________________ भिक्खु 1570 - अभिधानराजेन्द्रः - भाग 5 भिक्खु अनेन निमित्तलक्षणोत्पादनादोषपरिहार उक्तः, सम्प्रति मन्त्राऽऽदिरूपतद्दोषपरिहारायाऽऽहमंतं मूलं विविहं विजचिंतं, __ वमणविरेयणधूमनित्तसिणाणं / आउरे सरणं तिगिच्छियं च, तं परिन्नाय परिव्वए स भिक्खू // 8 // 'मन्त्रम' ॐ काराऽऽदिस्वाहापर्यन्तो हीङ्काराऽऽदिवर्णविन्यासाऽऽत्मकस्तं, 'मूलं' सहदेवीमूलिकाकल्पाऽऽदितत्तच्छास्त्रविहितं मूलकर्म -- वा 'विविध नानाप्रकारं 'वैद्यचिन्ता वैद्यसम्बन्धिनी नानाविधौषधपथ्याऽऽदिव्यापाराऽऽत्मिकां, विविधाभित्यत्रापि डमरुकमणिन्यायेन योज्यते, वमनम्-उद्गिरण विरेचन कोष्ठशुद्धिरूपंधर्म–मनः शिलाऽऽदिसम्बन्धि 'नेत्तति'नेत्रशब्देन नेत्रसंस्कारकमिह समीराजनाऽऽदि परिगृह्यते, स्नानम् अपत्यार्थ मन्त्रौषधिसंस्कृतजलाभिषेचनं, वमनाऽऽदीनां च स्नानावसानानामिह कृतसमाहाराणां निर्देशः, 'आउरे सरण' ति, सुव्यत्ययाद् 'आतुरस्य रोगाऽऽदिपीडितस्य 'शरणं' स्मरण हातात ! हा मातः ! इत्यादिरूपं 'चिकित्सितंच' आत्मनो रोगप्रतीकाररूपं तद्' इति यदनन्तरमुक्तं परिन्नाय त्ति ज्ञपारज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया च प्रत्याख्याय 'परिव्रजेत् सर्वप्रकारं संयमाध्वनि यायाद्यः स भिक्षुरिति सूत्रार्थः। अपरं चखत्तियगणउग्गरायपुत्ता, माहणभोई य विविहा य सिप्पिणो। नो तेसिं वयइ सिलोगपूअं तं परिन्नाय परिव्वए स भिक्खू ||6| क्षत्रियाः-हेहेयाऽऽद्यवयजा गणाः- मल्लाऽऽदिसमूहाः उग्राः आरक्षकाऽऽदयः राजपुत्राः-नृपसुताः एषां द्वन्द्वः, 'माहनभोगिकाः तत्र माहना ब्राह्यणाः, तथा भोगेनविशिष्टनेपथ्याऽऽदिना चरन्ति भोगिकाः-नृपतिमान्याः प्रधानपुरुषाः, विविधाश्च' नानाप्रकाराः 'शिल्पिनः' स्थपतिप्रभृतयः पठन्ति च-'सिप्पिणोऽण्णे' तत्र चान्ये इति शिल्पिविशेषणमुभयत्र च य इति शेषः, 'नो' नैव तेषां क्षत्रियाऽऽदीनां वदति' प्रतिपादयति, के?- श्लोकपूजे श्लोकं श्लाघां यथैते शोभना इति, पूजा च-- यथैतान पूजयतेति, उभयत्र पापानुमत्यादिमहादोषसम्भवात्, किंतु तदिति श्लोकपूजाऽऽदिक द्विविधयाऽपि परिज्ञया परिज्ञाय परिव्रजेद्यः स भिक्षुरिति सूत्रार्थः। अनेन वनीपकत्वस्य परिहार उक्तः, साम्प्रतं संस्तवपरिहारमाहगिहिणो जे पव्वइएण दिट्ठा, अप्पव्वईएण व संथुया हविज्जा। तेसिं इहलोयफलट्ठयाए, जो संथवं न करेइ स भिक्खू // 10 // 'गृहिण' गृहस्था ये 'प्रव्रजितेन' गृहीतदीक्षण दृष्टाउपलक्षणत्वात्परि विताश्च अप्रव्रजितेन वा गृहस्थावस्थेन सह संस्तुताः' परिचिता भवेयुगृहिणी य इति सम्बन्धः। 