________________ पडिकमण 306 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण तुम्मण्हं पायमूले विहरमाणेणं जे केइबहुदेवसिया साहुणो दिट्ठा समाणा वा वसमाणा वा गामाणुगामं दूइज्जमाणा वा रायणिया संपुच्छंति ओमरायणिया वंदंति, अञ्जया वंदंति, अज्जियाओ वंदति, सावया वंदंति,सावियाओ वंदंति, अहं पि निस्सल्लो निकसाओ तिकट्टु सिरसा मणसा मत्थएण वंदामि, अहमवि इंदावेमि चेझ्याई। इच्छाम्यभिलषामि चैत्यवन्दापन साधुवन्दापनं च, भवतां निवेदयितुमिति वाक्यशेषः / [खमासमणो इति व्यक्तम्। पुटिव ति] पूर्वकाले विहारकालात [चेइयाइ ति] जिनप्रतिमाः विंदित्त त्ति] स्तुतिभिः नमंसित ति) प्रणामतः, संघसत्क-चैत्यवन्दना ह्येतदहं करोमीति प्रणिधानयोगात्। क्व वन्दित्वे-त्याह- [तुब्भण्हं ति] युष्माकं [पादमूले रि] चरणसन्निधौ, ततश्च | विहरमाणेणं ति] ग्रामानुग्रामं संचरता मया |जे केइ नि) ये केचन सामान्यतः [बहुदेवसिया] बहुदिवसपर्यायाः (साहुणो दिट्ठाइति व्यक्तम्। किंविधास्त इत्याह- (समाणा व त्ति) जड़ाबलपरिक्षयात् वृद्धवासितया आश्रितक्षेत्रादबहिर्वर्तिनो (वसमाणा वति ) विहारवन्तो, विहारश्च तेषामृतुबद्धे मासकल्पेन, वर्षाकाले चतुर्मासकल्पेन्त्यत एवाऽऽह-(गामाणुगाम दूइज्जमाणा व त्ति) ग्रामश्च प्रतीतोऽनुग्रामश्च तदनन्तर इति ग्रामानुग्राम, तद्रवन्तो गच्छन्तः। अथवा-गामाऽऽदिष्वेकरात्रिकं वसन्तः, आहिण्डका इत्यर्थः / वाशब्दाः समुद्ययार्थाः / इह स्थाने तेषु मध्ये इति वाक्यशेषो द्रष्टव्यः / रायणिय नि। रात्निका भावरत्नव्यवहारिणः, बृहत्पर्याया आचार्या इत्यर्थः / [संपुच्छंति त्ति] मां प्रश्नयन्ति मया वन्दिताः सन्तो भवतां शरीरकुशलाऽऽदिवाामिति गम्यम्। [ओमरायणिय त्ति]अवमरात्निका भवतः / प्रतीत्य लघुतरपर्याया आचार्या एव वन्दन्ते भवतः प्रणमन्ति। कुशलाऽऽदितु। प्रश्नयन्त्येव, [अज्जया वंदंति]सामान्यसाधवो वन्दन्ते, एवमार्यिकाऽऽदयोऽपि। तथाऽहमपितान्यथादृष्टसाधूनिःशल्याऽऽदिविशेषणो बन्दे। शेषं प्राग्वत्, तथा-(अहमवि वंदावेमि चेइयाई ति) तान् यथादृष्टसाध्वादीन् वन्दापयामि चैत्यानि, यथा अमुत्र नगराऽऽदौ युष्मत्कृते चैत्यानि वन्दितानि, तानि च यूयं वन्दध्वमित्येवमिति। एवं शिष्येणोक्तः सन्नाचार्यः प्रत्युत्तरयति। यथामत्थएण वंदामि अहं पितेसिं ति। मस्तकेन वन्देऽहमपितानिति। ये मम वार्तासंप्रच्छनाऽऽदि कुर्वन्तीति भावः। "अन्ने भणंति-अहमवि वंदावेमि त्ति '' / तत आत्मानं गुरुणां निवेदयन्ति तृतीयक्षामणकसूत्रेण। तच्चेदम्इच्छामिखमासमणो! उवढिओ मितुब्भण्हं संतियं अहाकप्पं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा अक्खरं वा पर्य दा गाहं वा सिलोगं वा अटुं वा हेउंवा पसिणं वा वागरणं वा तुन्मेहिं चियत्तेणं दिन्नं मए अविणएण पडिच्छियं, तस्स मिच्छा मि दुक्कडं ति। प इच्छामि खमासमणो त्ति ब इह स्थाने आत्मानं निवेदयितुमिति वाक्यशेषो