________________ भूय 1568 - अभिधानराजेन्द्रः - भाग 5 भूय दपदश्रुतिनिबन्धनः, तानि चाऽमूनि वेदपदानि-"स्वप्नोपमं वै सकलमित्येष ब्रह्मविधिरजसा विज्ञेय' इत्यादि / तथा "द्यावापृथिवी'' इत्यादि। तथा 'पृथिवी देवता आपो देवता'' इत्यादि तेषां च वेदपदानामयमर्थः तव प्रतिभासतेस्वप्नोपमं स्वप्नसदृश, वै निपातोऽवधारणे, सकलमशेष जगदित्येष ब्रह्मविधिः परमार्थप्रकारः, अञ्जसा प्रगुणेन न्यायेन विज्ञेयो ज्ञातव्यः, एवमादीनि वेदपदानि भूतनिह्नवपराणि / "द्यावापृथिवी'' इत्यादीनितु सत्ताप्रतिपादकानि। ततः संशयः / तथा एवं ते चित्तविभ्रमो यथा भूताभाव एव समीचीनः, तेषां प्रमाणेनाग्रहणात् / तथाहि- चक्षुरादिविज्ञानस्याऽऽलम्बने परमाणवो वा स्युः, परमाणुसमूहो वा, अवयवी वा / तत्र न तावत्परमाणवः, तेषामिन्द्रियविज्ञाने प्रतिभासाभावात् न खलु चाक्षुषे विज्ञाने परस्परविशकलिताः परमाणवः प्रतिभासन्ते; नापि समूहः, समूहो हि नाम द्विवाऽऽदिपरमाणूना संयोगः, स चानुपपन्न एव, विकल्पद्वयानतिक्रमात्। तथाहि-परमाणूना संयोगो देशतो वा स्यात्, सर्वाऽऽत्मना वा। तत्र न तावद्देशेन, परमाणोईशाभावादन्य था परमाणुत्वक्षतेः, परमोऽणुः परमाणुरिति व्युत्पत्तेः / अथ सर्वाऽऽत्मनेति पक्षः, तर्हि परमाणौ प्रवेशादणुमात्रप्रसक्तिः / तथा च पठन्ति- "संजोगो वि य तेसिं, देसेणं सव्वहा व होजाहि / देसेण कहमणुत्तं, अणुमित्तं सव्वहा भवणे।।" अथ ब्रूषे-परस्परं प्रत्यासन्नत्वमात्रमेवात्र संयोगः समूहो, नदेशेन,नसाऽऽत्मना वा, ततोन कश्चिद्दोषः। तथा च सम्यक् प्रत्येकमिव समुदितानामपितेषामग्रहणप्रसङ्गात्स्वस्वरूपावस्थितानां तेषामिन्द्रियगम्यत्वाभावात्, न च परस्परप्रत्यासन्नत्वमप्युपपन्नम्, तत्यवश्यं दिग्भेदतो भवति, दिग्भेदे च देशभेदसंभवादणुत्वव्याधातः / आह च- "हाणी अणुयत्तस्स उ, दिसिभेदातो न अन्नहा चेव। तेसिमहो पच्चासन्नय त्ति परिफग्गुमेयं ति।।१।।" अथ वाऽवयवीति पक्षः, सोऽप्ययुक्तः, अवयविनएवासंभवात्, तस्यावयवेषु व्यत्यययोगात्। तथाहि सोऽवयवी देशेन वा प्रत्येकमवयवेषु वर्तते, सर्वात्मना वा? न तत्र तावद्देशेन, अवयविनो देशाभावात्, अन्यथा तेष्वपि देशेषु देशेन वर्तते, तत्रापि स एव प्रसङ्गः इत्यनवस्था। अथ सर्वात्मना, तर्हि यावन्तोऽवयवास्तावन्तोऽवयविन इत्यवयविबहुत्वप्रसङ्गः। अथ न बमो देशेन वर्तते, सर्वात्मना वा, किन्तु वर्तते इत्येवम्,तत उक्तदोषाप्रसङ्गः / तदप्यश्लीलम्, उक्तरूपप्रकारद्वयव्यतिरेकेणान्यस्य वृत्तिप्रकारस्या सम्भवात्। अथ समवायलक्षणेन सम्बन्धेन वर्त्तते इति मन्येथाः, तदप्ययुक्तम्, समवायस्य वासिद्धत्वात्, न खलु वस्तुद्वयापान्तरालवर्ती तत्सम्बन्धनिबन्धनभूतो जन्तुकल्पः कश्चित् समवायो नाम पदार्थः प्रत्यक्षाऽऽदिप्रमाणविषयोऽस्ति, ततः कथं तमस्तित्वेन मन्यामहे? अन्यचसोऽपि समवायिषु कथं वर्तते इति वाच्यं, तदन्यसमवायबलादिति चेत; तत्तु तत्रापि स एव प्रसङ्ग इत्यनवस्थाप्रसक्तिः / अथ स्वपरोभयसम्बन्धनस्वभावः समवायो, यथा स्वपरप्रकाशधर्माप्रदीपः, तेनाऽऽत्मानं स्वसमवायिभिः सह सम्बन्धयति, स्वसमवायिनश्च परस्परमिति। तदप्यमनोरमम, विकल्पयुगलानतिक्रमात्। तौ हि स्वभावौ समवायादिन्नौ वा स्यातामभिन्नौ वा? यद्याद्यः पक्षः, ततो न समवायस्य तौ, सम्बन्धाभावात् वस्त्वन्तरधर्मवत्। अथाभिन्नौ, ततः समवाय एव तौ / तदव्यतिरिक्तत्वात, तत्स्वरूपवत्, ततः कुतः स्वभावद्वयकल्पनेति भूतविषयप्रमाणाभावः। एवं विभ्रमे स्फुटीकृते भगवानुत्तरमाह-वेदपदानामर्थ न जानासि, चशब्दात् युक्तिभावार्थ च। तत्र तव संशयनिबन्धनानां वेदपदानामयमर्थः- "स्वप्नोपमं वै सकलम्" इत्यादीनि अध्यात्मचिन्तायां मणिकनकाङ्गनाऽऽदिसंयोगस्यानियतत्वात्, अस्थिरत्वात्, विपाककटुकत्वात् आस्थानिवृत्तिपराणि, न तु तदत्यन्ताभावप्रतिपादकानि / द्यावापृथिवीन्यादीनि तु भूतसत्ताप्रतिपादकानि भवतोऽपि प्रतीतानि, ततो वेदसिद्धा भूतानां सत्ता / यदयुक्तम्- भूताभाव एव समीचीनः, तेषां प्रमाणेनाग्रहणादित्यादि। तदप्यसम्यक्। भूतानां प्रत्यक्षाऽऽदिप्रमाणसिद्धत्वात्। तथाहि-द्विविधं परमाणूना रूपंसाधारणमसाधारण च। तत्र यदसाधारणं रूपं, तेन (न) चाक्षुषे विज्ञाने प्रतिभासन्ते, साधारणेन तु रूपेण प्रतिभासन्ते एव। न च वाच्यं साधरणं रूपं नास्त्येव, तदभावे खल्वेकपरमाणुव्यतिरेकेणान्येषामपरमाणुत्वप्रसङ्गात्। परमाणुत्वेनापि तुल्यरूपत्वाभावात् / अन्यथाऽस्मदभ्युपगमप्रसक्तेः / अथ यदेतत्परमाणुत्वेन तुल्यरूपत्वम् / तत्तदन्यव्यावृत्तिमात्रपरिकल्पितसताक, यथाऽयमपिपरमाणुर-परमाणोावृत्तोऽयमथ परमाणोव्यावृत्त इति / न तु पारमार्थिकम् / तदेतदयुक्तम् / स्वतस्तुल्यरूपत्वाभावे तदन्यथावृत्तेरपि साधारणाया असंभवात्। न खलु यथाऽघटात्व्यावृत्तिस्तथा पटस्यापि घटेन सह, पटस्य तुल्यरूपत्वाभावात् / अथ सर्व स्वलक्षण सकलसजातीयविजातीयव्यावृत्तिस्वभाव, ततः समानरूपत्वाभावेऽपि विजातीयव्यावृत्तेः समानता। तदपि न युक्तिक्षमम्। विजातीयेभ्यो व्यावृत्तौ परमाणुत्वस्येव सजातीयभ्योव्यावृत्तापरमाणुत्वप्रसङ्गात्, न्यायस्यसमानत्वात्; भवन्मतेन सजातीयव्यावृत्तताऽपि वस्तुन उपपद्यते, अनेक स्वभावेन सर्वेभ्यो व्यावृत्तिः, तेषां सर्वेषामपि व्यावृत्तिविषयाणामेकरूपताग्रसक्तेः। तथाहि- घटाव्यावर्तते पटो, घटव्यावृत्तिस्वभावतयैव व्यावर्त्तते, तर्हि बलात् स्तम्भस्य घटरूपतानुषक्तिः, अन्यथा ततस्तत्स्वभावतया व्यावृत्त्यायोगात्, तस्मादवश्य परमाणूनां द्वे रूपे प्रतिपत्तव्ये-तुल्यमतुल्यं च / तत्र तुल्यरूपेण चाक्षुषे विज्ञाने समुदिताः परमाणवः प्रतिभासन्त इति भूतानां प्रत्यक्षविषयता यदपि / समूह-पक्षेऽभिहितम्-परमाणूना संयोगो देशतो वा स्यात्, सर्वात्मनावा इत्यादि। तत्र पक्षद्वयेऽप्यदोषः। परमाणूनां विचित्रपरिणमनशक्तिसमन्विततया कदाचिद्देशतः, कदाचित्सर्वात्मना सम्बन्धभावात्। न च वाच्यम्- देशाभ्युपगमे परमाणोरपरमाणुप्रसङ्गः / परमाणुर्हि स उच्यते, यतो नान्यदल्पतरं, परमोऽणुः परमाणुरिति व्युत्पत्तेः / न च विवक्षितात् परमाणोरन्य-दल्पतरमस्ति, नापरमाणुत्वाव्याघातः। तथा च सति देशकालाऽऽदिसामग्रीविशेषसंपादितपरिणामविशेषपरिकल्पितानां परमाणूनां परस्परं यत् प्रत्यासन्नत्वमेव परमाणुसमूह एषएव च देशतः परमाणूना सम्बन्धः। तथा चोक्तम्जं चेव खलु अणूण, पच्चासन्नत्तणं मिहो एत्थ। तं चेव उ संबंधो, विसिट्टपरिणामभावेण / / देसेण तु संबंधो, इह देसे सति कहमणुतं पि।