________________ भिक्खुपडिमा 1576 - अभिधानराजेन्द्रः - भाग 5 भिक्खुपडिमा लु एसा एगराइया भिक्खुपडिमा अहासुत्तं अहाकप्पं अहामग्गं अहातच्चं अहासमं कारणं फासिता सोहिता तीरिता किट्टिता आराहिता आणाए अणुपालिता यावि भवति, एताओ खलु तातो थेरेहिं भगवंतेहिं बारस भिक्खुपडिमाओ पण्णत्ताओ। (दोमासियमित्यादि) शेषं प्राग्वत, नवरं द्वेदत्ती भोजनय, द्वे पानकस्य, एवमेकैकदत्तिवृद्ध्या यावत्सप्तमासिकी सप्तभोजनपानरूपा प्रत्येकम (पढमा सत्तराइदिय त्ति) प्रथमा सप्तरात्रिन्दिवानि अहोरात्राणि यस्यां सा सप्तरात्रिन्दिवा, शेषं पूर्ववत्। (से चउत्थेणं भत्तेणमित्यादि) चतुर्थभक्तेन अपानकेन पानीयपरिवर्जनेन बहिः ग्रामस्येत्यादि, यावक्तरणानगराऽऽदिपदकदम्बकपरिग्रहः। (उत्ताणयस्स त्ति) उत्तानिकस्योत्तानशायिनः (पासेल्लयस्य) पार्श्वशायिनः,(णेसज्जियस्स त्ति) विष्ठाविकलस्य स्थान स्थातुं (तत्थेत्यादि) प्राग्वत् (तेणं ति) ते णमिति-वाक्यालङ्कारे (पयालेज त्ति) प्रचलेयुः, स्थानात् प्रपतेयुरधः पातनेन एवं पूर्ववत्, यावदाराधिता भवति एवं द्वितीया सप्तरात्रिन्दिवा, नवरं षष्ठेन तपसा पानकेन दण्डायति कस्य लगण्डशायिन उक्तुटुकस्य संस्थातुं, शेष तथैव / एवं तृतीयाऽपि नवरमष्टमेन तपसा पानकेन गोदोहिकाऽऽसनिकस्य वीराऽऽसनिकस्य आम्रकुब्जस्य स्थानं स्थातुम, एवमहोरात्रिन्दिवाऽपि भवति, नवरं षष्ठेन भक्तेन, अपानकेन (ईसिमिति) ईषत् द्वावपि पादौ (साहटुटु त्ति) संहृत्य संहृतौ कृत्वा, जिनमुद्रयेत्यर्थः (वग्धारितपाणिस्स त्ति) प्रलम्बितभुजस्य स्थान कायोत्सर्गलक्षणं स्थातुम (एगरा इयं ति) एकरात्रिकी भिक्षुप्रतिमामित्यादि, शेष कण्ठ्यम् (ईसिं पड़भारगएणं कारण ति) ईषत्प्राग्भारः अग्रतो मुखमवनतत्वम(एगपोग्गलेत्यादि) एक एव पुद्गल एकपुद्गलस्तत्र स्थिता दृष्टिर्यस्यासावेकपुद्गलस्थितदृष्टिः, तस्यैक पुद्गलस्थितदृष्टः (अहापणिहितेहिं गातेहिं ति) यथाप्रणिहितैर्यथास्थितैगत्रिः सर्वेन्द्रियैर्गुप्तः, शेष कण्ठ्यम्। (अणुपालेमाणस्स त्ति) अनुपालयतः अनगारस्याऽगाररहितस्य इमानि त्रीणि स्थानानिपुंस्त्वं प्राकृतत्वात्। (अहियाए त्ति) अहिताय, भावप्रधानोऽयं निर्देशः, अहितत्वाय परिणामासुन्दरताय, असुखायाशर्मणे, अक्षमाय भावप्रधानो निर्देशः असङ्गतत्वाय अनिः- श्रेयसाय अनिश्चितकल्याणाय, अनानुगामिकतायै परम्पराऽशुभानुबन्धासुखाय भवन्ति / तद्यथा- उन्माद वाऽऽप्नुयात्, आहारविषयाऽऽद्यभिल्लाषातिरेकतस्तथाविधचित्तविप्लवसंभवात्, वाशब्दाः अपरापरभेदसूचकाः। (दीहकालियं ति) दीर्घकालिकं स्यात् सामर्थ्यात् अन्यथा ब्रह्मणा मनसैव प्रजनने निषेकाऽऽदिकमपि कल्पेत स्मृतिरपि केवलेन हि गौर्यो गावः खगा मृगाः, अन्ये वा दीर्घकाल प्रभूतकालभावि रोगश्च दाहज्वराऽऽदिः आतङ्कश्चाशुधातिशूलाऽऽदिरोगान्तङ्कः भवेत्स्यात्, संभवति हि अतिबाधया अशनाऽऽदिरूपया आहारविषयाऽऽद्यभिलाषाऽतिरेकतो रोचकत्वं ततश्च ज्वराssदीति