________________ भिक्खुपडिमा 1580- अभिधानराजेन्द्रः - भाग 5 मिक्खुपडिमा तदेवं गच्छविनिष्क्रमाऽऽदि नोपकारकमित्यादि यदुक्तं दूषणं तत्सर्व परिहतमवगन्तव्यम्। यच्चोक्तम्-आअन्त्यादिनोऽपि धर्मकायपीडान सुश्लिष्टति तत्परिहरन्नाहएत्तो अईव णेया, सुसिलिट्ठा धम्मकायपीडा वि। अंताइणो सकामा, तह तस्स अदीणचित्तस्स // 36 / / (एत्तो त्ति) यतोऽयमवस्थान्तरहेतोः क्लिष्टकर्मणः क्षपणहेतुः प्रतिमाकल्पोऽतो हेतोः, अतीवातिशयेन, ज्ञेया अवसेया, सुश्लिष्टाऽत्यन्तसङ्गता। काऽसावित्याह-धर्मकायपीडाऽपि धर्मसाधनशरीरवेदनाऽपि, अपीडा तावत्सङ्गतैवेत्यभिधानार्थोऽपिशब्दः। किभूतस्य सतोया स्यादित्याहअन्ते भवमान्तं भुक्तावशेषम्, उपलक्षणत्वाच्चास्य प्रान्ताऽऽदिग्रहः / तत्र प्रान्तं तदेव पर्युषिताऽदि। तदाऽन्तमत्तीत्येवंशील आन्ताऽऽदि तस्य, कुतः सा सुश्लिष्टत्याह-सकामा समनोरथा, यतः स्वकामाद्वा स्वाभिलाषात्, तथेति हेत्वन्तरसमुच्चये, तस्य प्रतिमाप्रतिपन्नस्य, अदीनचित्तस्यादैन्यवन्मानसस्य, अदीनमानसत्वादित्यर्थः। इतिगाथार्थः / / 36 // | अथ कथमदीनचित्ततेत्याहन हु पडइ तस्स भावो, संजमठाणाउ अवि य वड्डेइ। ण य कायपायओ वि हु, तयभावे कोइ दोसो त्ति // 40 // 'न हु' नैव, पतति भ्रस्यति, तस्य प्रतिमाप्रतिपन्नस्य साधोः, भावोऽध्यवसायः, संयमस्थानादाश्रितचरणशुद्धिविशेषात् पीडासद्भावे, अपि चेत्यभ्युच्चये, वर्धते वृद्धि याति। ननु यद्यपि भावपातो न पीडासद्भावे भवति तस्य, तथापि कायपातो भविष्यतीत्यत आह-नचनैव, कायपाततोऽपि शरीरपातादीप, हुर्वाक्यालङ्कारे। तदभावे भावपाताभावे, कोऽपि कश्चिदपि, दोषो दूषणम्, इतिशब्दः समाप्तौ। इति गाथार्थः / अथोपायान्तरेणापि कर्मक्षपणसंभवे किं कायपीडावप्रतिमाकल्पेनेत्यत आहचित्ताणं कम्माणं, चित्तो चिय होइ खवणुवाओ वि। अणुबंधछेयणाई, सो उण एवं ति णायव्वो // 41 // चित्राणामक्लिष्टक्लिष्टतरक्लिष्टतमतया विचित्ररूपाणां, कर्मणां ज्ञानावरणाऽऽदीनाम् / चित्र एव स्थविरकल्पप्रतिमाकल्पाऽऽदिरूपतया विचित्र एव, भवति स्यात्, क्षपणोपायोऽपि निर्जरणहेतुरपि, कर्माणितावच्चित्राण्येवेत्यपिशब्दार्थः। कथमित्याह-अनुबन्धच्छेदनाऽऽदेर्निरनुबन्धताऽऽपादनाऽऽदेः, आदिशब्दात् क्रियतोऽपि सर्वथा क्षण्णग्रहः / लुप्तपञ्चम्येकवचनं चैतत्। अथवाऽनुबन्धं छिनत्तीत्यनुबन्धछेदनस्तदादिः। स पुनर्विचित्रकर्मक्षपणोपाय एव कायपीडाऽऽदिसहनरूपप्रतिमाकल्पाऽऽदिविधानेन भवति / इतिः समाप्तौ भिन्नक्रमश्च / ज्ञातव्योऽवसेय इति। अतः कायपीडा सुश्लिष्टा। इति गाथाऽर्थः / / 41 / / अथ कथमिदमवसितमिति चेदत आहइहरा उणाभिहाणं, जुज्जइ सुत्तम्मि हंदि एयस्स। एयम्मि अवसरम्मी, एसा खलु तंतजुत्तित्ति।।