SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ पच्छित्त 188 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त तिरेकसूत्रम् 1 / बहुसातिरेकसूत्रम् 2 / सातिरेकसंयोगसूत्रम् 3 / बहुसातिरेकसंयोगसूत्रम् 4 / नवमं सकलस्य सातिरेकस्य च संयोगसूत्रम् 5 / दशमं बहुशःशब्दविशिष्टस्य सकलस्य बहुशः शब्दविशिष्टस्य सातिरेकस्य च संयोगसूत्रम् 6 / तत्र पञ्चमं सातिरेकसूत्रं पञ्चसूत्राऽऽत्मकम्। तचैवमुच्चारणीयम्- "जे भिक्खू सातिरेगमासिय परिहारहाणं पडिसेवित्ता आलोएज्जा, पलिउंचिय आलोएमाणस्स सातिरेगदोमासियं / " इद पञ्चमसूत्रे प्रथमसूत्रम्। अत्र मासिकस्य सातिरेकतां पूर्वार्द्धन व्याख्यानयतिपञ्चकेन रात्रिन्दिवपञ्चकेन मासोऽधिकः। (दस त्ति) दशभिरहोरात्रैः पक्षण (वीस त्ति) विंशत्या रात्रिन्दिवैर्भिन्नेन भिन्नमासेन, पञ्चविंशन्या दिनैरित्यर्थः / तत्र पञ्चकातिरिक्तो मासो-यथा केनाऽपि शय्यातरपिण्डः सस्निग्धेन हस्तेन मात्रकेण वा गृहीतः तत्र मासः शय्यातरपिण्डग्रहणात् रात्रिन्दिवपञ्चक, सस्निग्धेन हस्तेन मात्रकेण भिक्षाग्रहणात् रात्रिन्दिवदशकेनाऽधिको मासो, यथा केनापि शय्यातरपिण्डः परीत्तकायानन्तरं निक्षिप्तः सस्निग्धेन हस्तेन मात्रकेण वा गृहीतः, तत्र मासः शय्यातरपिण्डग्रहणात रात्रिन्दिवपञ्चकं परीत्तकायानन्तरनिक्षिप्तग्रहणात्। द्वितीय रात्रिन्दिवपञ्चक सस्निग्धेन हस्तेन मात्रकेन वा भिक्षाग्रहणात् / एवं पक्षाऽऽद्यतिरेकेऽपि भावना कार्या / एवं द्वितीयतृतीयसूत्राऽऽदिष्वपि द्वैमासिकाऽऽदीनां सातिरेकता पञ्चकाऽऽदिभिभावनीया / सूत्रपाठस्त्वेवम् - "जे भिक्खू सातिरेग दोमासिय परिहारट्ठाणं पडिसेवित्ता आलोएजा, अपलिउंचिय आलोएमाणस्स सातिरेग मासियं, पलिउंचिय आलोएमाणस्स सातिरेग तेमासियं / जे भिक्खू सातिरेग तेमासियं परिहारहाणमित्यादि।'' षष्ठमपि बहुशः शब्दविशिष्ट सातिरेकसूत्रं पञ्चसूत्राऽऽत्मकम्। तचैवमुचारणीयम्- "जे भिक्खू बहुसो सातिरेगमासियं परिहारहाण पडि-सेवित्ता आलोएज्जा, अपलिउंचिय आलोएमाणस्स सातिरेगदोमासियं / जे भिक्खू बहुसो सातिरेगदोमासिय परिहारट्टाणं पडिसेवित्ता आलोएज्जा, अपलिउंचिय आलोएमाणस्स सातिरेगदोमासिय, पलिउंचिय आलोएमाणस्स सातिरेगते-मासियं।" इत्यादि सप्तमं सातिरेकसंयोगसूत्रम्। अष्टम बहुशः सातिरेकसयोगसूत्रम्। तत्र सातिरेकाणां मासिकाऽऽदीनां संयोगाः सातिरेकसंयोगाः, तदात्मकं सूत्रं सातिरेकसंयोगसूत्रं, तदेव बहुशःशब्दविशिष्टं बहुशः सातिरेकम्। तत्र सातिरेकाणि पञ्च पदानि। तद्यथा-सातिरेक मासिकम् 1 / सातिरेक द्वैमासिकम् 2 / सातिरेकं त्रैमासिकम् 3 / सातिरेकं चातुर्मासिकम् / / सातिरेक पाशमासिकम् 5 / पञ्चानां च पदानां द्विकसंयोगे भगा दश, त्रिकसयोगेऽपि दश, चतुष्कसंयोगे पञ्च, पञ्चकसंयोगे एकः / एते च तृतीयचतुर्थसूत्रचिन्तायामिव भावनीयाः सर्वसंख्यया भङ्गाः षड्विंशतिः / एवमेव षड्विंशतिर्भङ्गाः सातिरेकसंयोगसूत्रेऽपि भावनीयाः। उभयमीलने भगा द्वापञ्चाशत् / पञ्च सूत्राणि पञ्चमे सातिरेकसूत्रे,पञ्च सूत्राणि षष्ठे बहुशः सातिरेकसूत्रे; तान्यप्यत्र मीलितानि जातानि सर्वसंख्यया द्वाषष्टिसूत्राणि 62 / एतानि च उद्धातानुद्धातविशेषरहितानि / तत एतावन्त्येबोद्धातविशेषपरिकलितान्यन्यानि सूत्राणि द्रष्टव्यानि 62 / एतावन्त्येव चानुद्धातविशेषपरिकल्पितान्यपि 62 / एवमेतास्तिस्रो / द्वाषष्टयः सूत्राणां सर्वसंख्यया पडशीतं सूत्रशतम् 186 / अत ऊर्द्ध / तूद्धातमिश्रकाभिधानतः संयोगसूत्राणि भवन्ति / तत्सूचनार्थमिदमुत्तरार्द्धमाह-(संजोगा कायव्वा इत्यादि) गुरवश्च लघवश्च गुरुलघवः, ते च ते मिश्राश्च गुरुलघुमिश्राः, तैरनेकैः संयोगा भवन्ति कर्त्तव्याः। त चैवमुचारणीयाः-"जे भिक्खू सातिरेगउग्घायमासियं वा परिहारट्टाणं पडिसेवित्ता आलोएजा, अपलिउंचिय आलोएमाणस्स सातिरेगमुग्घायमासियं वा, पलिउंचिय आलोएमाणस्स सातिरेगमुग्घायदोमासियं घा, सातिरेगमणुग्घायदोमासियं वा / जे भिक्खू सातिरेगमुग्घायमासियं वा सातिरेगमणुग्घायदोमासिय वा परिहारहाणं पडिसेवित्ता।" इत्येवमुदधातितपदममुञ्चता अनुद्घातद्वैमासिकाऽऽदीन्यपि वक्तव्यानि / एवमेते भङ्गाः पञ्च / एते अनुद्घातमासिके अनुयातमासिकद्वैमासिकाऽऽद्यधिसंयोगेन लब्धाः / एवमुद्घातिते द्वैमासिकेऽपि पञ्च, पाश्चमासिकेऽपि पश्चेत्युभयोरेककसयोगेन सर्वसंख्यया भङ्गाः पञ्चविंशतिः / तथा उद्घातसातिरेकमासिके / एवमनुद्घातसातिरेकमासिकद्वैमासिकाऽऽदिद्विकसंयोगे भड़ा दश / एवमुद्घातिते साविरेके द्वैमासिके त्रैमासिके चातुर्मासिके पाञ्चमासिके च प्रत्येक दश दशेति सर्वसंख्यया उद्घातितैकसंयोगे,अनुद्घातितद्विकसंयोगे भङ्गाः पञ्चाशत्। एवं तृतीयसूत्रानुसारतो भङ्गगास्तावद्द्वाच्याः यावत्सर्वसंख्यया भङ्गानां नवशतान्येकषष्ट्यधिकानि६६१ भवन्ति / एतावन्त एव च 661 भङ्ग काः अष्टमेऽपि बहुशः सातिरेकसंयोगसूत्रे भवन्ति / षडशीतं शतं सूत्राणां प्राक्तनमिति सर्वसंख्यया पञ्चमषष्ठसूत्रेषु सूत्राणामेकविंशतिशतान्यष्टोत्तराणि भवन्ति 2108 / एतानि च मूलगुणापराधाभिधानेनोत्तरगुणापराधाभिधानेन र प्रत्येकं वक्तव्यानीत्येष राशिभ्यां गुण्यते, जातानि द्वाचत्वारिंशतानि षोडशोत्तराणि 4216 / एतानि च दर्पतः कल्पतो वाऽप्ययतनया भवन्तीति द्वाभ्यां गुण्यन्ते, जातानि अष्टौ सहस्राणि चत्वारि शतानि द्वात्रिंशदधिकानि 5432 // एतावन्त्येव चाऽऽदिमेषु सूत्रेषु सूत्राणि द्वात्रिंशदधिकानि 8432 // एतावन्त्येव चाऽऽदिमेषु सूत्राणि भवन्तीत्यष्टास्वपि सूत्रेषु सर्वसंख्ययः सूत्राणां षोडश सहस्राण्यष्टौ शतानि चतुःषष्ट्यधिकानि भवन्ति 16-865 नवमं सूत्रं सकलस्य सातिरेकस्य च संयोगाऽऽत्मक, तत्र सकलसयोगा मासिक्द्वैमासिकाऽऽदिसंयोगाः सातिरेकसंयोगाः लघुगुरुपञ्चकदशका. दिसंयोगाः / तत्र प्रथमतो लघुगुरुरहितपञ्चकाऽऽदिसूत्राणि केवलान्युपदयन्ते- "जे भिक्खू पणगातिरेगं मासियं परिहारट्ठाण पडिसेवित्त आलोएजा" इत्यादि / "जे भिक्खू दसगातिरेगं मासियं परिहारहाण सेविता" इत्यादि। एवं पञ्चदशकेन विंशत्या सातिरेकसूत्राणि मासिकविषयाणि वक्तव्यानि / एवमेव प्रत्येक द्वैमासिकत्रैमासिकचातुर्मासिकपाञ्चमासिकविषयाण्यपि पञ्च पञ्च सातिरेक सूत्राणि वक्तव्यानि, सर्वसंख्यया पञ्चविंशतिसूत्राणि / एवं लघुपञ्चकाऽऽदिविषयाण्यपि पञ्चविंशतिसूत्राणि वाच्यानि। एवमेव पञ्चविंशतिसूत्राणि गुरुपञ्चकाऽऽदि. विषयाण्यपि।सर्वमीलने पञ्चसप्ततिसूत्राणि। एतानि गुरुलघुविशेषरहितमासिकाऽऽदिविषयाणि, तदनन्तरमेतावन्त्येव लघुमासिकाऽऽदिविषयाण्यपि वक्तव्यानि / ततः पुनरप्येतावन्ति गुरुमासिकाऽऽदिविषयाणि, सर्वसंख्यया एककसंयोगसूत्राणा द्वेशतेपञ्चविंशत्यधिके 225 / तदनन्तरम्"जे भिक्खू पणगातिरंगमासियं वा पणगातिरेगदोमासियं वा परिहारहाणं पडिसेवित्ता आलोएजा।" इत्यादि / तथा- "जे भिक्खू पणगातिरंगमा
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy