोभव्यनोअभव्यविशेषणस्यानुपपत्तेरिति / इह च पृथक्त्वदण्डकं पूर्वोक्तं भङ्ग कत्रयमनुसतव्यम्, अतएवाऽऽह-(जीवसिद्धेहिं तियभंगो त्ति) संज्ञिषुयौ दण्डको तयेद्वितीयदण्डके जीवाऽऽदिपदेषु भगकत्रयं भवतीत्यत आह- (सन्नीहिं इत्यादि) तत्र संझिनो जीवाः कालतः सप्रदेशा भवन्ति। चिरोत्पन्नानपेक्ष्य उत्पादविरहानन्तरं चैकस्योत्पत्ती तत्प्राथम्ये सप्रदेशाचाऽप्रदेशश्चेचि स्यात् / बहूनामुत्पत्तिप्राथम्ये तु सप्रदेशा अप्रदेशाश्चेति स्यात्तदेव भङ्ग त्रयमिति / एवं सर्वपदेषु केवलमेतयोर्दण्डकयोरेकेन्द्रियविक लेन्द्रियसिद्धपदानि न वाच्यानि, तेषु सज्ञिविशेषणस्यासम्वादिति / (असन्नीहिं इत्यादि) अयमर्थः- असज्ञिषु असज्ज्ञिविषये द्वितीयदण्डके