________________ पडिलेहणा 351 - अभिधानराजेन्द्रः - भाग 5 पडिलेहणा आह-किं पुनः कारणं वर्षासु उपधिन बध्यते, पात्रकाणि वा निक्षिप्यन्ते ? उच्यतवासासु नत्थि अगणी णेव य तेणा वि दंडिया सत्था। तेण अबंधण ठवणा, एवं पडिलेहणा पाए॥४७२।। वर्षासु नास्त्यग्निभयं, नाऽपि च स्तेनभयं स्तेनाश्चात्र पल्लीपतिकाऽऽदयो द्रष्टव्याः, यतस्त एव वर्षासु प्रव्यथिता नाऽऽगच्छन्तीति / दण्डिनश्च राजानः वर्षासु स्वस्थास्तिष्ठन्ति, विग्रहस्य तस्मिन्कालेऽभावात। अतस्तेन कारणेन (अबंधण त्ति) अबन्धनमुपधेः (ठवण त्ति) पात्रकं च पार्श्वनिक्षिप्तन हियते, अपितु स्थाप्यते मुच्यते। एवं प्रत्युपेक्षणा पात्रविषया प्रतिपादिता। ओघo) मार्गप्रत्युपेक्षणा। इदानीं मार्गद्वारं प्रतिपादयन्नाहपंये तु वचमाणो, जुगंतरं चक्खुणा उ पडिलेहे। अइदूरचवक्खुपासे, सुहुमतिरिच्छागऍण पेहे या५१२। पथि व्रजन युगान्तरं चतुर्हस्तप्रमाणं तन्मात्रान्तरं च चक्षुषा प्रत्युपेक्षेत. किं कारणम्? यतः अतिदूरचक्षुषा प्रेक्षिते सति सूक्ष्मान तिर्यगागतान् प्राणिनः न (पेहे) न पश्यति, दूरे प्रतिष्ठितत्वाच्चक्षुषः। अचासन्ननिरोहे, दुक्खं दलु पि पादसाहरणं / छक्कायविऊरमणं, सरीरें तह भत्तपाणे य // 513 // अथ अत्यासन्ने (निरोहे त्ति) निरोधे चक्षुषः सतः दृष्ट्वा प्राणिनं दुःखेन (पादसाहरणं) पादप्रणिनिपतनं धारयतीत्यर्थः / अतिसन्निकृष्टत्वाच्चक्षुषः (छकायाविऊरमणं ति) षट्कायविराधना करोति, शरीरविराधनां, तथा भक्तपानविराधनां च करोति। इदानीमस्या एव गाथायाः पश्चार्द्ध व्याख्यानयन्नाहउड्डाहो कहरत्तो, अवएक्खंतो विअक्खमाणो य। बायरकाए वहए, तसेतरे संजमे दोसा / / 514 // ऊर्द्ध मुखो व्रजन् कथासु च रक्तः सक्तः |अवएक्खतो त्ति पृष्टतोऽभिमुखं निरूपयन् [वियक्खमाण त्ति विविधं सर्वासु दिक्षु पश्यन् / स एवविधः बादरकायनपि व्यापादयेत्, त्रसेतराँश्च पृथिव्यादीन् स्थावरकायाऽऽदीन्, ततश्च संयमे संयमविषया एते दोषा भवन्ति। इदानीं शरीरविराधनाप्रतिपादनायाऽऽहनिरवेक्खो वच्चंतो, आवडिओ खाणुकंटविसमेसु / पंचण्ह इंदियाणं, अन्नयरं सो विराहेजा।।५१५।। निरपक्षो व्रजन आपतितः सन् स्थाणुकण्टकविषमेषु, विषमस्तु गर्तः / तष्यापतितः पश्चानामिन्द्रियाणां चक्षुरादीनामन्यतरत् स विराधयेत्। इदानीम्- 'भत्तपाणे यत्ति" अवयवं व्याख्यानयन्नाहभत्ते वा पाणे वा, आवडिवडियस्स भिन्न भाणे वा। छक्कायविऊरमणं, उड्डाहो अप्पणो हाणी।।