________________ भिक्खु 1566 - अभिधानराजेन्द्रः - भाग 5 भिक्खु वचनचित्तसमाधानतः सर्वथा स्त्रीवशत्यागाद, अनेनैवोपायेनान्यापायासंभवात्, 'वान्त' परित्यक्तं सद्विषयजम्बाल 'न प्रत्यापिबति' न | मनागप्याभोगतोऽनाभोगतश्च तत्सेवते यः स 'भिक्षुः'- भावाभिक्षुरिति सूत्रार्थः / / 1 / / तथा- 'पृथिवी' सचेतनाऽऽदिरूपां न खनति स्वयं, न खानयति परैः, एकग्रहणे तज्जातीयग्रहणमिति खनन्तमप्यन्यं न समनुजानाति, एवं सर्वत्र वेदितव्यम्। शीतोदकं' सचित्तं पानीयंन पिबति स्वयं, न पाययति परानिति, अग्निः षड्जीवघातकः, किंवदित्याह'शस्त्र' खड्गाऽऽदि यथा 'सुनिशितम्' उज्ज्वालितं तद्वम्, तनज्वालयति स्वयं, नज्वालयति परैः; य इत्थंभूतः स भिक्षुः। आह-षड्जीवनिकायाऽऽदिषु सर्वाध्ययनेष्वयमर्थोऽभिहितः किमर्थ पुनरुक्त इति? उच्यते, तदुक्तार्थानुष्ठानपर एव भिक्षुरिति ज्ञापनार्थ, ततश्च न दोष इति सूत्रार्थः // 2 // तथा अनिलेन' अनिलहेतुना चेलकर्णाऽऽदिनान वीजयत्यात्माऽऽदि स्वयं, न वीजयति परैः / 'हरितानि' शस्याऽऽदीनि न छिनत्ति स्वयं, न छेदय ति परैः 'बीजानि' हरितफलरूपाणि ब्रीह्यादीनि, "सदा सर्वकालं विवर्जयन संघट्टनाऽऽदिक्रियया, सचित्तं नाऽऽहारयति यः कदाचिदप्यपुष्टाऽऽलम्बनःस भिक्षुरितिसूत्रार्थः // 3 // औद्देशिकाऽऽदिपरिहारेण त्रसस्थावरपरिहारमाह- 'बंधन' हननं 'बसस्थावराणां' द्वीन्द्रियाऽऽदिपृथिव्यादीनां भवति कृतौद्देशिके, किं विशिष्टानाम्? 'पृथिवीतृणकाष्ठनिश्रिताना' तथासमारम्भात्, यस्मादेवं तस्मादौदेशिक कृताऽऽद्यन्यच सावद्यं न भुक्ते, न केवलमेतत्, किं तु? नापि पचति एस्वयं, न पाचयति अन्यैर्न पचन्तमनुजानाति, यः स भिक्षुरिति सूत्रार्थः // 4 // किंच- 'रोचयित्वा' विधिग्रहणभावनाभ्यां प्रियं कृत्वा किं तदित्याह-'ज्ञातपुत्रवचनं भगवन्महावीरवर्धमानवचनम् आत्मसमान्' आत्मतुल्यान् मन्यते 'षडपि' कायान् पृथिव्यादीन्, 'पञ्च चे ति' चशब्दोऽप्यर्थः पञ्चापि, 'स्पृशति' सेवते महाव्रतानि ‘पञ्चाऽऽश्रवसंवृतश्च' द्रव्यतोऽपि पञ्चेन्द्रियसंवृतश्च यः स भिक्षुरिति सूत्रार्थः // 5 // चत्तारि वमे सया कसाए, धुवजोगी हविज्ज बुद्धवयणे। अहणे निज्जायरूवरयए, गिहिजोगं परिवजए जे स भिक्खू // 6 // सम्मविट्ठी सया अमूढे, अत्थि हु नाणे तवे संजमे अ। तवसा धुणइ पुराणपावगं, मणवयकायसुसंवुडे जे स भिक्खू / / 7 / / तहेव असणं पाणगं वा, विविहं खाइमसाइमं लभित्ता। होही अट्ठो सुए परे वा, तं न निहे न निहावए जे स भिक्खू / / 8 / / तहेव असणं पाणगं वा, विविहं खाइमसाइमं लमित्ता। छंदिअ साहम्मिआण