'तेसिं ति' तैः उभयावस्थयोः परिचितैहिभिः 'इहलौकिकफलार्थ' वस्त्रपात्राऽऽदिलभनिमित्तं यः 'संस्तव' परिचयं न करोति स भिक्षुरिति सूत्रार्थः। तथासयणासणपाणभोयणं, विविहं खाइमसाइमं परेसिं। अदए पडिसेहिए नियंठे, जे तत्थ ण पओसई स भिक्खू / / 11 / / शयनाऽऽसनपानभोजनमिति शयनाऽऽदीनि प्रतीतानि, 'विविधम्' अनेकप्रकार 'खादिमस्वादिममिति खादिम पिण्डखजूराऽऽदि, स्यादिमम्-एलालवङ्गाऽऽदि, उभयत्र स माहारः, 'परेसि ति' 'परेभ्यः' गृहस्थाऽऽदिभ्यः अदइ त्ति अदभ्यः 'प्रतिषिद्धः क्वचित् कारणान्तरे याचमानो निराकृतः सः 'निग्रन्थः' मुक्तद्रव्यभावग्रन्थो यः 'तत्र' इत्यदाने 'न प्रदुष्यति' न प्रद्वेषं याति पुनर्दास्यतीत्यभिधायकक्षपकर्षिवत्स भिक्षुरिति सूत्रार्थः।। अनेन क्रोधपिण्डपरिहार उक्तः, उपलक्षणं चैतदशेषभिक्षादोषपरिहारस्य, इदानी ग्रासैषणादोषपरिहारमाहजं किंचाऽऽहारपाणगं विविहं, खाइमसाइमं परेसिं लड़े। जो तं तिविहेण जाणुकंपे, मणवयकायसुसंवुडे जे स मिक्खू // 12 / / 'यत् किञ्चित्' अल्पमपि 'आहारपानम्' अशनपानीयं विविध खाइमसाइम ति' चस्य गम्यमानत्वात् खादिमस्वादिमं च उक्तरूपं 'परेसिं ति' परेभ्यः गृहस्थेभ्यः 'लदधुति 'लब्ध्वा प्राप्य यः 'तति' सुब्ब्यत्ययात्तेनाऽऽहाराऽऽदिना 'त्रिविधेन' मनोवाक्कायलक्षणेन प्रकारत्रयेण नानुकम्पते, कोऽर्थ? ग्लानबालाऽऽदीन्नोपकुरुते न स भिक्षुरिति वाक्यशेषः, यस्तु मनोवाक्कायैः सुष्टु-संवृतो निरुद्धतथाविधाऽऽहाराऽऽद्यभिलापः सुसंवृता वा मनोवाकाया यस्येति सुसंवृतमनोवाक्कायः, तत एव ग्लानाऽऽदीननुकम्पत इति गम्यते, स भिक्षुः, यदि वा- 'नानुकम्पते' इत्यत्र 'ना' पुरुषोऽनुकम्ते [नानुरूपो न कम्पते] मनोवाक्कायसुसंवृतः सन् स भिक्षुरिति सूत्राऽर्थः॥ अनेनार्थतो गृद्ध्यभावाभिधानादगारदोषपरिहार उक्तः, सम्प्रति धूमपरिहारमाहआयामगं चेव जवोदणं च, सीयं सोवीरजवोदगं च। नो हीलए पिंडं नीरसं तु. पंतकुलाणि परिव्वएस मिक्खू // 13|| आयाममेव आयामकम्- अवश्रावणं, चशब्द उत्तरापेक्षया-समुचये स्वगतानेकभेदख्यापको वा, 'एव' इति प्राग्वत् 'यवोदनंच' यवभक्तसीयं ति शीतं शीतलमन्तप्रान्तोपलक्षणं चैतत्, सोवीरम्-आचाम्लं, यवोदक च- यवप्रक्षालनं पानीयं सोवीरयवोदकं, तच 'नो हीलयेत्' धिगिर्द