________________ भोयण 1616- अमिधानराजेन्द्रः - भाग 5 भोयण प्येषणया शुद्ध भुक्ते य एतानि पदानि प्रायुड्वत इति। एवं एगस्स विही, भोत्तव्वे वन्निओ समासेणं। एमेव अणेगाण वि, जं नाणत्तं तयं वोच्छं / / 552 / / एवमेकस्य साधोः भोक्तव्ये विधिर्वर्णितः समासेन संक्षेपेण, एवमेव अनेकेषामपि साधूनां भोजने विधिः, यत्तु पुनर्नानात्वं भवति यो भेदो यदतिरिक्तं भवति तदहं वक्ष्ये। आह-किं पुनः कारणं मण्डली क्रियते? उच्यतेअतरंतबालवुड्डा, सेहाएसा गुरू असहुवग्गो। साहारणोग्गहाऽलद्धिकारणा मण्डली होइ॥५५३।। अतरन्तः अतिग्लानः तत्कारणात्तन्निमित्तं मण्डली भवति, यतस्तस्य ग्लानस्य यद्येकः साधुः वैयावृत्यं करोति ततस्तस्य तत्रैवाक्षणिकस्य सूत्रार्थहानिर्भवति, मण्डलीबघे तु कश्चित्किञ्चित्करोति, एतदर्थ मण्डली क्रियते येन बहवः प्रतिजागरका भवन्तीति। बालोऽपि भिक्षामटितुमसमर्थः, स च बहूना मध्ये सुखेनैव कथं नु नाम वर्तेत?, ततो मण्डली भवति, वृद्धोऽप्येवमेव, सेहः शैक्षकः, स चैकः सन् भिक्षाविशुद्धि नजानाति, ततस्तस्याऽऽनीय दीयते, 'आएसो' प्राघूर्णकस्तस्य चाऽऽगतस्य सर्व एवोपकुर्वन्ति, स चोपकारः सर्वैरव मिलितैः कर्तुं शक्यते न त्वेकेन, गुरोश्व सर्वेरेवोपकर्तुं शक्यते, न त्वेकेन, सूत्रार्थपरिहानेः तथा (असहुवग्ग त्ति) असमर्थो राजपुत्राऽऽदिः, सच भिक्षामटितुसुकुमारत्वान्न शक्नोति, ततश्च सर्व एव मिलिता उपकुर्वन्ति, तस्मात् 'सावारणोग्गहो' साधारणश्वासावुपग्रहश्व साधारणोपग्रहः, तस्मात्साधारणोपग्रहात्कारणात् मण्डली कर्तव्या, अथवा-- मण्डलीविशेषणमेतद्, उपगृह्णाति इति उपग्रहः भक्ताऽऽदिस्स साधारणस्तुल्यो यस्यां सा साधारणोपग्रहा मण्डली भवति (अलद्धिकारणा मण्डली होइ त्ति) कदाचित्कश्चित्साधुरलब्धिमान भवति, ततश्च ते अन्ये साधवः तस्मै आनीय प्रयच्छन्ति, अत एतत्कारणात् मण्डली भवति। इदानी भिक्षागतानां साधूना यो वसतिरक्षपालस्तेन किं कर्त्तव्यमित्यत आहगाउ णियट्टणकालं, वसहीपालो उ भायणुग्गाहे। परिसंठिअच्छदवगेण्हणट्ठया गच्छमासज्जा // 554 // ज्ञात्वा भिक्षागतानां निवर्तनकालं वसतिपालः भाजनं नन्दीपात्रं | तत्प्रत्युपेक्ष्योद्ग्राहयति, संघट्टितेन आस्ते इत्यर्थः, किमर्थः? परिसंस्थिताऽच्छद्रवग्रहणार्थम, एतदुक्तं भवति-तत्राऽऽनीयसाधवः पानके पक्षिपन्ति, पुनश्च तत्र परिसस्थितंस्वच्छीभूतं सत् तस्मादन्यत्र पात्रके क्रियते येन तत् स्वच्छमार्यादीनां योग्यं भवति, पात्रकाऽऽदिप्रक्षालनं च क्रियते, (गच्छमासज्ज त्ति) गच्छमासृत्य गच्छस्य प्रमाणं ज्ञात्वा पात्रकमुद्ग्राहयन्ति, एतदुक्तं भवति यदि महान् गच्छस्ततः पानकगलनार्थ महाप्रमाणं