________________ पच्छित्त 187- अभिधानराजेन्द्रः - भाग 5 पच्छित्त त्येवंशीलोऽपायदर्शो। किमुक्त भवति? यः सम्यगालोचयति, कुञ्चितं / वा आलोचयति, दत्तं वा प्रायश्चित्तं सम्यग् न करो ति, तस्य, यदि वनसम्धगालोचयिष्यसि प्रतिकुञ्चितं वा करिष्यसि, दत्तं वा प्रायश्चित्तं मसम्यक पूरयिष्यसि, ततस्ते भूयान्मासिकाऽऽदिको दण्डो भविष्यतीत्येवनिहलोकापायान्; तथा संसारे जन्ममरणाऽऽदिकं त्वया प्रभूतमनुभवितव्य, दुर्लभबोधिता च तवैवं भविष्यतीत्येवं परलोकापायांश्च दर्शयति, सोऽपायदर्शीति भावः। तथा न परिश्रवतीत्येवंशीलोऽपरिश्रावी, आलोचित गोप्यमगोप्यं वा योऽन्यस्मै नकथयति सोऽपरिश्रावीतिभावः। साम्प्रतमालोचकमभिधित्सुराहआलोयंतो एत्तो, दसहिँ गुणेहिं तु होइ उववेओ। जाइकुलविणयनाणे-दसणचरणेहिं संपन्नो // 336 / / खंते दंते अमाई, अपच्छतावी य होति वोधव्यो। आलोयणाएँ दोसे, एत्तो वुच्छं समासेणं / / 340 / / इतऊर्द्धमालोचयन्नालोचको वक्तव्यः, सच दशभिर्गुणैरुपपेत एव युक्त एव भवति। तुरेवकारार्थो भिन्नक्रमत्वादत्र संबध्यते / तानेव गुणानुपदर्शयाते-(जाइ इत्यादि) जातिसंपन्नः, कुलसंपन्नः, मातृपक्षो जातिः, पितृपक्षः कुलम्। विनयसंपन्नः, ज्ञानसंपन्नो, दर्शनसंपन्नः, चरणसंपन्नः। क्षान्तः, दान्तः, अमायी, अपश्चात्तापी च बोधव्यः। अथ कस्माद्बालोचकस्यैतावान गुणसमूहोऽन्विष्यते? उच्यते-जातिसंपन्नः प्रायोऽकृत्यं न करोति, अथ कथमपि कृतं तर्हि सम्यगालोचयति। कुलसंपन्नः प्रतिपन्नप्रायश्चित्तनिर्वाहक उपजायते। विनयसंपन्नो निषद्यादानाऽऽदिकं विनयं सर्व करोति सम्यगालोचयति / ज्ञानसंपन्नः श्रुतानुसारेण सम्यगालोचयति, अमुकश्रुतेन मे तद्दत्तं प्रायश्चित्तमतः शुद्धोऽहमिति च जानीते। दर्शनसंपन्नः प्रायश्चित्तात् शुद्धि श्रद्धत्ते ! चरणसंपन्नः पुनरतिचार प्रायोन करोति, अनालोचिते चारित्रं मे न शुद्ध्यतीति सम्यगालोचयति। क्षान्तो नाम क्षमायुक्तः, स करिमश्चित्प्रयोजने गुर्वादिभिः खरपरुषमपि भणितः सम्यक् प्रतिपद्यते, यदपि च प्रायश्चित्तमारोपितं तत्सम्यग्वहति / दान्तो नाम इन्द्रियजयसंपन्नः, स प्रायश्चित्ततपः सम्यक् करोति / माया अस्यास्तीति मायी, न मायी अमायी, सोऽप्रतिकुञ्चितमालोचयति / अपश्चात्ताधी नाम यः पश्चात्परितापं न करोति-हा दुष्टु कृतं मया यत् आलोचितमिदानी प्रायश्चित्ततपः / कथं करिष्यामीति ? किन्त्वेवं मन्यतेकृतपुण्योऽहं यत्प्रायश्चित्तं प्रतिपन्नवानिति / अत ऊर्द्धमालोचनाया दोषान समासेन संक्षेपेण वक्ष्ये। प्रतिज्ञातमेव निर्वाहयतिआकंपइत्त अणुमा-णइत्त जं दिट्ठ बायरं सुहुमं / छाणं सद्दाउलगं, बहुजण अव्वत्त तस्सेवी॥३४१॥ आवर्जितः सन् आचार्यः स्तोकं मे प्रायश्चित्तं दास्यतीति बुझ्या वैयावृत्त्यकरणाऽऽदिभिरालोचनाऽऽचार्यमाकम्प्य आराधयन् आलोचयत्येष आलोचनादोषः 1 तथा अनुमान्य अनुमानं कृत्वा लघुतरापराधनिवेदनातो मृदुदण्डप्रदायकत्वाऽऽदिस्वरूपमाचार्यस्याऽऽकलय्य रादालोचयत्येषोऽप्यालोचनादोषः 2 / तथा यद् दृष्टमपराधजातं क्रियमाणमाचार्याऽऽदिना तदेवाऽऽलोचयति नापरमिति तृतीय आलोचनादोषः 3 / (वायर त्ति) बादरं दोषजातमालोचयति, न सूक्ष्म, तत्रावज्ञापरत्वदिष चतुर्थमालो-चनादोषः 4 / (सुहुमं ति) सूक्ष्म वा दोषजातमालोचयति, न बादनम्। यः किल सूक्ष्ममालोचयति स कथं बादर नाऽऽलोचयि-व्यतीत्येवंरूपभावसंपादनार्थमेवार्थस्येति / एष पञ्चम आलोचनादोषः 5 / तथा (छण्णमिति) प्रच्छन्नमालोचयति / किमुक्तं भवति?-लजालुतामुपदाऽपराधानल्पशब्देन तथाऽऽलोचयति यथा केवलमात्मैव शृणोति, न गुरुरित्येष षष्ठ आलोचनादोषः 6 / (सद्दाउल त्ति) शब्दाकुलं बृहच्छब्दं यथा भवत्येवमालोच-यति। इदमुक्तं भवतिमहता शब्देन तथा आलोचयति यथा अन्येऽप्यगीतार्थाऽऽदयः शृण्वतीत्येष सप्तम आलोचनादोषः७। तथा (बहुजण त्ति) तथा बहुजनमध्ये यदालोचनं तद्बहुजनम् / अथवा-बहवो जना आलोचनागुरवो यत्र तत् बहुजनमालोचनम्। किमुक्तं भवति? -एकस्य पुरत आलोच्य तदेवापराधजातमन्यस्यान्यस्य पुरत आलोचयति, एषोऽष्टम आलोचनादोषः / (अव्वत्त त्ति) अव्यक्तोऽगीतार्थस्तस्याव्यक्तस्य गुरोः पुरती यदपराधाऽऽलोचनं तदव्यक्तम्। एष नवम आलोचनादोषः / / (तस्सेवी ति) शिष्यो यमपराधमालोचयिष्यति तमेव सेवते यो गुरुरसौ तत्सेवी, तस्य समीपे यदपराधाऽऽलोचनमेष ममातिचारेण तुल्यस्ततो न किमपि मे प्रायश्चित्त दास्यत्यल्प वा दास्यति, न च मां खरण्टयिष्यति-यथा विरूपं कृतं त्वयेति बुद्ध्या यदालोचनं तत्सेवी / एष दशम आलोचनादोषः 10 / तदेवमालोचनाविधिदोषा उक्ताः। संप्रति यथाभूतेषु द्रव्याऽऽदिष्वालोचनं तथाभूतद्रव्याऽऽदि प्रतिपादनार्थमाहआलोयणाविहाणं, तं चिय जंदव्व खित्त काले य। भावे सुद्धमसुद्धे, ससणिद्धे सातिरेगाई॥३४२॥ आलोचनाविधानं तदेवात्राऽपि सविस्तरमभिधातव्यम्। यदुक्तं प्रथमसूत्रे- 'दव्वादि चउरभिग्गह'' इत्यादिना ग्रन्थेन / ततः प्रागुक्तदोषवर्जिता आलोचना प्रशस्ते द्रव्ये क्षेत्रे काले भावे च प्रागुक्तस्वरूपेदातव्या, नाऽप्रशस्ते इह प्रतिसेवितं द्विधा भवति-शुद्धम्, अशुद्ध च / तत्र यत् शुद्धेन भावेन प्रतिसेवितं यतनया च तत् शुद्ध, तब शुद्धत्वादेव न प्रायश्चित्तविषयः / यत्त्वशुद्धेन भावेन प्रतिसेवितमयतनया च तदशुद्ध, तच्च प्रायश्चित्तविषयोऽशुद्धत्वात्, तस्मिश्चाशुद्धे प्रायश्चित्तानि केवलानि मासिकाऽऽदीनि सातिरेकाणि च। तत्र सा तिरेकाणि (ससणिद्धे इति) सस्निग्धे हस्ते मात्रके वा सति तेन भिक्षाग्रहणतः, उपलक्षणमेतत्तेन बीजकायसंघट्टनाऽऽदिनाऽऽपि सातिरेकाणि द्रष्टव्यानि। तत्र सातिरेकतामेव भावयतिपणगेणऽहिओ मासो, दस पक्खेणं च वीस मिन्नेणं / संजोगा कायव्वा, गुरुलहुमीसे हिँ य अणेगा॥३४३|| इह मूलत आरभ्याऽमूनि सर्वाण्यप्यालोचनासूत्राणि किल सर्वसंख्यया दश भवन्ति।तत्राऽऽद्यानि चत्वारिसूत्राणि साक्षात्सूत्रतएव परिपूर्णान्युक्तानि, शेषाणि तु षट् सूत्राण्याभ्यां द्वाभ्यां सूत्राभ्यामर्थतः सूचितानि / तानि चामूनि-सा