________________ पच्छित्त 190- अभिधानराजेन्द्रः - भाग 5 पच्छित्त तत्रैककाऽऽदिसंयोगेषु भङ्गसंख्याऽऽनयनाय करणमाहकरण एत्थ य इणमो, एक्कादेगुत्तरा दस ठवेउं / हेट्ठा पुण विवरीयं, काउ रूवं गुणयव्वं // 347|| अत्र तेष्वेकाऽऽदिसंयोगेषु भङ्ग कसंख्याऽऽनयनाय करणमिदम्- | एकाऽऽदीनेकोत्तरान् एकोत्तरवृद्ध्या प्रवर्द्धमानान् दशकपर्यन्तानकान् स्थापयित्वेत्यर्थः / अधस्तात् पुनर्विपरीत राशिं कृत्वा / किमुक्तं भवति ?-य एककाऽऽदय एकोत्तरदशकपर्यन्ता अङ् काः पूर्वानुपूर्व्या उपरि स्थापितास्तेषामधस्तात् पश्चानुपूा एक-काऽऽदय एकोत्तरदशपर्यन्ता अड्काः स्थापनीयाः। स्थापना-[ ] अत्रभेरितना अङ्का गुणकाराः, अधस्तना भागहाराः / तत्रैककसंयोगसंख्यामिच्छन् अव्यदेकं सकलं रूपं स्थापयेत्, स्थापयित्वाऽन्तिसेन दशभेन गुणकारेण गुणयितव्यम्। तेन तस्य गुणने जाता दर्शव, एकस्य गुणनेतदेव भवतीति वचनात्। दसहिं गुणाउं रूपं, एक्केणऽहियम्मि भागें जं लद्धं / तं पडिरासेऊणं, पुण विनवेहिं गुणेयव्वं // 348|| दशभिर्गुणयित्वा रूपमेकेनाधस्तनेन भागहारेण भागो हरणीयः, भागे च हृते यल्लब्धं तत्प्रतिराशीक्रियते, लब्धाश्चात्र दश, "एकेन भागहारेण यदेवोपरि तदेव लभ्यते।" इति वचनात्। लब्धा एक-कसंयोगे भङ्गा दश, ते एकान्ते स्थापनीयाः, तान् प्रतिराश्य एकान्ते स्थापयित्वा द्विकसंयोगे भङ्कसंख्यामिच्छता तत् प्रतिराशीकृतंदशकलक्षणमङ्कस्थान पुनरपि नवभिर्गुणयितव्यम्, जाता नवतिः। दोहिं हरिऊण भागं, पडिरासेऊण तं पिलद्धं / एएण कमेणंतू, कायव्वं आणुपुथ्वीए॥३४६।। तस्या नवतेरधस्तनेन द्विकेन भागं हियात्,भागे हृते लब्धाः पञ्चचत्वारिंशत्, आगतं द्विकसंयोगे पञ्चचत्वारिंशद् भङ्गाः। तचैवं सूत्रत उच्चारणीयाः- "जे भिक्खू मासियं च सातिरेगमासियं च 1 / जे भिक्खू मासियं च दोमासियं च 2 जे भिक्खू मासियं च सातिरेगदोमासियं च 3 / जे भिक्खू मासियं च तेमासियं च 4 / जे भिक्खू मासियं च सातिरेगतेमासियं च 5 / " इत्यादि। ततो यल्लब्ध पञ्चचत्वारिंशल्लक्षणं तत्त्रिकसंयोगे भङ्गसंख्यामिच्छता प्रतिराशीकर्तव्यं, प्रतिराश्योपरितनेनाष्टकेन गुणयेत् / एतेनानन्तरोदितेन क्रमेण सर्वेष्वप्यङ्कस्थाने ष्वानुपूर्व्या सर्व कर्तव्यम्। कैरित्याहउवरिमगुणकारेहि, हेढिल्लेहिं व भागहारेहि। जा आइमं तु ठाणं, गुणितें इमे हॉति संजोगा॥३५०।। उपरितनैर्गुणकारैस्तस्य तस्य प्रतिराशीकृतस्य क्रमेण गुणनं कर्तव्यम्, गुणने च कृतेऽधस्तनांगहारैभागो हर्तव्यः, भागे च हृते यल्लभ्यते तैर्विवक्षितस्य त्रिकसंयोगाऽऽदेर्भङ्गः / एतच तावत्कर्तव्यं यावदादिममङ्कस्थानम्, तत्रैवमुपरितनैर्गुणकारैः गुणिते, उपलक्षणमेतत्-अधस्तनर्भागहारैर्भाग हृते इमे वक्ष्यमाणसंख्याकाः क्रमेण संयोगा एककद्विकाऽऽदिसंयोगभङ्गा भवन्ति / तानेवाऽऽहदस चेव य पणयाला, वीसालसयं च दोस दस अहिया। दोण्णि सया वावण्णा, दसुत्तरादोणि उसया उ॥