केवलिप्रज्ञप्ताद्वा धर्मात् श्रुतचारित्ररूपात्समास्तात् भ्रस्येदधः प्रतिपतेत्, कस्यचिदिति निकृष्टकर्मोदयात्सर्वथा धर्मपरित्यागसंभवादिति। एवं त्रीणि स्थानानि हितायेत्यादि पदव्याख्या प्रग्वात्। अवधिज्ञानं वा [ से ] तस्य समुत्पद्यते एवं मनः पर्यायकेवले अपि, शेष व्यक्तम्। दश०७० ''चउभत्तेहिं जइउं,छट्टहिं अट्टमेहिँ दसमेहिं। बारस चोद्दसमेहि य, धीरा वि इमं तुलितप्पं / / 1 / / एकताव तवं, करेइ जह तेण कीरमाणेणं। हाणी न होइ जइया, वि होइ छम्मासुवस्सग्गे।।२॥" सत्त्वतुलना तु पञ्चभिः प्रतिमाभिर्भवति, कायोत्सर्गेरित्यर्थः / ताश्चैवम्पढमा उवस्सयम्मी, बीया बाहिं तइय चउक्कम्मि। सुण्णहरम्मि चउत्थी, तह पंचमिया मसाणम्मि / / 1 / / आसु थावं थोव ; पुव्वपवत्तं जिणेइ सो नि। भूसगफासाइ तहा, भयं च सद्द सुब्भव अजिय / / 2 / / '' सूत्रतुलना तु यत्सूत्राण्यतिपरिचितानि करोति। उक्तंच"अह सुत्तभावणं सो, एगणमणो अणाउलो भयवं। कालपरिमाणहेउं, सव्वत्थं सव्वहा कुणइ / / 1 / / मेहाइच्छन्नेसु, उभओ कालमहव उवसगे। पेहाइ भिक्खपथे, जाणइ काल विणा छायं / / 2 / / एकत्वतुलना त्वेवम्"एगत्तभावणं तह, गुरुमाइसु दिट्टिमाइपरिहारा। भावइ छिण्ण ममत्तो, तत्तं हिययम्मि काऊणं // 1 // एगो आया संजो-गियं तु सेसं इमस्स पाएण। दुक्खनिमित्तं सव्वं, हिओ य मज्झत्थभावो सोसा" बलतुलना तु द्विविधा-शरीरमानसबलभेदात्। तत्र शारीरबलं कायोत्सर्गकरणसामर्थ्य , मानसबल तुधृतिरिति। आह च-"इह एगत्तसमेओ, सारीरं मानसं च दुविह पि / भावइ बलं महप्पा, उस्सग्गठिइसरूवं तु / / 1 / / " इदं चाभ्यासाद्भवपि / आह च- "एमेव य देहबलं, अभिक्खआसेवणाएँ त होइ। लखगमल्लेउवमा आसकिसोरे व जोगविए।।१।।" इति। कथं भाविताऽऽत्मेत्याह-सम्यग्यथाऽऽगमम्. अनुज्ञात इत्येतस्य चेद विशेषणम् / तथा गुरुणाऽऽचार्येण, अनुज्ञातोऽनुमतः, अथ गुरुरेव प्रतिपत्ता तदा व्यवस्थापिताऽऽचार्येण गच्छेन वेति / / 4 / / गच्छे च्चिय णिम्माओ, जा पुव्वा दस भवे असंपुण्णा। णवमस्स तइयवत्थू, होइ जहण्णो सुयाहिगमो ||5|| गच्छ एव साधुसमुदायमध्य एव तिष्ठन्, निर्मातः प्रतिमाकल्पपरिकर्मणि आहाराऽऽदिविषये परिनिष्ठितः। आह च- "पडिमाकप्पियतुल्लो, गच्छे च्चिय कुणइ दुविह परिकम्म। आहारोवहिमाइसु, तहेव पडिवजए कप्प // 1 // " आहाराऽऽदिप्रतिकर्म दर्शयिष्यते / परिकर्मपरिमाणं चैवम्आसामाद्यासु सप्तसु या यावत्परिमाणा तस्यास्तत्प्रमाणमेव प्रतिकर्म। तथा वर्षासुनैताः प्रतिपद्यते।नच प्रतिकर्म करोति / तथा-आद्यद्वयमेकत्रैव वर्षे , तृतीयचतुर्थ्यां चैकैकस्मिन् वर्षे, अन्यासां तु तिसृणामन्यत्र वर्षे प्रतिकर्म, अन्यत्र च प्रतिपत्तिः। तदेव नवभिर्वराद्याः सप्त समाप्यन्ते इति / अथ तस्य कियान् श्रुताधिगमो भवतीत्याह-यावत्पूर्वाणि दशेति प्रतीतम्। असम्पूर्णानि किश्चिदूनानि। संपूर्णदशपूर्वधरो हि अमोघवचनत्वाद्धर्मदेशनया भव्योपकारित्वेन तीर्थवृद्धिकारित्वात् प्रतिमाऽऽदिकल्पं न