५१६।। आपतितश्चासौ पतितश्च तस्य साधो ग्ने भिन्ने पात्रके सति पत्रके वा, भक्ते, पानके, ततः षट्कायव्युपरमणं भवति, उड्डाहश्च भवत्यात्मनश्च हानिः क्षुधाबाधनं भवति। कथं पुनः षट्कायव्युपरमणम, उड्डाहश्च दहि घय तक पयमं बिलं च सत्थं तसेतगण भवे / छक्कम्मिय जणवाओ, वहुफोडा जं च परिहाणी।५१७। तानि गृहीत्वा कदाचित् दधिघृततक्रपयः काजिकानि भवन्ति, ततश्च तानि शस्त्रं, केषाम? सानामितरेषां च पृथिव्यादीनां भवेत् षट्कमिति प्रचुरे तस्मिन् भक्ते लोकेन दृष्ट सति जनापवादो भवति बहुफोड त्ति) बहुभक्षका एते इति / या च आत्मपरितापनाऽऽदिका हानिः, सा च भवति। तथा पात्रविराधनायां याचनादोषं प्रदर्शयन्नाहपायं च मग्गमाणे, हवेज्ज पंये विराहणा दुविहा। दुविहा य भवे तेणा, पडिक्कमे सुत्तपरिहाणी।।५१८|| पात्रं च अन्वेषति सति ग्रामाऽऽदौ भवेत् पथि विराधना द्विविधाआत्मविराधना, संयमविराधना चेति। पथि स्तेनाश्च द्विविधा भवन्तिउपधिस्तेनाः, शरीरस्तेनाश्चेति / लब्धे कृच्छ्रात्पात्रे तत्परिकर्मयतः तद्व्यापारे लग्नस्य सूत्रार्थपरिहानिः। एस पडिलेहणविही, कहिया भे धीरपुरिसपन्नत्ता। संजमगुणइड्डाणं, निग्गंथाणं महरिसीणं / / 516 // अयं च प्रत्युपेक्षणाविधिः कथितः (भे) भवताम् किंविशिष्टो? धीरपुरुष प्रज्ञप्तो गणधरः प्ररूपितः संयमगुणैराढ्यानां निर्ग्रन्थानां महर्षीणां कथित इति। तथाएयं पडिलेहणविहिं, जुजंता चरणकरणमाउत्ता। साहू खमंति कम्मं, अणेगभवसंचियमणंतं / / 520 / / एवं प्रत्युपेक्षणाविधि युञ्जन्तः कुर्वाणाः चरणकरणयोगयुक्ताः सन्तः साधवः क्षपयन्ति कर्म, किंविशिष्टम् ? अनेकभवसंचितमुपात्तम्। (अणंत) अनन्तकर्मपुगलनिवृत्तत्वादनन्तम्, अनन्तानां वा भवानां हेतुर्यत्तदनन्तं क्षपयन्तीति / ओघ०। आलोचनान्तरम्आलोएत्ता सव्वं, सीसं सपडिग्गहं पमज्जित्ता। उड्ढमहे तिरियम्मिय, पडिलेहे सव्वओ सव्वं / / 762|| एवमेषा मानसी आलोचना,वाचिकी चाऽऽलोचना उक्ता / ओघ०॥ संज्ञाया आगत्य चरमपौरुष्पा प्रत्युत्थाय, इदानीं सामाचारीति व्याख्यायतेसन्नाउ आगओ चरि-मपोरिसिं जाणिऊण ओगाढं / पडिले हिय अप्पत्तं, णाऊण करेइ सज्झायं // 634 // एवं साधुः संज्ञा व्युत्सुज्य आगतः पुनश्चरमपौरुषीं चतुर्थप्रहरं ज्ञात्वा अवगाढमवतीर्णः / ततः किं करोतीत्यत आह-प्रत्युपेक्षणां करोति / अथाऽसौ चरमपौरुष्यामपि भवति ततः अप्राप्तां घरमपौरुषी ज्ञात्वा स्वध्यायं तावत्करोति यावच्चतुर्थी पौरुषी प्राप्ता। पुव्वुद्दिट्ठो य विही, इहइं पडिलेहणाइ सो चेव / जं एत्थं नाणतं, तमहं वोच्छं समासेणं / / 635 / / अत्र च प्रत्युपेक्षणायां पूर्वोद्दिष्ट एव विधिः मुखवस्त्रिको -