________________ पडिबद्धसिञ्जा 326 - अभिधानराजेन्द्रः - भाग 5 पडिबद्धसिज्जा एतदेव व्याचष्टेविहनिग्गया य जइउं, रुक्खे जोइपडिबद्ध उस्से वा। ठायंति अह व वासं, सावयतेणाइ तो भावे // 466 / / "विह त्ति" अध्वा, ततो निर्गताः स्वयं प्रतिपन्ना वा त्रिः कृत्वा शुद्धाया वसतेरन्वेषणाय यतित्वा यदि न लभन्ते ततो वृक्षस्याधस्ताद्वा ज्योतिर्युतायां द्रव्यप्रतिबदायां वा वसतौ तिष्ठन्ति। (अह त्ति) अथ पुनर्वृक्षस्याधस्तात् (उस्से व त्ति) अवश्यायो वा, वर्ष वा निपतति, श्वापदस्तेनाऽऽदयो वा तत्रोपद्रवन्ति, ततः (भावे) भावप्रतिबद्धायां वसन्ति। तत्र चेयं यतनाभावम्मि ठायमाणे, पढमं ठाणं तु रूवपडिबद्ध। तहियं कडग चिलिमिली, तस्सऽसती ठंति पासवणे॥४६७।। भावप्रतिबद्ध तिष्ठन्ति, प्रथमं स्थानं तु रूपप्रतिबद्धे, तत्र चाऽपान्तराले कटक चिलिमिलिकां वा प्रयच्छन्ति, तस्य रूपप्रतिबद्धस्याभावे प्रस्रवणप्रतिबद्धेऽपि तिष्ठन्ति। तत्राऽपि कायिकी मात्रके व्युत्सृज्यान्यत्र परिष्ठापयन्ति। असई य मत्तगस्सा, निसिरणभूमीइ वावि असईए। वंदेण बोलकरणं, तासिं बेलं च वर्जिति // 468 / / मात्रकस्याऽसत्यभावे अन्यस्या वा कायिकीनिसर्जनभूमेरभावे वृन्देन त्रिचतुः प्रभृतिसाधुसहेन महता शब्देन बोलं कुर्वन्तस्तस्यामेव कायिकभूमौ प्रविशन्ति, तासां चागारीणां कायिकीव्युत्सर्जनवेला वर्जयन्ति प्रत्रवण इति / बद्धस्याभावे शब्दाप्रतिबद्धेऽपि तिष्ठन्ति। तत्रभूसणभासासद्दे, सज्झायज्झाणनिच्चमुपओगो। उवगरणेण सयं व, पेल्लण अन्नत्थ वा ठाणे // 466 / / प्रथमं भूषणशब्दप्रतिबद्धे, तदभावे भाषाशब्दप्रतिबद्धेऽपि तिष्ठन्ति।। तत्र चोभयाऽपि महता शब्देन समुदिताः सन्तः स्वाध्यायं कुर्वन्तिः / ध्यानलब्धिमन्तो वा ध्यानं शुक्लाऽऽदिभेदभिन्नं ध्यायन्ति / एतयोरेव स्वाध्यायध्यानयोर्नित्यमुपयोगः कर्तव्यः। भूषणभाषाशब्दप्रतिबद्धालाभे स्थानप्रतिबद्धे तिष्ठन्तिा तत्रोपकरणेन स्वयं वा विप्रकीर्णाः सन्तः तथा भालयन्ति यथा तासा प्रेरणं भवति; अवकाशो न भवतीति भावः / अन्यत्र वा स्थाने गत्वा दिवसे तिष्ठन्ति, स्थानप्रतिबद्धस्याभावे रहस्यशब्दप्रतिबद्धे तिष्ठन्ति। परियारसद्दजयणा, सद्दे वए चेव तिविह तिविहाय। उद्दाणपउत्थसाही-णभाइया जस्स जा गुरुगा।।४७०।। पुरुषेण स्त्री परिभुज्यमाना यं शब्दं करोति स परिचारशब्द उच्यते। तत्र यतना स्वाध्यायगुणनाऽऽदिका कर्तव्या। (सहे वए चेव तिविह त्ति) | शब्दतो वयसा च सा स्त्री त्रिविधा / तद्यथा-मन्दशब्दा, मध्यमशब्दा, तीव्रशब्दा च / वयसा तु स्थविरा मध्यमा तरुणी च। (तिविहा य त्ति) पुनरेकैका त्रिविधा अपद्रावणिभर्तृका, प्रोषितभर्तृका, स्वाधीनभर्तृका चति / तत्र पूर्वमपद्रावणभर्तृकायां स्थविरायां स्थातव्यम् / तदसंभवे प्रोषितभतृकायां स्थविरायां, तदप्राप्तावपद्रावणप्रोषितभर्तृकयोरेव