________________ पडिक्कमण 263 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण आलोइअम्मि आरा-हणा अणालोइए भयणा / / 15 / / अवलोकनमालुशन विकटीकरण च भावशुद्धिश्च, यथेह कश्चिन्निपुणमालाकार: स्वस्याऽऽरामस्य सदा द्विसंध्यमवलोकन करोतिकिं कुसम्पनि सन्त्युत नेति दृष्ट्वा तेषामालुञ्चनं करोति, ग्रहणमित्यर्थः। ततो चिकटीकरणं विकसितमुकुलितार्द्धमुकुलितानां भेदनं विभजनमित्यर्थः / चशब्दात पश्चाद् ग्रन्थनं करोति, ततो ग्राहका गृह्णन्ति, ततोऽस्याभिलबितार्थलामो भवति / भावशुद्धिश्व चित्तप्रसादलक्षणा, अस्या एव विवक्षितत्वात्, अन्यस्तु विपरीतकारी मालाकारस्तस्य न भवति, एवं साधुरपि कृतोपधिप्रत्युपेक्षणाऽऽदिव्यापारा उच्चाराऽऽदिभूमिप्रत्युपेक्षया घानटिरहितः कायोत्सर्गस्थोऽनुप्रेक्षते, सूत्रं गुरौतु स्थिते दैवसिकाऽऽवश्यकस्य मुखवस्त्रिकाप्रत्युपेक्षणाऽऽदेः कायोत्सर्गतस्त्ववलोकनं कोति, पक्षदालुञ्चनं स्पष्टबुद्ध्याऽपराधग्रहणं, ततो विकटीकरणं गुरुलघूनामपराधाना विभञ्जनं, चशब्दादालोचनं प्रतिसेवनानुलोमेन इन्धन, ततो यथाक्रम गुरोर्निवदेनं करोति, एवं / कुर्वतः भावशुद्धि उपजायते, औदयिकभावात् क्षायोपसमिकप्राप्तिरित्यर्थः / इत्थमुक्तेन प्रकारेणाऽऽलोचिते गुरोपराधजाले निवेदिते आराधना मोक्षमार्गाऽsखण्डना भवति,अनालोचिते अनिवेदिते भजना विकल्पनाकदाचिद् गवति, कदाचिन्न भवति। तथं भवति"आलोयणापरिणओ, सम्म संपढिओ गुरुसगासं। जइ अंतरो उ काल, करेज्ज आराहओ तह वि।।१६।।'' एवं तु न भवति। "इट्टीए गारवेणं, बहुसुयमरण वा वि दुच्चरियं / छो न कहेइ गुरुणं, न हु सो आराहओ भणिओ।।१७॥" इति गाथार्थः। इत्थं चाऽऽलोचनाऽऽदिना प्रकारेणोभयकालं नियमत एव प्रथमचरमतीर्थकरतीर्थ सातिचारेण निरतिचारेण वा साधुना शुद्धिः कर्तव्या, मध्यतीर्थकरतीर्थेषु पुनर्नव किं त्वतिचारवत एव शुद्धिः क्रियते। आव० 4 अ०। जीत०। कल्प० / वृ०। प्रव०। अथ प्रतिक्रमणद्वारमाहसपडियमणो धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स। मझिमयाण जिणाणं, कारणजाए पडिकमणं / / 347|| सपडिक्रमणः उभयकालं षड्विधाऽऽवश्यककरणयुक्तो धर्मः पूर्वस्य पश्चिमस्य च जिनस्य तीर्थे भवति, तत्तीर्थ साधूनां प्रमादबहुलत्वात्, शठत्वाच / मध्यमानां तु जिनानां तीर्थे कारणजाते तथाविधे अपराधे उत्पन्ने सति प्रतिक्रमणं भवति, तत्तीर्थसाधूनामशठत्वात्, प्रमादरहितत्वाच्च। अथाऽस्यामेव पूर्वार्द्ध व्याचष्टगमणाऽऽगमणवियारे, सायं पाओ य पुरिमचरिमाणं। नियमेण पडिक्कमणं, अतिचारो होइ वा मा वा // 348|| गमनाऽऽगमनुषु चैत्यवन्दनाऽऽदिकार्येषु प्रतिश्रयान्निर्गत्य हस्तशतात्परतो गत्वा भूयः प्रत्यागमने (बियारे त्ति) हस्तशतमध्येऽप्युचाराऽऽदेः परिष्ठापने कृते