२।। इतरथा त्वन्यथा पुनरधिकृतकल्पं विनैव विचित्रकर्मक्षपणे सतीत्यर्थः / (न) नैव, अभिधानं भणनम्, युज्यते संगच्छते, सूत्रे प्रवचने, हंदीत्युपप्रदर्शने। एतस्य प्रतिमाकल्पस्य, एतस्मिन्ननन्तरोक्तेऽवसरे स्थविरकल्पानुष्ठान निष्ठाप्राप्तिरूपप्रस्तावे, अतोऽत्रावसरे आप्तोपदिष्टत्वादस्य कर्मक्षपणहेतुत्वमवसितमिति / एषाऽनन्तरोक्ता, खलुरलङ्कारे, तन्त्रयुक्तिः शास्त्रीयोपपत्तिः प्रतिमाकल्पानवद्यतानिर्णय इति। अत आन्तरभावविहीनप्रतिमाकल्प इत्यपि परिहतम्। इति गाथाऽर्थः / / 4 / / मतान्तरेणप्रतिमाकल्पस्याऽऽन्तरभावविहीनतां परिहरन्नाहअण्णे भणंति एसो, विहियाणुट्ठाणमागमे भणिओ। पडिमाकप्पो सिट्ठो, दुक्करकरणेण विण्णेओ / / 13 / / अन्येऽपरे सूरयः, भणन्ति अभिदधति प्रतिमाकल्पदूषणपरिहारम्। यदुत एषोऽनन्तरोक्तो विहितानुष्ठानमुचित क्रिया, आगमे सिद्धान्ते, भणित उक्तः, प्रतिमाकल्पः प्रतीतः। श्रेष्ठोऽतिशयेन प्रशस्यः। कथं? दुष्करकरणेन स्थविरकल्पापेक्षया दुष्कराऽऽसेवनेन हेतुना। विज्ञेयो ज्ञातव्यः / इति गाथाऽर्थः // 43 // अनेनोत्तरेणारञ्जितः सूरिराहविहियाणुट्ठाणं पि य,सदागमा एस जुञ्जई एवं / जम्हा ण जुत्तिवाहिय-विसओ वि सदागमो होई॥४४।। विहितानुष्ठानमपि चोचितकृत्यरूपोऽपि च। अपि चेत्यभ्यु-पगमार्थः, कुत इत्याह- सदागमादाप्तोपदेशात्, एषप्रतिमाकल्पो, युज्यते घटते। एवमस्मदुक्तन्यायेन 'पत्थुयरोगचिगिच्छावत्थतरतव्विसेससमतुल्लो' इत्यादिना।कस्मादेवमित्याह-यस्माद्यतो, न चैव, युक्तिबाधितविषयोऽपि उपपत्तिनिराकृतगोचरोऽपि सन्। युक्त्यबाधितार्थ एव सदागमो भवतीति प्रदर्शनार्थोऽपिशब्दः / सदागमः शोभनसिद्धान्तः, भवति स्यात् / युक्तिबाधितार्थस्य दुरागमत्वात् / युक्त्युपपन्नता त्वस्माभिरागमोक्तस्य कल्पानुष्ठानस्याऽऽवेदिता नागमोक्तत्वमात्रमेवेति सुन्दरतरः प्राक्तनः परिहारः / इति गाथार्थः // 44 // नाऽऽगममात्रमेवार्थप्रतिपत्तिहेतुर्भवतीति दर्शयन्नाहजुत्तीए अविरुद्धो, सदागमो सा वितयविरुद्ध त्ति। इय अण्णोण्णाणुगंयं, उभयं पडिवत्तिहेउ ति / / 45|| युक्त्योपपत्त्या, अविरुद्धोऽबाधितः, सदागमः सत्सिद्धान्तो भवति, साऽपि युक्तिरपि, तदविरुद्धासिद्धान्ताविरुद्धा, स्यात्तदन्या त्वयुक्तिरेव। इतिर्वाक्यार्थसमाप्तौ। इत्येवम्, अन्योऽन्यानुगतं परस्परानुयायि, उभयं युक्तिसदागमरूपं द्वयम्,प्रतिपत्तिहेतुरर्थप्रतिपत्तिकारणम्, इतिशब्दः समाप्तौ / इति गाथार्थः / / 45 // अथ प्रतिमाकल्पशेषप्रतिपादनायाऽऽहकथमेत्थ पसंगेणं, झाणं पुण णिचमेव एयस्स। सुत्तत्थाणुसरणामो, रागाइविणासणं परमं // 46|| कृतं पर्याप्तम्, अत्र प्रतिमाकल्पदूषणपरिहारे, प्रसङ्गे