भुंजे, भुचा सज्झायरए जे स भिक्खू / / / न य वुग्गहिअं कहं कहिज्जा, ___ न य कुप्पे निहुइंदिए पसंते। संजमे धुवं जोगेण जुत्ते, उवसंते अविहेडए जे स मिक्खू // 10|| किंच-चतुरः क्रोधाऽऽदीन्वमति तत्प्रतिपक्षाभ्यासेन 'सदा' सर्वकालं कषायान, धुवयोगी च उचितनित्ययोगवांश्च भवति, बुद्धवचन इति तृतीयार्थ सप्तमी, तीर्थकरवचनेन करणभूतेना, ध्रुवयोगी भवति यथागममेवेति भावः, 'अधनः' चतुष्पदाऽऽदिरहितः 'निर्जातरूपरजतो' निर्गतसुवर्णरूप्य इति भावः, 'गृहियोग' मूर्च्छया गृहस्थसंबन्धं परिवर्जयति' सर्वैः प्रकारैः परित्यजति यः स भिक्षुरिति सूत्रार्थः / / 6 / / तथा'सम्यग्दृष्टि' भावसम्यग्दर्शनी सदा अमूढः अविप्लुतः सन्नेवं मन्यतेअस्त्येव ज्ञानं हेयोपादेयविषयमतीन्द्रियेष्वपि तपश्च बाह्याऽऽभ्यन्तरकर्ममलापनयनजलकल्पं संयमश्च नवकर्मानुपादानरूपः, इत्थं च दृढभावस्तपसा धुनोति पुराणपापं भावसारया प्रवृत्त्या 'मनोवाक्कायसंवृतः' तिसृभिर्गुप्तिभिर्गुप्तो यः स भिक्षुरिति सूत्रार्थः / / 7 / / तथैवे ति पूर्वर्षिविधानेन 'अशनं पानं च' प्रागुक्तस्वरूपं तथा 'विविधम्' अनेकप्रकार 'खाद्यं स्वाद्यं च प्रागुक्तस्वरूपमेव 'लब्ध्वा' प्राप्य, किमित्याह-- भविष्यति 'अर्थः' प्रयोजनमनेन श्वः परश्यो वेति 'तद्' अशनाऽऽदि 'न निधत्ते' न स्थापयति स्वयं, तथा 'न निधापयति' न स्थापयत्यन्यैः, स्थापयन्तमन्यं नानु-जानाति, यः सर्वथा संनिधिपरित्यागवान् स भिक्षुरिति सूत्रार्थः / / 8 / / किं च-तथैवाशनं पानं च विविध खाद्यं स्वाद्य चलब्ध्वेति पूर्वक्त, लब्ध्या किमित्याह- 'छन्दित्वा' निमन्त्र्य 'समानधार्मिकान्' साधून भूक्ते, स्वाऽऽत्मतुल्यतया तद्वात्सल्यसिद्धेः, तथा भुक्त्वा स्वाध्यायरतश्च यः, चशब्दाच्छेषानुष्ठानपरश्च यः स भिक्षुरिति सूत्रार्थः / / 6 / / भिक्षुलक्षणाधिकार एवाऽऽह- न च 'वैग़ाहिकी' कलहप्रतिबद्धां कथा कथयति, सद्वादकथाऽऽदिष्वपि न च कुप्यति परस्य, अपितु 'निभृतेन्द्रियः' अनुद्धतेन्द्रियः 'प्रशान्तो' रागाऽऽदिरहित एवाऽऽस्ते, तथा 'संयमे पूर्वोक्ते 'ध्रुवं' सर्वकालं 'योगेन' कायवाड्मनः कर्मलक्षणेन युक्ते योगयुक्तः, प्रतिभेदमौचित्येन प्रवृत्तेः, तथा 'उपशान्तः' अनाकुलः कायचापलाऽऽदिरहितः 'अविहेटकः नमचिदुचितेऽनादरवान्, क्रोधाऽऽदीनां विश्लेषक इत्यन्ये, य इत्थंभूतः स भिक्षुरिति सूत्रार्थः / / 10 / / जो सहइ हु गामकंटए, अक्कोसपहारतज्जणाओ अ। भयमेरवसहसप्पहासे, समसुहदुक्खसहे अजेस भिक्खू // 11 // एतदेव स्पष्टयतिपडिमं पडिवजिआ मसाणे, नो भीयए भयभेरवाइंदिस्स।