________________ भिक्खुपडिमा 1578- अभिधानराजेन्द्रः - भाग 5 भिक्खुपडिमा एतदेव स्पष्टयन्नाहपत्थुयरोगचिगिच्छा-वत्थंतरतव्विसेससमतुल्लो। तह गुरुलाघवचिंता-सहिओ तकालवेक्खाए।।२६।। प्रस्तुताऽधिकृता या रोगचिकित्सा व्याधिप्रतिक्रिया, तस्यां यदवस्थान्तरं रोगिणो रोगान्तरकृतः कष्टतरपर्यायविशेषः, तत्र यस्तद्विशेषश्विकित्सान्तरं, तेन समतुल्योऽत्यन्तसदृशो यः प्रस्तुतरोगचिकित्सावस्थान्तरतद्विशेषसमतुल्यः, अथवा-तुल्यशब्दपर्यायो वा समतुल्यशब्दोऽस्ति, यथा "समतुल्यं पराक्रमैः / " इति / अथवा- प्रस्तुतरोगचिकित्साया यदव-स्थान्तरमधिकृतरोगस्येषच्छमरूपं, तत्र यस्तद्विशेषो रोगान्तरं यस्यः सः, तस्य यः शमः शमनोपायश्चिकित्सेत्यर्थः / तत्तुल्यो यः स तथा। प्रतिमाकल्प इति प्रकृतम्।तथा तेन प्रकारेण उक्तदृष्टान्तसाधर्म्यरूपेण, गुरुलाघवचिन्ता सारेतराऽऽलोचनं, तया सहितोयुक्तो यः स तथा। कथमित्याह- तत्कालाऽपेक्षया प्रतिपत्त्यवसरमालम्ब्य, विहितसमस्तस्थविरकल्पकार्यस्य हि समाश्रयणीयतर एव प्रतिमाकल्पोऽतस्तदा गुरुकोऽसौ, इतरस्तुलघुः। अन्यदा तु स्थविरकल्प एव गुरुतर इति सुळूक्तं तत्कालापेक्षया गुरुलाघवचिन्तासहित इति गाथाऽर्थः / / 26 / / उक्तमेवार्थ स्पष्टयन्नाहणिवकरलूयाकिरिया-जयणाए हंदि जुत्तरूवाए। अहिदट्ठाइसु छेया-इ वजयंतीह तह सेसं // 27|| नृपकरे राजहस्ते लूतावातिको रोगविशेषो नृपकरलूता, तस्या / उपशमाय क्रिया चिकित्सा मन्त्रापमार्जनाऽऽदिका, तस्यां या यतना / प्रयत्नः सा तथा तस्यां नृपकरलूताक्रियायतनायाम्। हन्दीत्युपप्रदर्शने / किंविधायामित्याह- युक्तरूपायां सङ्गताया, प्रस्तुतायामिति शेषः / अहिदष्टाऽऽदिषु सर्पदशनप्रभृतिषु अधिकृत-क्रियाया असाध्येषु सद्योघातिषु सत्सु, आदिशब्दाद्विशूचिकाऽऽदिग्रहः; नृपस्येति गम्यम्। छेदाऽऽदि अहिदंशप्रदेशे कर्त्तनदहनप्रभृति तज्ज्यन्यानर्थनिवर्तनक्षम विचिकित्साविशेषम्, कुर्वन्तीति शेषः। वर्जयन्ति परिहरन्ति वैद्याः। इह सर्पदष्टाऽऽदौ। तथेति समुच्चये, शेषां मन्त्रप्रमार्जनाऽऽदिकां लूताक्रियामधिकृतामपीति गाथाऽर्थः // 27 // ___ कुतस्तामधिकृतां वर्जयन्तीत्याहएवं चिय कल्लाणं, जायइ एयस्स इहरहा ण भवे। सव्वत्थावत्थोचिय-मिह कुसलं होइऽणुट्ठाणं // 28 // एवमेवाधिकृतक्रियावर्जनेनैव छेदाऽऽदिक्रियाविशेषकरणेनैव च / कल्याण श्रेय आरोग्यमित्यर्थः, जायते स्यात्, एतस्य नृपस्य, छेदाऽऽद्यकरणे मन्त्रापमार्जनामात्रात्, न भवेन्न स्यात् कल्याणम्, अहिदष्टतया मरणप्राप्तेः / अथाऽधिकृतक्रियात एव कस्मात्कल्याणं न स्यादित्यत आह–सर्वत्र देशे काले पुरुषे वा, अवस्थोचितं भूमिकाऽनुरूप, इह लोके, कुशलं कल्याणहेतुः, भवति स्यात्, अनुष्ठानं कर्तव्यम्, अतः सर्पदष्टाऽऽदौ छेदाऽऽदिविधानमेव कल्याणहेतुः। इति गाथाऽर्थः / / 28|| अथ "अहिगयरोगचिगिच्छ'' इत्यादिप्रथमव्याख्याऽनुसारेण दाग-1 न्तिकयोजनायाऽऽह इय कम्मवाहिकिरियं, पव्वजं भावओ पव्वण्णस्स। सइ कुणमाणस्स तहा, एयमवत्यंतरंणेयं / / 26 / / इत्येवं लूताऽऽदिक्रियावत्, कर्मट्याधिक्रियां कर्मरोगचिकित्सां, कामित्याह-प्रव्रज्या दीक्षा लूताऽऽदिक्रियाकल्पाम्, भावतो भावेन, प्रपन्नस्याभ्युपगतवतः, सकृत् सदा, कुर्वाणस्य तामेव विदधतः, तथेति समुच्चये, तेन चा प्रकारेण स्थविरकल्पोचितत्वलक्षणेन, एतदिदम्, अवस्थान्तरं पर्यायान्तर मन्त्रापमार्जनाऽऽदिकल्पस्थविरकल्पासाध्यमहिदष्टाऽऽदिकल्प तीव्रतरकर्मविपाकरूपं छेददाहाऽऽदिचिकित्साविशेषतुल्यप्रतिमाकल्पस्यैव साध्यम, ज्ञेयं ज्ञातव्यम्। इतिगाथाऽर्थः॥२६।। पुनरपि गुरुलाधवचिन्तासहितत्वमस्य दर्शयन्नाहतह सुत्तवुड्विभावे, गच्छे सुत्थम्मि दिक्खभावे य। पडिवजइ एयं खलु, ण अण्णहा कप्पमवि एवं // 30 / / तथेति युक्त्यन्तरसमुच्चये, सूत्रवृद्धिभावे सूत्रार्थवृद्धौ सत्याम, क? गच्छे साधुगणे बहुश्रुतसाध्वधिष्ठितत्वात् / अथवा- अकारप्रश्लेषात् सूत्रावृद्धिभावे किश्चिदूनदशपूर्वाधिकतरश्रुतग्रहणशक्त्यभावे इत्यर्थः / तथा गच्छे साधुगणे, सुस्थेऽनाबाधे सति बालवृद्धग्लानाऽऽद्यभावात्तत्प्रतिचारकभावाद्गच्छपालनोद्यताऽऽचार्याऽदिसद्भावाच्च, तथा दीक्ष्यस्य प्रव्राज्यस्याभावो दीक्ष्याभावस्तत्र / चशब्दः समुच्चये / प्रतिपद्यतेऽभ्युपगच्छति, एतं प्रतिमाकल्पम्, खलुरवधारणे, ततश्च न नैव, अन्यथोक्तवस्तुत्रयाभावे, कल्पमप्युचितमपि / कथमित्याह- एवं प्रागुवतसंहननवृत्त्या-दियोगेन। अथवा-कल्पमपि जिनकल्पमपि, एवं पूर्वोक्तवस्तुत्रयसद्भावे प्रतिपद्यते, नान्यथेत्यर्थः / अतः कथमयं गुरुलाघवचिन्तारहितः / इति गाथाऽर्थः।।३०।। विपर्यये दोषमाहइहरा ण सुत्तगुरुया, तयभावे ण दसपुट्विपडिसेहो। एत्थं सुजुत्तिजुतो, गुरुलाधवचिंतवज्झम्मि॥३१।। इतरथा गच्छरय सूत्रवृद्ध्यभावे स्वस्य वा श्रुतवृद्धिसम्भवे सति प्रतिमाप्रतिपत्तावित्यर्थः / (न) नैव, सूत्रगुरुता श्रुतगौरवं कृतं स्यात्। अथवागौरव्यमेव तदित्यत्राऽऽह- तदभावे श्रुतगौरव्यत्वावाभावे, (न) नैव, दशपूर्विप्रतिषेधो दशाऽऽदिपूर्वधरस्य प्रतिषेधो निषेधः / अत्र प्रतिमाकल्पे प्रतिपत्तव्ये, सुयुक्तियुक्तः सन्न्यायसङ्गतः। तस्य हि श्रुतनि!हणाऽऽदिसमर्थतया प्रवचनोपकारित्वात्प्रतिमाकल्पप्रतिपत्तिनिषेधोऽस्तीति। किंविधे तत्रेत्याह- गुरुलाघवचिन्ताबाह्ये परमतेन सारततरविभागाऽऽलोचनविरहिते, ततोऽसौ न गुरुलाघवचिन्तारहितः / इति गाथाऽर्थः // 31 // अप्पपरिचाएणं, बहुतरगुणसाहणं जहिं होइ। सा गुरुलाघवचिंता, जम्हाणाओववण्ण त्ति||३२|| अल्पपरित्यागेन स्वल्पतरगुणपरिहारेण, बहुतरगुणसाधनमनल्पतरगुणनिष्पादनम्, यत्र चिन्तायाम, भवति स्यात्, सा चिन्ता, गुरुलाघवचिन्ता सारेतरपर्यालोचना, यस्माद्धेतोः, न्यायोपपन्ना नीतिसङ्गता, तस्मात्तत्सहितोऽयं कल्प इति प्रकृतम् / इतिशब्दः समाप्ती, इति गाथाऽर्थः // 32 //