पात्रकमुदग्राहयति, तथा द्वे त्रीणि चत्वारिपञ्चाऽऽदीनि यावत्। असई य णियत्तेसुं, एक चउरंगूलूणभाणेसुं। पक्खिविय पडिग्गहगं, तत्थऽच्छदवं तु गालेज्जा / / 555 / / अथ तत्र रजपालः समर्थो नास्ति यः पात्रमुद्ग्राहयति, अथवा-- (असती यत्ति) यदि नन्दीपात्रं नास्ति यत्रोदकमानीतं स्वच्छीकरणार्थ क्रियते . ततः असति तस्मिन् नन्दीपात्रे तदेक पतद्ग्रह प्रक्षिप्य, व? अत आह-(चउरंगुलूणभाणेसुं) चतुर्भिरड्गुलैरूनानि यानि भाजनानि, तेषु प्रक्षिप्य पतद्ग्रहं पुनस्तस्मिन् क्षणीभूते स्वच्छं द्रवं गालयेत्, अत्र चायं नियमो द्रष्टव्यः-यदुत भिक्षा तावत् साधवः पर्यटन्ति यावत्पात्रकं चतुभिरड्गुलैरूनमास्ते, इति। ___ आह-किं पुनः कारणं तद्वगलनं क्रियते ? उच्यतेआयरियअभावियपाणगट्ठया पायपोसधुवणट्ठा। होइ य सुहं विवेगो, सुह आयमणं च सागरिए॥५५६|| आचार्यपानार्थमभावितसेहाऽऽदिपानार्थ च गलनं क्रियते / तथा पादधावनार्थ (पोस त्ति) अधिष्ठान, तत्प्रक्षालनार्थ, तथा भवति च सुखेन विवेकः त्यागोऽतिरिक्तस्य तस्य पानकस्य, तथा सुखेन वा आचमनं सागारिकस्याग्रतः क्रियते , एवमर्थ गलनं क्रियत इति / कियन्ति पुनः पात्रकाणि गलितद्रव स्य भियन्ते? इत्यत आहएक व दो व तिन्नि व, पाए गच्छप्पमाणमासज्ज। अच्छदवस्स भरेज्जा, कसट्टवीए विगिंचिजा।।५५७।। एक द्वे त्रीणि वा पात्रकाणि भियन्ते, गच्छप्रमाणं ज्ञात्वा चतुष्प्रभृतीन्यपि नियन्ते स्वच्छद्रवस्य, तत्र च गलिते सति कसट्टे कचवरं बीजानि च गोधूमाऽऽदीनि विगिश्चेत् परित्यजेत्, एवं तावत्पात्रकर्णेनापि उदकमपवृत्य पानकगलनं क्रियते। अथ पुनस्तत्र कीटिकामर्कोटिकाऽऽदयः प्लवमाना दृश्यन्ते, ततस्तत्र गलिते को विधिरित्यत आहमूइंगाईमक्कोडयेहिं संसत्तगं च नाऊणं / गालेज छव्वएणं, सउणीधएण व दवं तु / / 558|| मुइङ्गा कीटिका मर्कोटकाव तैः संसक्तं ज्ञात्वा गालयेत् (छव्वएणं) वंशपिटकेन शकुनिगृहकेण वा गालयेत् तद्द्वम्। इय आलोइयपट्टवियगालिए मंडलीइ सट्ठाणे। सज्झायमंगलं कुणइ जाव सवे पडिनियत्ता / / 556 / / (इय ति) पूर्वोक्तविधिना आलोचिते सति प्रस्थापिते स्वाध्या ये गलिते चपानके पुनश्च मण्डल्यां स्वस्वस्थाने उपविश्य स्वध्यायमङ्गलं करोति, स्वाध्याय एव मङ्गलं स्वाध्यायमङ्गलं तत्करोति यावत्सर्वे साधवः प्रतिनिवृत्ता भवन्तीति। एवं यदि सहिष्णवः ततो यौगपद्येन भुञ्जते, अथासहिष्णवस्तत्र केचिद्भवन्ति ततः को विधिरित्यत आहकालपुरिसे व आसज्ज मत्तए पक्खिवित्तु तो पढमा। अहवा विपडिग्गहणं, मुयंति गच्छं समासज्ज / / 560 / / स चासहिष्णु : ग्रीष्मकालाऽऽद्यङ्गीकृत्य भवति, तत एव वा पुरुषः कदाचित् क्षुधाऽऽता भवति, लमाश्रित्य मात्र के