SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ पच्छित्त 137 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त मानस्य यत्प्रायश्चित्तं, तस्य ये भेदाः प्रतिसेवनासंयोजनाऽऽदयस्ते वर्णिताः, ये पुनरतस्य प्रायश्चित्तस्यार्हा योग्याः पुरुषप्रकाराः, पुरुषभेदा इत्यर्थः। ते इमे वक्ष्यमाणस्वरूपा भवति। तानेव दर्शयतिकयकरणा इयरे वा, सावेक्खा खलु तहेव निरवेक्खा। निरवेक्खा जिणमादी सावेक्खा आयरियमादी।।१६०।। कृतकरणा नामषष्टाष्टमाऽऽदिभिर्विविधतपोविधानैः परिकमितशरीराः इतरे अकृतकरणाःषष्ठाष्टमाऽऽदिभिस्तपोविशेषेरपरिकम्मितशरीराः / तत्र ये कृतकरणास्ते द्विविधाः / तद्यथा सापेक्षाः खलु, तथैव निरपेक्षाः, सह अपेक्षा, गच्छस्येति गम्यते। येषां ते सापेक्षा गच्छ्वासिनः। निर्गता अपेक्षा येभ्यस्ते निरपेक्षाः, ते त्रिविधा जिनाऽऽदयः। तद्यथा-जिनकल्यिकाः, शुद्धपरिहा-रिकाः, यथालन्दकल्पिकाश्च / एते नियमाः कृतकरणाकृतकरणानामन्यतमस्यापि कल्पस्य प्रतिपत्त्ययोगात् सापेक्षा अपि त्रिविधा आचार्याऽऽदयः। तद्यथा-आचार्याः, उपाध्यायाः, भिक्षवश्च / पते प्रत्येकं द्विधात्वात्षट् भवन्ति / तद्यथा-आचार्याः कृतकरणाः, अकृतकरणाश्च / उपाध्याया अपिकृतकरणाः अकृतकरणाश्च / निक्षवोऽपि कृतकरणाः, अकृतकरणाश्च। तत्र कृतकरणानां चिन्त्यमानत्वादस्यां गाथायायमेते कृतकरणा ग्राह्याः / / 160|| अकयकरणा वि दुविहा, अणहिगया अहिगया य बोधव्वा। जं सेवेइ अहिगए, अणहिगए अत्थिरे इच्छा / / 161 / / इहाऽऽचार्या उपाध्यायाश्च कृतकरणा अकृतकरणा वा नियमाद् गीतार्थाः, स्थिराव, तत इहाकृतकरणा भिक्षव एव ग्राह्याः / ते अकृतकरणा भिक्षवो द्विविधाः / तद्यथा-अनधिगताः, अधिगताश्च / अनधिगता नाम अगीतार्थाः / अधिगता गीतार्थः / अपिशब्दः संभावने। सचैतत् सभावयति-ये भिक्षयोऽधिगतास्ते द्विविधाः / तद्यथा-स्थिराः, अस्थिराश्च / स्थिरा नाम धृतिसंहननसंपन्नाः, तद्विपरीता अस्थिराः। अधिगताः अपि द्विधास्थिराः, अस्थिराश्च। कृतकरणा अपि भिक्षवो द्विधा-अधिगताः। अनधिगताश्च / अनधिगता अपि द्विधा-स्थिराः, अस्थिराश्च / अधिगता अपि द्विधा-स्थिरा, अस्थिराश्च / अत्रैव संक्षेपतः प्रायश्चित्तदानविधिमाह- (ज सेवेइ इत्यादि) यत्प्रायश्चित्तस्थान सेवते अधिगतो गीतार्थः / उपलक्षणमेतत् कृतकरणः, स्थिरश्च / तस्मै, तदेव परिपूर्ण दीयते। तदेव प्रायश्चित्तस्थान प्राप्ते अनधिगते अस्थिरे, चशब्दादकृतकरणे च गुरोः प्रायश्चित्तदानविधौ इच्छा सूत्रोपदेशानुसारेण स्वेच्छा / तथाहि-यदि श्रुतोपदेशानुसारतः कृतकरणः स्थिरोऽधिगत इति वा ! कृतकरणादपि समर्थ इति विज्ञातो भवति, तदा यदेव प्रायश्चित्तमापन्नस्तदेव तस्मै दीयते / अथासमर्थ इति परीक्षितस्ततो यत्प्रायश्चित्तं प्रातस्तस्याक्तिनमनन्तरं दीयते, तत्राऽप्यसमर्थतायां, ततोऽप्यनन्तर, तत्राऽप्यसमर्थतायां ततोऽनन्तरम् / एवं यथा पूर्व क्रमेण तावन्नेयं यावन्निर्विकृतिकं, तत्राऽप्यसमर्थतायां पौरूषीप्रत्याख्यानं, तत्राप्यशक्तौ नमस्कारसहितं गाढग्लानत्वाऽऽदिना, तस्याप्यसंभवेय एवमेवाऽऽलोचनामात्रेण शुझ्यापादनमिति // 161 / संप्रति