दृश्यः / [उवडिओ मि ति] उपस्थितोऽस्मि, आत्मनिवेदनायेति शेषः / (तुब्भण्हं संतियं) युष्माकं सत्कं युष्मदीयमिदं सर्व यदस्मत्परिभोग्यम्। किंभूतं किं तदित्याह- (अहाकप्पं ति) यथाकल्पं कल्पानतिक्रान्तं स्थविरकल्पोचितं कल्पनीयं चेत्यर्थः। वस्त्राऽऽदि प्रतीतं, नवरं (पडिग्गहं ति) पात्रम् (पायपुंछणं ति ) पादप्रोञ्छनं रजोहरणम् (अट्ठ व त्ति) अर्थः सूत्राभिधेयः, प्राकृतत्वाचनपुंसकनिर्देशः / (पसिणं व त्ति) प्रश्नः, पण्डिता-भिमानी परो माननिग्रहाय यत्प्रश्नयति (वागरणं ति) व्याकरणं, तथैव परेण प्रश्रिते यदुत्तरं दीयते, वाशब्दाः समुचायार्थाः / एवं वस्त्राऽऽदिनिवेदनद्वारेणाऽऽत्मानं गुरूणां निवेद्य युष्माभिरेवेदं वस्त्राऽऽदिकं मे दत्तम्। इत्यावेदने तद्ग्रहणे च संभविनमविनयं क्षमयन्निदमाह- (तुब्भेहीत्यादि) (तुब्भे हिं ति) युष्माभिः (चियत्तेणं ति) प्रीत्या दत्तं, मया त्वविनयेन प्रतीक्षितम् / अत्र यदिति शेषो दृश्यः (तस्स ति) तत्र मिथ्यादुष्कृतमिति प्राग्वत्। एवमुक्ते आचार्यो ब्रूते - आयरियसंतियं ति। पूर्वाऽऽचार्यसत्कमेतदिति किं ममात्रेति / अहङ्कारवर्जनार्थ , गुरुषु भक्तिख्यापनार्थ चैतादिति।। अथ यच्छिक्षां ग्राहितास्तमनुग्रहं बहु मन्यमाना आहुःइच्छामि अहमपुव्वाइं खमासमणो / कयाइंच मे किइकम्माइं आयारमंतरे विणयमंतरे सेहिओ सेहाविओ संगहिओ उवगहिओ सारिओ वारिओ चोइओपडिचोओ चियत्तामेपडिचोयणा उवडिओऽहं तुब्भण्हं तवसेयसिरीए इमाओ चाउरंतसंसारकंताराओ साह ट् टु नित्थरिस्सामि तिकट् टु सिरसा मणसा मत्थएण वंदामि। (इच्छामि इत्यादि) इच्छामि अभिलषामि, अहमपूर्वाण्यनागतकालीनानि, कृतिकाणीति योगः ! कर्तुमिति वाक्यशेषः "खमासमणो" इति व्यक्तम् / तथा कृतानि पूर्वकाले चः समुच्चये। (मे त्ति) मया कृतिकाणि वैयावृत्त्याविशेषाः, भवतामिति गम्यते / तेषु च (आयारमंतरे त्ति) आचारान्तरे, क्वचित् ज्ञानाऽऽद्याचारविशेष विषयभूते आचारव्यवधाने वा सति, ज्ञानाऽऽदिक्रियाया अकरणे सतीति भावः / तथा-(विणयमंतरे त्ति) विनयान्तरे आसनदानाऽऽदिविनयविशेषे विषयविभूते विनयविच्छेदेवा, तदकरणे इत्यर्थः, (सेहिओत्ति) शिक्षितः स्वयमेव गुरुभिः शिक्षा ग्राहित इत्यर्थः / सेधितो निष्पादित आचारविशेषविनयविशेषेषु कुशलीकृत इत्यर्थः, (सेहाविओ त्ति) शिक्षापितः सेधापितो वा उपाध्यायाऽऽदिप्रयोजनतः, तथा- (संगहिओ त्ति) संगृहीतः शिष्यत्वेनाऽऽश्रितः। तथा- (उवग्गहिओ त्ति) उपगृहीतः, ज्ञानाऽऽदिभिर्वस्त्राऽऽदिभिश्चोपष्टम्भितः, तथा-(सारिओ त्ति) सारितो हिते प्रवर्तितः, कृत्यं वा स्मारितः। (वारिओ त्ति) अहितान्निवारितः (चोइओ ति) संयमयोगेषु स्खलितः सन्नयुक्तमेतद्भवादृशां विधातुमित्यादिवचनेन प्रेरितः। (पडिचोइओ त्ति) तथैव पुनः पुनः प्रेरित एव (चियत्ता मे पडिचोयण त्ति) चियत्ता प्रीतिविषया, नत्वहकारादप्रीतेति (मे) मम प्रति प्रेरणा भवद्भि क्रियमाणेति। उपलक्षणं चैत