प्रथममध्यमयोस्तत्तदपिण्योरूपरिक्रमेण स्थातव्यम्। ततः स्वाधीन भर्तृकायां स्थविरायां मन्दशब्दायां ततस्तस्यामेव मध्यमशब्दायां, ततस्तीव्रशब्दायां, तदभावे मध्यमतरुण्योरपि यथाक्रमं मन्दमध्यमतीव्रशब्दयोः स्थातव्यम्। अथवा- (जस्सजा गुरुग त्ति ) यस्य साधोर्यो मन्दाऽऽदिकशब्दो रोचते तेन यायुक्ता सा तस्य गुरुरागहेतुत्वात् गुरुका तेन च सर्वप्रयत्नेनतया गुरुकस्त्रिया प्रतिबद्धः प्रतिश्रयः परिहर्तव्यः। अथवाऽयमपर:क्रम उच्यतेउद्दाण परिट्ठविया, पउत्थ कन्ना सभोइया चेव। थेरी मज्झिमतरूणी, सद्दकरी मंदसद्दा य / / 471 / / कन्याशब्दो बन्धानुलोम्यान्मध्ये अभिहित आदौ कर्तव्यः / ततः पूर्व कन्यायामपरिणीतायां, तदभावे अपद्रावणभर्तृकायां, ततो भर्तृपरिष्ठापितायां दौर्भाग्यात्पत्या परित्यक्तायां, तदलाभे प्रोषितभर्तृकायां स्थविरायां स्थातव्यं, तदप्राप्तास्वेव शब्दकरी मन्दशब्दा च। चशब्दन्मध्यमशब्दा, तीव्र शब्दाचेति त्रिधा / तत्र पूर्व मन्दशब्दायां, ततो मध्यमशब्दायां, ततस्तीव्रशब्दयामपि स्थातव्यम्। "सर्वे वए चेव तिविह तिविह त्ति व्याख्यानयतिथेरी मज्झिम तरूणी, वएण तिविह त्ति तत्थ एकेका। तिव्यकारी मज्झकरी, मंदकरी चेव सद्देणं // 472 / / स्थविरा, मध्यमा, तरुणी, चेति वयसा त्रिविधा स्त्री / तत्रैकैका त्रिविधा-तीव्रशब्दकरी, मध्यमशब्दकरी, मन्दशब्दकरी चेति शब्देन त्रिविधा। ___ अथ प्रस्रवणप्रतिबद्धाऽऽदिषु चतुर्वपि या भाष्यकृता सविस्तरं यतना प्रोक्ता, तामेव नियुक्तिकृदेकगाथया संगृह्याऽऽहपासवणमत्तएणं, ठाणे अन्नत्थ चिलिमिलीरूवे। सज्झाए झाणे वा, आवरणे सद्दकरणे वा / / 473 / / कायिकीप्रतिबद्ध स्वाध्यायो, ध्यानं वा, आवरणं वा कर्णयोः स्थगन विधेयम् / तथापि शब्दे श्रूयमाणे शब्दकरणं तथा शब्दः कर्तव्यो यथा तयोः शब्द उपशाम्यति। अथाऽस्याश्व पश्चार्द्ध व्याचष्टेवेरग्गकरं जं वा-वि परिजियं बाहिरं च इअर वा। सो तं गुणेइ साहू, झाणसलद्धी उ झाएज्जा / / 474|| वैराग्यकरमुत्तराध्ययनाऽऽदि। यद्वाऽऽपि परिजितं स्वभ्यस्तं परावर्तमानमस्खलितमागच्छतीति भावः / तच्चाङ्गबाह्यं वा प्रज्ञापनाऽऽदि, इतरद्वा-अङ्ग प्रविष्टम् आचाराऽऽदियद्यस्य साधोरागच्छति स तत्सूत्र तथा गुणयति यथा परिचारणशब्दो न श्रूयतेः यस्तु ध्यानलब्धिसंपन्नः स ध्यानं ध्यायति। दोसु वि अलद्धि कण्णे, उवेइ तह वि सवणे करे सइं। जह लज्जियाण मोहो, नासइ जणगंतकरणं वा / / 475 / / द्वयोरपि स्वाध्यायध्यानयोर्यःसाधुरलब्धिकः स्वकर्णी स्थगयति, तथाऽपिशब्दश्रवणे शब्दं तथा कुर्यात् यथा तयोर्लज्जितयोर्मोहो नश्यति किमेवं भो न पश्यसि त्वमस्मानत्र स्थितान्, यदेवं चेष्टितानि पुरुषे? यद्येवमप्युक्तो न तिष्ठति ततो जनकान्तं कुर्वन्ति-यथा पश्यत पश्यत भो इन्द्रदत्त ! सोमशर्मन् ! अर्थविगुप्त इत्थमस्माकं पुरतोऽनाचार सेवते। गतो द्वितीयभङ्गः।