पुरुषभेदमार्गणायामेव प्रकारान्तरमाह अहवा साविक्खियरे, निरवेक्खा सव्वहा उकयकरणा। इयरे कयाऽकया वा, थिराऽथिरा होंति गीयत्था / / 16 / / अथ वेति प्रकारान्तरमिदं पूर्वं कृतकरणाऽकृतकरणभेदावादौ कृत्वा पुरुषभेदमार्गणा कृता / अत्र तु सापेक्षनिरपेक्षभेदी तथा चाऽऽह(साविक्खियरे ति ) द्विविधाः प्रायश्चित्तार्हाः पुरुषाः। तद्यथा-सापेक्षाः, इतरे च / सापेक्षा गच्छवासिनः / ते च त्रिधा-आचार्याः, उपाध्यायाः, भिक्षवश्च / निरपेक्षा जिनकल्पिकाऽऽदयः। तत्र ये निरपेक्षास्ते सर्वशः सर्वात्मना कृतकरणाः / तुशब्दस्य समुच्चयार्थत्वाद् अधिगताः, स्थिराश्च / इतरे सापेक्षा द्विविधाः / तद्यथा- "कयाकया वा” इति पदैकदेशे पदसमुदायोपचारात् कृतकरणाः, अकृतकरणाश्च / चशब्दः समुच्चये / कृतकरणा अपि द्विधास्थिराः, अस्थिराश्च / एकैके द्विधागीतार्थाः, अगीतार्थाश्च / सूत्रे गीतार्था इत्युपलक्षणम् / ततोऽगीतार्था अपि विवृताः // 162 / / अथ किंस्वरूपाः कृतकरणा?, इति कृतकरणस्वरूपमाहछट्ठऽट्ठमाइएहिं, कयकरणा ते उभयपरियाएह। अहिगयकयकरणत्तं, जोगा य तवारिहा केई॥१६३।। कृतकरणा नाम ये षष्ठ ष्टमाऽऽदिभिस्तपोविशेषैरूभयपर्याये, श्रामण्ये, गार्हस्थ्ये पर्याये वेत्यर्थः / परिकमितशरीरास्ते ज्ञातव्याः, तद्विलक्षणा इतरे सामर्थ्यांदकृतकरणाः / अत्रैव मतान्तर माह(अहिगए इत्यादि) केचिदाचार्या ये अधिगतास्ते नियमात् कृतकरणा इत्यधिगतानांकृतकरणत्वमिच्छन्ति / कस्मादिति चेदत आह- (जोगा य तवारिहा इति) "निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शनमिति'' वृद्धयैत्राकरणप्रवादात् हेतावत्र प्रथमा / ततोऽयमर्थः- यतस्तैर्महाकल्पश्रुताऽऽदीनामायतका योगा उद्व्यूढः, तत आयतकयोगाही अभवन्निति नियमतोऽधिगताः कृतकरणाइति। तदेवं कृता पुरुषभेदमार्गणा। साम्प्रतममीषां प्रायश्चित्तदानविधिर्वक्तव्यः- तत्र ये निरपेक्षा जिनकल्पाऽऽदयस्ते यत्प्रायश्चित्तमापन्नास्तदेव तेभ्यो न दीयते, द्विविषया गुरूलाघवनिरपेक्षत्वात। सापेक्षाणां तु सापेक्षतयैव प्रायश्चित्तदानविधौ तद्विषया गुरूलाघवचिन्ता कर्तव्य।।१६३।। तत्र यानि प्रायश्चित्तानि दातव्यानि तानि संक्षेपतो गाथाद्वयेनाऽऽहनिव्विइए पुरिमड्डे, एक्कासणे अंबिले चउत्थे य। पणगं दस पन्नरसा, वीसा तह पण्णवीसा य॥१६४।। मासो लहुओ गुरूगो, चउरो मासा हवंति लहुगुरूगा। छम्मासा लहुगुरूगा, छेदो मूलं तह दुगं च / / 16 / / निर्विकृतिकं विकृतिप्रत्याख्यानं, (पुरिमड्ढे ति) दिवसपूर्वार्द्धप्रत्याख्यानम्। एकाशनाऽऽचाम्लचतुर्थानि प्रतीतानि। (पणगं ति) रात्रिन्दिनानां पञ्चकम् / (लहुगुरूयं ति) वक्षयमाणं पदमत्रापि व्याख्यानठो विशेषप्रतिपत्तिरिति विभक्तिपरिणामेन संबद्ध्यते / (पणगं ति) लघु रात्रिन्दिवपञ्चकं च / तव लघु रात्रिन्दिवपञ्चकमाचाम्लेन, एकद्व्यादिदिनैर्वा हीनं परिपूर्णम्। गुरूरात्रिन्दिवपञ्चकम्। एवं सति लघु रात्रिन्दिवदशकम् / गुरूरात्रिन्दिवदशकम् / (पन्नरस त्ति) लघु रात्रिन्दिवपञ्चविशतिकम्। (मासो लहु गुरू त्ति) लघुमासो, गुरूमासः / चत्वारो लघु
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy