________________ भिक्खु 1568 - अभिधानराजेन्द्रः - भाग 5 भिक्खु - अनेन कुलमदाऽऽदिपरिग्रहः, अत एवाऽऽह-मदान् सर्वान कुलाऽऽदिविषयानपि 'परिवर्य' परित्यज्य 'धर्मध्यानरतो 'यो यथाऽऽगमं तत्र सक्तः स भिक्षुरिति सूत्रार्थः / / 16 / किं च- 'प्रवेदयति' कथयति 'आर्यपद' शुद्धधर्मपदं परोपकाराय महामुनिः शीलवान् ज्ञाता एवंभूत एव वस्तुतो नान्यः, किमित्येतदेवमित्यत आह-धर्मे स्थितः स्थापयति परमपि श्रोतार, तत्राऽऽदेयभावप्रवृत्तेः, तथा निष्क्रम्य वर्जयति कुशीललिङ्गम्, आरम्भाऽऽदि कुशीलचेष्टितं, तथा 'न चापि हास्यकुहको' न हास्यकारिकुहकयुक्तो यः स भिक्षुरिति सूत्रार्थः // 20 // भिक्षुभावफलमाह- 'तं देहवासं' इत्येवं प्रत्यक्षोपलभ्यमानं चारकरूपं शरीराऽऽवासम् अशुचिं शुक्रशोणितोद्भवत्वाऽऽदिना अशाश्वतं प्रतिक्षणपरिणत्था सदा त्यजति ममत्वानुबन्धत्यागेन, क इत्याह- 'नित्यहिते' मोक्षसाधने सम्यग्दर्शनाऽऽदौ स्थिताऽऽत्मा' अत्यन्तसुस्थितः स चैवंभूतश्छित्त्वा 'जातिभरणस्य संसारस्य 'बन्धन' कारणम् 'उपैति' सामीप्येन गच्छति "भिक्षुः यतिः 'अपुनरागमा पुनर्जन्माऽऽदिरहितामित्यर्थः, गतिमितिसिद्धिगति ब्रवीमिति पूर्ववदिति सूत्रार्थः / / 21 / उक्तोऽनुगमो नयाः पूर्ववत् इति। दश०१० अ०। मोणं चरिस्सामि समिच्च धम्म, सहिए उज्जुकडे नियाणछिन्ने! संथवं जहिज्ज अकामकामे, अन्नायएसी परिव्वए स भिक्खू / / 1 / / मुनेः कर्म मौनं, तच्च सम्यक् चारित्रं, 'चरिस्सामो ति' सूत्रत्वात् चरिष्यामि आसेविष्ये इत्यभिप्रायेणेत्युपस्कारः, 'समेत्य' प्राप्य एवं 'धर्म' श्रुतचारित्रभेदं दीक्षामित्युक्तं भवति, सहितः सम्यग्दर्शनाऽऽदिभिरन्यसाधुभिर्वेति गम्यते, स्वस्मै हितः स्वहितोवा सदनुष्ठानकरणतः, कश्चैवम्?- ऋजुः-संयमस्तत्प्रधानं ऋजुवा– मायात्यागतः कृतम - अनुष्ठानं यस्येति ऋजुकृतः, ईदृक्क इत्याह-निदानंविषयाभिष्वङ्गाऽऽत्मक, यदि वा- "निदान बन्धने' ततश्च करणे ल्युट्, निदानं प्राणातिपाताऽऽदिकर्मबन्धकारणं छिन्नम्- अपनीतं येन स तथा, क्लान्तस्य परनिपातः प्राग्वत्प्राकृतत्वात्, छिन्ननिदानो वा अप्रमत्तसंयत इत्यर्थः, 'संस्तव' पूर्वसंस्तुतैर्मात्रादिभिः पश्चात्संस्तुतैश्च श्वश्वादिभिः परिचयं 'जह्यात्' त्यजेत्, 'शकि च लिड् (शकि लिङ् चपा-३-३-१७३) इत्यनेन शक्यार्थेलिङ्, ततः संस्तव हातुं शक्तो य इति, एवं लिड्थभावना सर्वत्र कार्या, तथा कामान्- इच्छाकाममदनकामभेदान् कामयते- प्रार्थयते यः स कामकामो न तथा अकामकामः, यद्वाऽकामोमोक्षस्तत्र सकलाभिलाष-निवृत्तेस्तं कामयते यः स तथा, अत एव अज्ञातः-तपस्विताऽऽदिभिर्गुणैरनवगतः, एषयते ग्रासाऽऽदिक गवेषयतीत्येवशीलोऽज्ञातैषी 'परिव्रजेद्' अनियतविहारितया विहरेत् ‘स भिक्खु त्ति' यत्तदोर्नित्याभिसम्बन्धाद् य एवंविधः स भिक्षुः, अनेन सिंहतयैव विहरणं भिक्षुत्वनिबन्धनमुक्तमिति सूत्रार्थः।। तच्च सिंहतया विहरण यथा स्या तथा विशेषत आहराओवरयं चरिज लाढे, विरए वेद वियाऽऽय रक्खिए। पन्ने अभिभूय सव्वदंसी, जे कम्हि विन मुच्छिए स भिक्खू / / 2 / / रागः--अभिष्वङ्गः, उपरतो-निवृत्तो यस्मिस्तद्रागोपरतं यथा भवत्येवं 'चरेद्' विहरेत्, क्लान्तस्य परनिपातः प्राग्वत्, अनेन मैथुननिवृत्तियक्ताः, रागाविनाभावित्वान्मैथुनस्य, यद्वाऽऽवृत्तिन्यायेन ‘रातोवरयं ति' रात्र्युपरत 'चरेत्' भक्षयेदित्यनेनैव रात्रिभोजननिवृत्तिरप्युक्ता, 'लाढे त्ति' सदनुष्ठानतया प्रधानो विरतः- असंयमान्निवृत्तः, अनेन च संयमस्याऽऽक्षेपात्प्राणातिपातनिवृत्तिः सावधवचननिवृत्ति - रूपत्वाद् वाक्संयमस्य मृषावादनिवृत्तिश्चाभिहि-तावेदितव्या, वेद्यतेऽनेन तत्त्वमिति वेदः-सिद्धान्तस्तस्य वेदनं वित्तया आत्मा रक्षितोदुर्गतिपतनात्तातोऽनेनेति वेदविदात्मरक्षितः, यद्वा-वेदं वेत्तीति वेदवित्, तथा रक्षिता आयाः- सम्यग्दर्शनाऽऽदिलाभा येनेति रक्षिताऽऽयः, रक्षितशब्दस्य परनिपातः प्राग्वत्, 'प्राज्ञः हेयोपादेयबुद्धिमान् 'अभिभूय' पराजित्य परीषहोपसर्गानिति गम्यते, 'सर्वे समस्तंगम्यमानत्वात्प्राणिगण पश्यति-आत्मवत्प्रेक्षत इत्यवंशीलः, अथवा- अभिभूय रागद्वेषौ सर्व वस्तु समतया पश्यतीत्येवंशीलः सर्वदर्शी, यदि वा-सर्व दशति-भक्षयतीत्येवंशीलः सर्वदशी। उक्त हि- 'पडिग्गहं संलिहिता णं, लेवमायाएँ सजए। दुग्गंधं वा सुगंधवा, सव्वं भुंजे ण छडए / / 1 / / ' अत एव यः कस्मि-श्चित्सचित्ताऽऽदिवस्तुनि न मूर्छितः-प्रतिबद्धः, एतेन परिग्रहे निवृत्तेरभिधानमप्रतिबद्धश्च कथमदत्तमाददीत? इत्यदत्ताऽऽदाननिवृत्तेश्च, तथा च य एवं मूलगुणान्वितः स भिक्षुरित्युक्त भवतीति सूत्रार्थः। अन्यचअक्कोसवहं विदित्तु धीरे, मुणी चरे लाढे निच्चमायगुत्ते / अश्वग्गमणे असंपहिढे, जो कसिणं अहिआसए स भिक्खू / / 3 / / आक्रोशनमाक्रोशः-असभ्याऽऽलापो वधो- घातस्ताडनं वा, अनयोः समाहारद्वन्द्वे आक्रोशवध, तद्विदित्वा स्वकृतकर्मफलमेतदिति मत्वा धीर' अक्षोभ्यः सम्यक् सोढेतियावत् 'मुनिः' यतिः 'चरेत् पर्यटद्, अनियतिवहारतयेति गम्यते, ततश्चानेनाऽऽक्रोशवधचर्यापरीषहसहनमुक्तं, 'लाढे त्ति प्राग्वत् 'नित्यम्' इति सदा 'आत्मा' शरीरम, आत्मशब्दस्य शरीरवचनस्यापि दर्शनात्, उक्तं हि- 'धर्मधृत्यग्निधीन्द्वर्क त्वक्तत्वस्वार्थदेहिषु / शीलानिलमनोयत्नैकवीर्येष्वात्मनः स्मृतिः / / 1 / / ' इति, तेन गुप्त आत्मगुप्तो-- न यतस्ततः करणवरणाऽऽदिविक्षेपकृत् , यद्धा-गुप्तो रक्षितोऽसंयमस्थानेभ्य आत्मा येन स तथा, अव्यग्रम्-- अनाकुलमसमञ्जसचिन्तोपरमतो मनः-- चित्तमस्येत्यव्यग्रमना न संप्रहृष्टः असम्प्रहृष्टः-आकाशाऽऽदिषुन प्रहर्षवान, यथा कश्चिदाह- 'कश्चित् पुमान् क्षिपति मां परिक्षवाक्यैः, श्रीमत्क्षमाऽऽभरणमेत्य मुदं व्रजामि।' इत्यादि। प्रकृतोपसंहारमाहयः 'कृत्स्नम्' उत्कृष्टाऽऽदिभेदतः समस्तमाक्रोशवधम् 'अध्यास्ते' सहते समतयेति गम्यते, स भिक्षुरिति सूत्रार्थः /