________________ पच्छित्त 147- अभिधानराजेन्द्रः - भाग 5 पच्छित्त एवाऽऽगमसुयनाणी, सुज्झइ जेणं तयं देंति // 143 / / यो रोगो यस्मिन्पुरुषेऽल्पो महान् वा पुरुषप्रकृतिमपेक्ष्य वन्मात्रेण प्रशाम्यति तस्य पुरुषस्य तत् तावन्मात्रं भेषजं वैद्यः प्रयच्छति। नाधिकम्; एवममुना दृष्टान्तप्रकारेण, मकारस्य लोपः प्राकृतत्वात् / (आगम्सुयनाणी ति) ज्ञानिशब्दः प्रत्येकमभिसंबध्यते / आगमज्ञानिनः श्रुतहानिनश्च गीतार्थोऽगीतार्थश्व येन यावन्मात्रेण प्रायश्चित्तेन परिणामवशात् शुद्धयति तस्मै तत् तावत्प्रमाणं प्रायश्चित्तं ददति, ततो यथौचित्यप्रवृत्तेर्न रागद्वेषवत्तेति न काचित् क्षतिः। संप्रतिवक्ष्यमाणार्थसूचिकामिमा संग्रहणिगाथामाहसुत्तं चोयग मा मद्द-भत्ति कोट्ठारतिय दुवे य खल्लाडा। अद्धाणसेवियम्मी, सव्वेसिंघेत्तुणं दिन्नं / / 144 / / प्रथमतः प्रमाणत्वेन सूत्रमुपन्यसनीयम्, ततश्चोदकवचन मुत्क्षि-प्य मा इति प्रतिषेधो वक्तव्यः, तदनन्तरं गर्दभदृष्टान्तः, ततोऽध्वनि सेविते अनेकवार मासिके परिहारस्थाने तेषां सर्वेषां समविषमतया दिवसान गृहीत्वा परामेकं मासिक प्रायश्चित्तमित्युक्ते चोदकवचनमुत्क्षिप्य कोष्ठागारत्रयं दृष्टान्तत्वेनोपन्यस्तव्यम्, तदनन्तरं च भूयः परवचनमाशड्लप द्वौ खल्वाटौ दृष्टान्तौ कर-णीयाविति गाथाऽक्षरयोजना। भावार्थ तु स्वयमेव भाष्यकृद्वक्ष्यति। तत्र- 'सुत्तं चोयग मा'' इत्येतद् व्याख्यानयन्नाहअवि य हु सुत्ते भणियं, सुत्तं विसमं ति मा भणसु एवं / संभवइ न सो हेऊ, अत्ता जेणालियं बूया // 145 / / अपि चेति रागद्वेषवत्ताभावहेत्वन्तरसमुच्चयने, आस्तां गीतार्थाऽगीता- 1 थभेदेन यथौचित्यप्रायश्चित्तदानतो न वयं रागद्वेषवन्तः, अपि च अन्यच सूत्रमेवविधष्वर्थेषु प्रमाण, सूत्रे बहु निश्चित्तं विषमास्वपि प्रतिसेवनासु तुल्यं प्रायश्चित्त भणितं, ततो न कश्चिद् दोषः / एतावता सूत्रमिति व्याख्यातम्। तत्र चोदक आह-ननु सूत्रमेव विषमं न समीचीनं, परस्परविरुद्धत्यात् / तथा ह्यादिमेषु पञ्चसु सूत्रेषु यावत् प्रतिसेवितं तावतः परिपूर्णस्य दानम, उत्तरेषु तु पञ्चसु सूत्रेषु बहुशः प्रतिसेवितेष्वपि मासिकाऽऽदिष्वेककसंख्याकस्य मासिकाऽऽदेर्दानं, न च विषमासु प्रतिसेवनासु सम प्रायश्चित्तं दातुमुचितमिति / एतावता चोदक इति व्याख्यातम् / इदानीमेतदेव चोदकवचनमुत्क्षिप्यमिति व्याख्यानयति(सुत्त विसमं ति इत्यादि) एवमुपदर्शितन प्रकारेण सूत्रं विषममिति मा भणमा वादीः। यतः सूत्रस्य अर्थतः कर्तारो भगवन्तो वीतरागाः सर्वज्ञाः"अत्थ भासइ अरहा'' इति वचनात्। एवं परमार्थतः प्राप्तिः क्षीणरागाऽऽदितया परिपूर्णयथावस्थिताऽऽसत्व लक्षणसद्भावात्, न च तेषामित्थभूतानामाप्तानां रा हेतुः कारणं संभवति, येन ते आता अलीकं ब्रूयुः / अलीकभाषणाहेतोः रागाऽऽदेर्निर्मूलकाषं कषणात्। उक्तं च- "रागाद्वा द्वेषाद्रा, मोहाद्वा वाक्यमुच्यते ह्यनृतम् / यस्य तु नैते दोषास्तस्याऽनृतकारणं किं स्यात् ? // 1 // " ननु यद्यपणेवं तथापि विषमाणि खलु प्रतिसेवनावस्तूनि, विषमेषु