तथा सायं संध्यायां प्रातश्च प्रभाते पूर्वचरमाणं साधूनामतिचारो भवतु वा, मा वा, तथाऽपि नियमेनैतेषु प्रतिक्रमणं भवतीति। परः प्राऽऽहअतिचारस्स उ असती, णणु होति णिरत्थयं पडिक्कमणं / ण भवति एव चोदग!, तत्थ इमं होति णातं तु / / 346 / / अतिचारस्याऽसत्यभावे न तु निरर्थक प्रतिक्रमणं भवति / सूरिराहए चोदक ! एवं त्वदुक्तं प्रतिक्रमणस्य निरर्थकत्वं न भवति न घटते, किंतु सार्थक प्रतिक्रमणम्। तत्र च सार्थकत्वे इदं ज्ञातमुदाहरणं भवति। सति दोसे होअगद्दो, जति दोसो णत्थि तो गदो होति। वितियस्स हणात दोसे, ण गुणं दोसं व तदभावा // 350 / / दोसं हंतूण गुणं, करेति गुणमेव दोसरहिते वि। ततिय तिगिच्छकरस्स उ, रसायणं दंडियसुतस्स // 351 / / जति दोसो तं छिंदति, असंतदोसम्मि णिज्जरं कुणइ। कुसलतिगिच्छिरसायणसुवणीयमिदं पडिक्कमणं // 352|| एगस्स रनो पुत्तो अईव वल्लहो। तेण वि तयं अणागयं किं वितहाविह रसायणं करावेमिजेण मे पुत्तस्स कयाइरोगोन होइ त्ति वेज्जा सद्दाविया। मम पुत्तस्स तिगिच्छं करेह / जेण निहओ होइ।ते भणतिकरेमो। राया भणइ-कोरसाणि तम्ह ओ सहाणि?। एगो भणइमम आसहमेरिसं जइ रोगो अत्थि तो उवसामेइ, अह नत्थि तं चेव जीवंतं मारेइ। विइओ भणइ-मम ओसहं जइरोगो अत्थि तो उवसामेइ, अह नत्थि तो न गुणं न दोसं करेइ। तइओ भणइजइ रोगो अस्थि तो वण्णरूवजोव्वणलावएणत्ताए परिणमइ, अपुवो य रोगो न पाउन्मतइ / एवमायणिऊरन्ना तइया वज्जेण किरिया कारिया / एव मम पि पडिक्कमणं जइ अइयारदोसो अस्थि तो तेसिं विसोहिं करोति। अह नत्थि अइयारो तो चारित्तं विसुद्ध करेइ / अभिनवकम्मरोगस्स य आगमं निरंभइ। अधाक्षरगमनिकाप्रथमवैद्यस्यौषधेन सति दोषे रोगसंभवे उपयुज्यमाने अगदो नीरोगो भवति / यदि पुनर्दोषो नास्ति तदः प्रत्युत गदो रोगो भवति / द्वितीयस्य तु वैद्यस्यौषधं रोगं हन्ति तदभावे दोषाभावे सपडिक्कमणो धम्मो, पुरिमस्सय पच्छिमस्स य जिणस्स। मज्झिमयाण जिणाणं, कारणजाए पडिक्कमणं // 15|| सप्रतिक्रमणो धर्मः कर्तव्यः, अस्य च जिनस्य तत्तीर्थ साधुना ईपध्यागतेन उचाराऽऽदिविवेक उभयकालं चापराधो भवतु वा, मा वा, नियमतः प्रतिक्रान्तव्यं, शठत्वात्प्रमादबहुलत्वाच / एतेष्वेव स्थानेषु मध्यमानां जिनानामजिताऽऽदीनां पार्चपर्यन्तानां कारणे जाते अपराध एवोत्पन्ने सति क्रमण तदैव भवत्यशठत्वात, प्रमादरहितत्वाचेति गाथार्थ: // 18 // तथा चाऽऽह ग्रन्थकार:जो जाहे आबन्नो, सो हु अन्नयरम्मि ठाणम्मि। सो ताहे पडिकमई, मज्झिमयाणं जिणवराणं ||19|| यः साधुरिति योगः यदा यस्मिन्काले पूर्वाह्नऽऽदी आपन्नः प्राप्तोऽन्यतरस्मिन्स्थाने प्राणातिपाताऽऽदौ स तदैव तस्य स्थानस्य एकाक्येव गुरुप्रत्यक्ष वा प्रतिक्रामति, मध्यमानां जिनवराणामिति गाथार्थः / आय०