३५१।। वीसालसयं पणया-लीसं दस चेव हों ति एको य। तेवीसें च सहस्सं, अदुव अणेगाउ नेयाओ॥३५२|| एककसंयोगे दश भङ्गाः, द्विकसंयोगे पञ्चचत्वारिंशत् 45, एते प्रागेव भाविताः। त्रिकसंयोगे (वीसालसयं चेति) विंशत्युत्तरं शतम्। तचैवम्पञ्चचत्वारिंशत् अष्टकेन गुणिता जातानि त्रीणि शतानि षष्ट्यधिकानि 360 / तेषां त्रिकेनाऽधस्तनेन भागे हृते दाब्धं विंशतिशतम् 120 / चतुष्कसंयोगे भड़कानां द्वेशते दशाऽधिके 210 / तथाहि-त्रिकसंयोगे लब्धशतं प्रतिराशीक्रियते, प्रतिराश्योपरितनेन सप्तकेन गुण्यते, जातान्यष्टौ शतानि चत्वारिंशदधिकानि८४०॥ एतेषामधस्तनेनचतुष्केण भागो व्हियते, लब्धे द्वे शते दशोत्तरे / एवं सर्वत्र भावना कार्या / पञ्चकसंयोगे भङ्गकानां द्वे शते द्विपञ्चाशदधिके 252 / षष्ठकसंयोगे भङ्गकानां दशोत्तरे द्वे शते 210 / सप्तकसंयोगेविंशत्युत्तरं शतम् 120 / अष्टकसंयोगे पञ्चचत्वारिंशत् 45 / नवकसंयोगे दश १०।दशकसंयोगे एकः। सर्वसंख्यया भङ्गानां त्रयोविंशत्यधिकं सहस्रम्। (अदुवा) अथवाअनेका इतोऽप्यतिप्रभूतसंख्याकाः प्रतिसेवनाः ज्ञातव्याः। कथमिति चेत् ? उच्यते-एता हि अनन्तरोदिताः प्रतिसेवनाः सामान्यत उक्ताः तत एता एव भूय उद्घातविशेषणविशिष्टा ज्ञातव्याः,एता एव चानुद्धातविशेषणविशिष्टाः। तदनन्तरमनेका उद्घातानुद्घातसंयोगविकल्पतः, ततः सर्वा अपि पिण्डीकृत्य मूलगुणोत्तरगुणापराधाभ्यां गुणयितव्याः ततो दर्पकल्प्याभ्यामेवानेका भवन्ति / अथवाअनेकप्रतिसेवनाऽऽनयनार्थमयं त्रिंशत्पदाऽऽत्मिका रचना कर्तव्यामासिकम् 1 / पञ्चदिनातिरेकमासिकम् 2 / दशदिनातिरेकमासिकम् 3 / पञ्चदशदिनातिरेकमासिकम् 4 / विंशतिदिनातिरेकमासिकम् 5 / भिन्नमासातिरेकमासिकम् 6 एवं द्वैमासिकत्रैमासिकचातुर्मासिकपाञ्चमासिकेषु प्रत्येक षट् षट् स्थानानि वेदितव्यानि पञ्चषट्कानि त्रिंशत् / एतेषु च त्रिंशतिपदेषु करणमन्तरोदितं प्रवर्तयितव्यम् / तत्र सर्वेषामागतफलानामेकत्र संपिण्डनेनेयं सूत्रसंख्या "कोडिसय सत्ततीसं, .......................(? च होंति लक्खाई। एआलीससहस्सा, अट्ठसया अहियतेवीसा।।१।।" एता अपि सामान्यतः प्रतिसेवना उक्ताः, तत एता एवोद्घातविशेषणविशिष्टा ज्ञातव्याः, तदनन्तरमेता एतानुद्घातविशेषणविशिष्टाः, ततोऽनेकानुद्धातसंयोगतः, ततः संपिण्ड्य मूलोत्तरापराधाभ्यां गुणयितव्याः, तदनन्तरं दर्पकल्पाभ्याम्। एवमनेकाः प्रतिसेवनाः। व्य०१ उ०२ प्रक०। (12) आलोचनां श्रुत्वा प्रायश्चित्तं यथा दद्यात्सो ववहारविहिण्णू, अणुमजित्ता सुतोवदेसेण / सीसस्स देइ, आणं, तस्स इमं देहि पच्छित्तं // 631 / / स आलोचनाऽऽचार्यो व्यवहारविधिज्ञः कल्पव्यवहाराऽऽत्मके छेदश्रुते अनुमज्य पूर्वापरपर्यालोचनेन श्रुततात्पर्यनिष्पन्नो भूत्वा श्रुतोपदेशेन रागद्वेषतोऽन्यथा तस्यपूर्वप्रेषितस्य स्वशिस्याऽऽज्ञांददाति-यथा गत्वा तस्येदं प्रायश्चित्तं देहि। किं तदित्याहपढमस्सय कज्जस्सय, दसविहमालोयणं निसामेत्ता। नक्खत्ते भे पीडा, सुक्के मासं तवं कुणसु॥६३२।