________________ भोयण 1615 - अभिधानराजेन्द्रः - भाग 5 भोयण ते च भुञ्जानाः सन्त आलोके भुञ्जते। स चाऽऽ लोको द्विविधो भवतीत्याहदुविहो खलु आलोगो, दव्वे भावे य दवि दीवाई। सचविहो पुण भावे आलोगं तं परिकहेह // 546 / / द्विविध आलोकः- द्रव्याऽऽलोको भावाऽऽलोकश्च। तत्र द्रव्याऽऽलोकः प्रदीपाऽऽदि, भावे भावविषयः पुनरालोकः सप्तविधः, च कथयाम्यहम्, तत्र भावाऽऽलोकस्येयं व्युत्पत्तिः- आलोक्यत इत्यालोकः स्थानदिगादिनिरूपणमित्यर्थः। तं च सप्तविधमपि प्रतिपादयन्नाहठाणदिसिपगासणया, भायणपक्खेवणे य गुरुभावे / सत्तविहो आलोओ, सया विजयणा सुविहियाणं / / 550 / / तैश्च अमण्डलिसमुद्दिशकैः निष्क्रमणप्रवेशवर्जिते स्थाने भोक्तव्यं, तथा कस्यां दिशि आचार्यस्योपवेष्टव्यमित्येतद्वक्ष्यति, तथा सप्रकाशे स्थाने भोक्तव्यम, भाजने च विस्तीर्णमुखे भोक्तव्यं, प्रक्षेपणं च कवलाना कुक्कुट्यण्डकमात्राणां कर्त्तव्यं, तथा गुरोश्चक्षुः पथे भोक्तव्यं, तथा भावो ज्ञानाऽऽदिः तत् संवहनार्थ भोक्तव्यमित्येतद्वक्ष्यति, एवमयं सप्तविध आलोकः सदाऽपि च यतना तस्मिन सप्तविधेऽप्यालोके यतना सुविहितानाम्। इदानी भाष्यकारः प्रतिपदं व्याख्यानयति, तत्राऽऽद्यावयवव्याचिख्यासुराहनिक्खमपवेसमंडलिसागारियठाणपरिहियट्ठाइ। माहक्कासणभंगो, अहिगरणं अंतरायं वा / / 275 / / निष्क्रमप्रवेशौ वर्जयित्वा भोजनार्थमुपविशन्ति, तथा मण्डलीप्रवेशं च वर्जयन्ति, तथा सागारिकस्थानं च परिहत्य भुञ्जते माभूत्सागारिके प्राप्ते सति एकाशनभङ्गः स्यादिति, अधिकरणं राटियं भवति अन्येन प्रव्रजितेन सह अस्थाने उपविष्टस्य भुजतोऽन्तरायं च भवति, कथं? स साधुरन्यस्य सत्के स्थान भुड्क्ते उपविष्टः, सोऽपि साधुरागतः प्रतीक्षमाण आस्ते, एवं च अन्तरायं कर्म बध्यते। इदानीं दिशाद्वारप्रतिपादनायाऽऽहपच्चुरसि-परंमुहप-द्विपक्खि एया दिसा विवजित्ता। ईसाणग्गेईय व, ठाएज गुरुस्स गुणकलिओ // 276|| उरसोऽभिमुखं प्रत्युरसं गुरोरभिमुखं वर्जयित्वेत्यर्थः / पराङ्मुखश्च नोपविशति गुरोः, तथा पृष्ठतश्च गुरोनोपविशति, पक्षके च नोपविशति, एवमेता दिशो वर्जयित्वा ईशान्यां दिशि गुरोः आग्नेय्यां दिशि वा तिष्ठेत् उपविशेद् भोजनार्थं गुणकलितः साधुर्यः / इदानीं 'पगासणय त्ति'' व्याख्यायतेमक्खियकंटगठाईण जाणणट्ठा पगास जणया। अट्ठियलग्गणदोसा, दग्गुलिदोसा जहा एवं / / 277 / / कथं नु नाम मक्षिका ज्ञायते-दृश्यते तथा कण्टको वा कथं तु नाम दृश्येत, अस्थिया उपलभ्येत? एवमर्थं प्रकाशे' सोद्योतस्थाने भुज्यते, आदिग्रहणाद्वालाऽऽदिपरिग्रहः, तच्च दृश्यते, एवं च प्रकाशे भुज्जानेन योऽसौ गलकाऽऽदौ अस्थिलगनदोषः, तथा