च प्रतिसेवनावस्तुषु कथं तुल्यं प्रायश्चित्तमिति? तत्राऽऽहकामं विसमा वत्थू, तुल्ला सोही तहा वि खलु तेसिं। पंचवणि तिपंचखरा, अतुल्लमुल्ला य आहरणं / / 146 / / काममित्यनुमतौ / काममनुमन्यामहे विषमाणि वस्तूनि प्रतिसेवनालक्षणानि, तथाऽपि खलु निश्चितम्, तेषां शुद्धिस्तुल्या भवति, प्रतिसेवकभेदात्। एकत्र ह्यगीतार्थः प्रतिसेवकोऽन्यत्रगीतार्थः / तथा चाऽत्र पञ्चवणिजा पञ्चानां वणिजा, त्रिपञ्च खराः पञ्चदश गर्दभाः। पञ्चवणिक त्रिपञ्चखराः कथंभूता इत्याह- अतुल्यमूल्या अतुल्यम् असदृशं मूल्यं येषां ते तथा / आहरणं दृष्टान्तः- "पंचवणिया समभागसामाइया ववहरति / तेसि पन्नरस खरा लाभतो जाता; ते विसमभारवाहितेण विसममोलतेण य समं विभइउमचायंता भंडिउमारद्धा, ततो ते एकस्स बुद्धिमतस्स समीवमुवट्ठिया। तेण खराण मुलं पुच्छिया। तेहिं कहियं / ततो भणइ-सम विभयामित्ति, धीरा होह / मा भंडेह / ततो तेण एक्को खरो सहिमोल्लो एक्कस्स वाणियगस्स दिण्णो, दोण्णि खरा पत्तेयं तीसमोल्ला विइयस्स वाणियगस्स दिन्ना। तिण्हं खराणं पत्तेयं वीस वीस मोल्लं, ते तइयस्स वाणियगस्स दिन्ना / चतुण्डं खराण पत्तेयं पन्नरस मोल्लं, ते चउत्थरस वाणियगस्स दिन्ना। पंच खरा पत्तेयं वारसमोल्ला, ते पंचमरस वाणियगस्स दिन्ना।" एतदेवाऽऽहविणिउत्तभंडभंडण, मा भंडहएत्थ एगसट्ठी उ। दो तीस तिन्नि वीसग, चउ पन्नरस पंच वारसगा / / 147 / पञ्चाना वणिजा समभागसामाजिकानां विनियुक्तभाण्डानां विनि-युक्त व्यापारितं भाण्ड क्रयाणक यैस्ते तथा, तेषां पञ्चदश खरा अभूवन्निति वाक्यशेषः / ते च विषमभारवाहिनो विषममूल्याश्च, ततो यद्यपि समविभागेन विभज्यमाना रूपतस्त्रयस्त्रया भवन्ति, तथाऽप्यतुल्यमूल्या इति परस्परं भण्डनमभूत्। तत्रएकोऽपरोमध्यस्थः समागत्य ब्रूतेमा भण्डयताह समविभागेन विभज्य दास्यामीति / तत्रैकः षष्टिकः षष्टिमूल्यः, एकस्य दत्त इति वाक्यशेषः / एवंद्वौ त्रिंशन्मूल्यौ द्वितीयस्य, यो विंशतिमूल्यास्तृतीयस्य, चत्वारः पञ्चदश मूल्याः चतुर्थस्य, पञ्च द्वादशमूल्याः पञ्चमस्य / यथा तेषां पञ्चानां वणिजा पञ्चदश खराः परस्परमतुल्यतया विभिन्नास्तथा केनाऽपि विभज्य दत्ता यथा तुल्या लाभप्राप्तिर्भवति, तथा साधूनामपि गीतार्यागीतार्थाऽऽदिभेदेनानेकविधानामागमव्यवहारिणां श्रुतव्यवहारिणां वा तथा कथश्चनापि रासभस्थानीया मासा विभज्य दीयन्ते यथा तुल्या विशोधिर्भवतीति। एतदेवाऽऽहकुसलविभागसरिसओ, गुरु साहू य होंति वणिया वा। रासभसमा य मासा, मोल्लं पुण रागदोसाउ॥१४८|| कुशलो विभागे कुशलविभागः, राजदन्ताऽऽदित्वाभ्युपगमात्कुशलशब्दस्य पूर्वनिपातः / तेन सदृशस्तुल्यो गुरुरागमव्यवहारी वा श्रुतव्यवहारी वा, साधवश्च भवन्ति वणिज इव वणिक्तुल्याः। वाशब्द उपमानार्थ: "वा विकल्पोपमानयोः" इति वचनात् / रासभसमाश्च मासाः, मूल्यं पुनः रागद्वेषावेव / तुशब्द एवकारार्थः / तथाहि-यथा रासभद्रव्यगुणवृद्धिहानितो मूल्यवृद्धिहानी, तथा रागद्वेषवृद्धिहानिकृते प्रतिसेवनातः प्रायश्चित्तस्य वृद्धिहानी / यथा केनापि तीव्रराग