________________ पडिलेहणा 350 - अभिधानराजेन्द्रः - भाग 5 पडिलेहणा कानि पुनस्तानि कार्याणि, अत आहमूसियरयउक्के रे, घण संताणए ति य। उदए मट्टिया चेव, एमेव पडिवत्तिओ॥४६४।। कदाचित्तत्र मूषिकोत्कीर्ण रजो लन भवति, ततस्तद्यतनयाऽपनीयते। तथा- (संताणए ति) कदाचित्तथा पुनः सन्तानको वा 'कोलियतंतुयं लग होति'' तत् यतनयाऽपनीयते। तथा-(उदए त्ति) कदाचिदुदकं लग्न भवति, सार्दीया भूमेरुन्मज्ज्यलगति, तत्र यतनां वक्ष्यति (मट्टिया चेव) तथा कदाचित मृत्तिका लगति, तत्र यतना वक्ष्यति। एवमेताः प्रतिपत्तयः प्रकारा भेदा यदि न भवन्ति, ततः बुध्नं प्रत्युपेक्षते। कुतः पुनरुत्कीर्णाऽऽदिसंभव, इत्यत आहनवगपवेसे दूरा, उक्के रो मूसगेहिँ उक्किन्नो। निद्धमहिहरतणू वा, ठाणं भेत्तूण पविसे य॥४६५।। (णवग त्ति) नवकप्रवेशे यत्र ग्रामाऽऽदौ ते साधव आवासिताः स नवः अभिनवो निवेशः कदाचिद्भवति, तत्र चपात्रकसमीपे मूषकैरुकीर्णस्तेन रजसा पात्रकं गुण्ड्यते। "मूसगरयउक्किण्णे त्ति भाणयं" (णिद्धमहिहरतणू व त्ति) तथा स्निग्धायां सार्द्रायां भुवि (हरतूण व त्ति) सलिलविन्दव उन्मज्य लगन्ति, ततो भुव उन्मजत्पात्रकं स्थानकं भित्त्वा प्रविशेत, स लगो भवेत्, तद्यतनां वक्ष्यतिउदए त्ति गयं।'' इह कस्मादुदकमस्थान एवोक्तम् ? उच्यते-पृथिवीकायस्य धनसन्तानस्य च तुल्ययतनाप्रतिपाद-नार्थम्। तथाकोत्थलगारिय घरगं-धणसंताणाइया व लग्गेज्जा। उक्केरं सट्ठाणे, हरतणु चिट्ठिन्ज जा सुक्खे // 466 / / कोत्थलकारिका गृहक लगति गृहिका गृहकं मृन्मयं करोति। तत्र यतना वक्ष्यति 'मट्टिए त्ति भणितं / " घनसन्तानिका च कदाचिल्लगति आदिशब्दात्तु दण्डकाऽऽदिः / इदानीं सर्वेषामेव तेषां यतना-प्रतिपादनायाऽऽह-(उत्क्कर सट्टाणे) मूषिकोत्केरः स्वस्थानमुच्यते,यतनया मूषिकोत्केरः मध्या एव स्थाप्यते। (हरतणू) अथ हरतून अधस्तात्सलिलविन्दव उन्मृज्य लग्नास्ततस्ताववत्प्रतिपादयतियावदेते शोषमुपच्छन्ति, ततः पश्चात्पात्रं प्रत्युपेक्ष्यते। "उदए ति'' गतम्। इयरेसु पोरिसितिगं, संवेक्खावेत्तु तत्तियं छड्डे / सव्वं वावि विगिंवइ, पोराणं मट्टियं ताहे // 467 / / (इयरेसु त्ति) "कोत्थलकारियाघणसंताणमादियाणं " (पोरिसितिगं संवेक्खावेत्तु त्ति) प्रहस्त्रयं यावत्पात्रके (संवेक्खावेत्तु) प्रतिपाल्य यदि तावत्या अपिवेलाया नापैति ततः पात्रस्थापनाऽऽदेः तावन्मानं स्थित्वा परित्यज्यते / (सव्वं वावि विर्गिचइ) अन्येषां वा पात्रस्थापनाऽऽदीनां सद्भावे सर्वमेव तत् पात्रस्थापनाऽऽदि परित्यजति (पोराणं मट्टियं ताहे त्ति) अथ तत्कोत्थलिकागृहकं न सचेतनया मृत्तिकया कृतं, कि तु पुराणमृत्तिकया, ततस्ता पुराणां मृत्तिकाम् / (ताहे ति) तस्मिन्नेव प्रतिलेखनाकाले अपनयति, यदि तत्र न मूषिका प्रवेशिता इति / पत्तं पमजिऊणं, अंतो बाहिं सइत्तु पप्फोड़े। केइ पुण तिन्नि वारे, चउरगुलभूमिपडणभया / / 468|| इदानी तत्पात्रे केसरिकया पात्रकमुखवस्त्रिकया तिस्रो वारा बाह्यतः प्रमृज्य संपूर्ण ततो हस्ते स्थापयित्वा अभ्यन्तरं तिस्रो वाराः पुनः समस्तं प्रमृज्यते, ततः [सइत्तु पप्फोडे ति] सकृदेकां वारामधः कृत्वा बुध प्रस्फोटयेत्, एवं केचिदाचार्याः प्राप्नुवन्ते। केचित्पुनराचार्या एवं भणन्तियदुत त्रयो वाराः प्रस्फोटनीयम् / एतदुक्तं भवति एकां वारां प्रमृज्य पश्चादधोमुखं प्रस्फोटयते, पुनरपि प्रमृज्य प्रस्फोटयते। एवमेता : त्रयो वाराः प्रस्फोटनीयम्। तत्र पात्रकं भुव उपरि कियद्दूरे प्रत्युपेक्षणीयमिति ? अत आह- पचउरंगुलभूमि त्ति ब चतुर्भिरड्गुलै व उपरि धारयित्वा प्रत्युपेक्षणीय मा पतनभङ्ग भयं स्यादिति / एवं तावत्प्रत्यूषे वस्त्रपात्रप्रत्युपेक्षणा उक्ता। इदानीमुपधिपत्रकं च प्रत्युपेक्ष्य किमुपधेः कर्तव्यं, क च पात्रक स्थापनीयमित्यत आहवेंटियबंधण धरणे, अगणित्तेणे य दंडियक्खोभे। उउबद्धधरणबंधण, वासासु अबंधणा ठवणा / / 466 / / उपधेर्विण्टिकानांबन्धनं कर्तव्यम् (धरण त्ति) पात्र कस्याऽऽत्मसमीप आत्मोत्सङ्गे धरणं कार्यमनिक्षिप्तमित्यर्थः / किमर्थ पुनरेतदेवं क्रियते यदवधिका बाह्यतः पात्रकमनिक्षिप्त क्रियते इत्युच्यते-अग्निभयात्प्रदीपनकभयात, स्तेनकभयात्, दण्डिकक्षोभाचैतदेवं क्रियते / कस्मिन पुनः काले एतदेवं क्रियते, कस्मिन पुनरेतदेवं न क्रियते ? इत्यत आह(उउबर ति) ऋतुबद्ध उच्यते-शीतकाले उष्णकाले च तस्मिन् पात्रके धरणमुपधेर्बन्धनं कर्तव्यम् (वासासु त्ति) वर्षाकाले (अबंधण त्ति) उपधेरबन्धनं कर्तव्यम् उपधिर्न बध्यते (ठवण ति) पात्रकं च निक्षिप्यते एकदेशे स्थाप्यते. प्रयोजने उपधेरबन्धनं निक्षेपणं पात्रकस्य च वक्ष्यति / इदानीं भाष्यकारो व्याख्यानयन्नाहरयताण भाणधरणं, उडुबद्धे निक्खिवेज वासासु। अगणीतेणभएण व, रायक्खोभे विराहणया!|४७०|| रजस्त्राणस्य, भाजनस्य च धरणमनिक्षेपणं कर्तव्यं, कदा? ऋतुबद्ध शीतोष्णकालयोर्वर्षासु पुनर्भाजनं निक्षिपेत् एकान्ते, किमर्थं पुनर्भाजनस्य उत्सङ्गे धरण क्रियते? अत आह-(अगणी) अग्निभयेन स्तेनभयेन वा राजक्षोभेण वा मा भूदाकुलस्यागृह्णतः पलिमन्थेन आत्मविराधना, संयमविराधना च। परिगणमाणी गेण्हे-ज डहण भेदो तहेव छ काया। गुत्तो व सयं डज्झे, हीरेज व जं च तेण विणा / / 471 / / अग्न्यादिक्षोभे सति उपधिर्यावद् गृह्यते, (भेदो इति) आकुलस्य निर्गच्छतः अनशनं पात्रक गृह्णतः भेदो वा विनाशो भवेत्, ततश्च ततश्च षट्कायस्याऽपि विराधना भवति / (गुत्तो व सयं डज्झे) समूढो वा उपधिपात्रकग्रहणे स्वयं दह्यात्, स्तेनकसंक्षोभे वा सति उपधिपात्रकग्रहणव्याक्षेपेण स्तेनकैर्लेच्छैरपहियते (जं च तेण विण त्ति) यच तेन उपधिपात्रकाऽऽदिना भवति आत्मविराधना, संयमविराधना च तत्तदवस्थमेवेति।