कण्टकलनदोषश्च गलका - ऽऽदौ स परिहतो भवति, तथा अन्धकारे मक्षिकाभक्षणजनितो योवल्गुलिव्याधिदोषः स परिहृतो भवति। इदानीं 'भायणं ति" द्वारमुच्यतेजे चेव अंधयारे, दोसा ते चेव संकडमुहम्मि। परिसाडी बहुलेवाडणं च तम्हा पगासमुहे // 278|| य एव अन्धकारे भुजानस्य 'दोषाः मक्षिकाऽऽदिजनिता भवन्तित एव दोषाः सङ्कटमुखे भाजने कमठाऽऽदौ भुजतः, अयमपरोऽधिको दोषः (परिसाडी) परिसाडी भवति पार्श्वे निपतति, तथा (बहुलेवाडणं च) "वडु विच खरडिज्जति हत्थस्स उवरि पि भुजंतस्स संकडे" तस्मात् 'प्रकाशमुखे' विपुलमुखे भाजने भुज्यत इति। पक्खेवणाविही भण्णइकुकुडिअंडगमित्तं, अविगियवयणो उ पक्खिवे कवलं / अइखद्धकारगं वा, जंच अणालोइयं होज्जा // 276 / / कुक्कुट्या अण्डकं कुक्कुट्यण्डकं तत्प्रमाणं कयलं प्रक्षिपेत् वदने, मुखे, किं विशिष्टः सन्? अविकृतवदनः नात्यन्तनिर्घाटितमुखः प्रक्षिपेत् कवलम्। दारम्- 'गुरु त्ति' व्याख्यायते-(अतिखद्ध ति) गुरोरालोके भोक्तव्यं यदि पुनर्गुरोर्दर्शनपथे न भुङ्क्ते ततः कदाचित्साधुः अति-खद्ध अतिप्रचुरं भक्षयेत् निःशङ्कः सन्, सच सव्याजशरीरः कदाचिद्गुरोरदर्शनपथे अकारम् अपथ्यमपि भुञ्जीत निशङ्कः सन् कदाचिद्वा भिक्षामटताऽनेन स्निग्धद्रव्यं लब्धं भवेत्, तच्चाऽनालोच्यैव भक्षये देकान्ते, मा भून्नामाऽऽचार्यो निवारयिष्यति। अतःएएसि जाणणट्ठा, गुरु आलोए तओ उ भुजेजा। नाणाइसंधणट्ठा, ण वण्णवलरूवविसयड्डा।।२८०।। एतेषां प्रचुरभक्षिताऽऽदीनां दोषाणां ज्ञानार्थं गुरोरालोके चक्षुर्दर्शनपथे भुजीत, येन गुरुः समीपस्थः भुञ्जानं दृष्ट्वा प्रचुर भक्षयन्तं निवारयति, तथा अकारकं भक्षयन्तं निवारयति, तथा अनालोचितं चोरितं खादन्तं निवारयति, मा भूदवारणे अपाटवजनिताः दोषाः स्युः। इदानीं 'भावे त्ति' व्याख्यायते-(णाणाऽऽदि) ज्ञानाऽऽदिर्भावः ज्ञानं दर्शनं चारित्रं च एतद्ज्ञानाऽऽदिभावत्रयमभुज्यमाने त्रुट्यति व्युच्छिद्यते, अत एतेषां ज्ञानाऽऽदीनां त्रुट्यतां संधानार्थम् अविच्छिन्नप्रवाहार्थ भुज्यते, न वर्णार्थ भुज्यते, न वर्णो मम गौरः स्यादित्येवमर्थ, तथा बलं मम भूयादित्येवमर्थमपि न भुज्यते, रूपं मम भूयात् बुभुक्षया क्षीणेक्षणगण्डपार्श्वः सन् मासोपचयेन पूरितगण्डपार्श्वः रूपवान् भविष्यामीति, नैवमर्थ भुङ्क्ते नापि विषयार्थ मैथुनाऽऽद्यासेवनार्थ भुक्ते। सो आलोइयभोई, जो एए जुंजए पए सव्वे। गविसणगहणग्घासेसणाइ तिविहाइ वि विसुद्धं / / 551 / / स साधुगुरो रालो चितं भुङ्क्ते , य एतानि पदान्यनन्तरोद्वितानि 'युनक्ति प्रयुङ्क्ते करोति स्थानाऽऽदीनि, सच गवेषण षणया ग्रहण षणया ग्रासै षणया, अनया त्रिविधया