________________ भिक्खु 1561 - अभिधानराजेन्द्रः - भाग 5 भिक्खु अगुणट्टिओ न भिक्खु अवयवा पंच दाराई / / 332 / / / भिक्षोर्निक्षेपो नामाऽऽदिलक्षणः कार्यः, तथा निरुक्त वक्तव्यं भिक्षोरेव, तथा एकार्थिकानि पर्यायशब्दरूपाणि वक्तव्यानि, तथा लिङ्गानि संवेगाऽऽदीनि, तथा अगुणस्थितो न भिक्षुरपि तु गुणस्थित एवेत्येतदपि वाच्यम्, अत्र चावयवाः पञ्च प्रतिज्ञाऽऽदयो वक्ष्यमाणा इति, द्वाराण्येतानीति गाथासमासार्थः॥३३॥ दश०१० अ०। यथाक्रम (भाष्य-५ गाथां) व्यासार्थमाहनामंठवणाभिक्खू, दवभिक्खू य भावभिक्खू य / दव्वे सरीर भवितो, भावेणय संजतो भिक्खू / / 5 / / भिक्षुशब्दस्य निक्षेपश्चतुष्कः (नामं ति) भिक्षुशब्दस्यात्रापि संबन्धात् नामभिक्षुः, स्थापनाभिक्षुः, द्रव्यभिक्षुः भावभिक्षुश्च चशब्दौ स्वस्वगतानेकभेदसूचकौ, तत्र यस्य पुरुषस्य भिक्षुरिति नाम स नाम्ना भिक्षुर्नामभिक्षुः, यदि वा- 'नामनामवतोरभेदोपचारात्' नाम चासौ भिक्षुश्व नामभिक्षुरिति व्युत्पत्तेर्नामभिक्षुः स्थापनया आकारमात्रेण असत्कल्पनया भिक्षुः स्थापनाभिक्षुः चित्रकर्माऽऽदिलिखितो बुद्धिकल्पिता वाऽक्षाऽऽदिः / द्रव्यभिक्षुर्द्विधाआगमतो, नोआगमतश्च / तत्राऽऽगमतो ज्ञाता, तरच "अनुपयुक्तोऽनुपयोगो द्रव्यमिति'' वचनात्।नोआगमतश्च त्रिविधः तद्यथा-ज्ञशरीरं, भव्यशरीरं, तद्व्यतिरिक्तश्च / तत्र भिक्षुपदार्थज्ञस्ययत् शरीर व्यपगतजीवितं तत्ज्ञशरीर द्रव्यभिक्षुर्भूतभावत्वात्। यस्तु बालको नेदानी भिक्षुशब्दार्थमवबुध्यते, अथवा आयत्या अन्तेनैव शरीरेण भोत्स्यते, तस्य यत् शरीरं तत् भव्यशरीर द्रव्यभिक्षुः भाविभा चत्वात् / तद्व्यतिरिक्तस्विधा / तद्यथा- एकभविक, बद्धाऽऽयुष्कः, अभिमुखनामागोत्रश्वा तत्रएकभविको नाम योनेरयिकस्तिर्यड्मनुष्यो, देवो वा अनन्तरभवे भिक्षुर्भावी बवाऽऽयुष्को नामयेन भिक्षुपर्यायनिमित्तमायुर्बद्धम् / अभिमुखनामगोत्रीयस्य भिक्षुपर्यायप्रवर्तनाभिमुखे नामगोत्रकर्मणी, स चाऽऽर्यक्षेत्रे मनुष्यभवेभाविभिक्षुपर्याये समुत्पद्यमानः। यदि वा स्वजनधना-ऽऽदि परित्यज्य गुरुसमीपे प्रव्रज्याप्रतिपत्त्यर्थ स्वगृहात बहिर्गच्छन्। तथा चाऽऽह-(दव्ये सरीरभवितो त्ति) द्रव्ये इति द्वारपरामर्शः, द्रव्यभिक्षु।आयमतो इति गम्यते इति / (सरीर त्ति) शरीरग्रहणेनज्ञशरीरं, 'भव्यशरीरं च परिगृहीतम्। (भविय त्ति) भव्यो, भावीत्यनर्थान्तरं, भावी च त्रिविधपर्याय इति तद्ग्रहणे एकभविकाऽऽदित्रिभेदपरिग्रहः०। व्य०१ उ०] भेयओ भेयणं चेव, मिंदिअव्वं तहेव य। एएसिं तिण्हं पि अ, पत्तेयपरूवणं वोच्छं॥३३४॥ भेदकः पुरुषः, भेदनं चैव परश्वादि, भेत्तव्यं तथैव च काष्ठाऽऽदीति भावः / एतेषां त्रयाणामपि भेदकाऽऽदीनां प्रत्येकं पृथक् पृथक् प्ररूपणां वक्ष्ये इति गाथाऽर्थः / / 334 / / एतदेवाऽऽहजह दारुकम्मगारो, मेअणमित्तव्वसंजुओ भिक्खू। अन्ने विदव्वभिक्खू, जे जायणगा अविरया य॥३३५।। यथा दारुकर्मकरो वर्द्धक्यादिः भेदनभेत्तव्यसंयुक्तः सन् क्रिया- विशिष्टविदारणाऽऽदिदारुसमन्वितो द्रव्यभिक्षुः, द्रव्यं भिनत्तीति कृत्वा, तथा अन्येऽपि द्रव्यभिक्षवः-अपारमार्थिकाः / क इत्याह-ये याचनका भिक्षणशीला अविरताश्च अनिवृताश्च पापस्थानेभ्य इति गाथाऽर्थः / / 335 / / एते च द्विविधाः-गृहस्थाः, लिङ्गिनश्चेति, तदाहगिहिणो ऽवि सयारंभगउज्जुप्पन्नं जणं विमग्गंता। जीवणिअदीणकिविणा, ते विज्जा दव्वभिक्खु त्ति / / 336|| गृहिणोऽपि सकलत्रा अपि सदारम्भकाः नित्यमारम्भकाःषण्णां जीवनिकायानामृजुप्रज्ञ जनमनालोचक विमृगयन्तः अनेकप्रकारं द्विपदाऽऽदि भूमिदेवा वयं लोकहितायावतीर्णा इत्यभिधाय याचमाना द्रव्यभिक्षणशीलत्वाद् द्रव्यभिक्षवः, एते च धिग्वर्णाः / तथा ये च 'जीवनिकायै' जीवनिकानिमित्त दीनकृपणाः कार्पटिकाऽऽदयो भिक्षामटन्ति तान्विद्यात विजानीयात द्रव्यभिक्षूनिति, द्रव्यार्थ भिक्षणशीलत्वादिति गाथाऽर्थः // 336|| उपता गृहस्थद्रव्यभिक्षवः। लिङ्गिनोऽधिकृत्याऽऽहमिच्छट्ठिी तसथा-वराण पुढवाइविंदिआईणं। निचं वहकरणरया, अबंभयारी असंचइया / / 337 / / शाक्यभिक्षुप्रभृतयो हि मिथ्यादृष्टयः-अतत्त्वाभिनिवेशिनः प्रशमाऽऽदिलिङ्गशून्याः, बसस्थावराणां प्राणिनां पृथिव्यादीनां द्वीन्द्रियाऽऽदीनां च। अत्र पृथिव्यादयः स्थावरा द्वीन्द्रियाऽऽदयः त्रसाः, नित्यं वधकरणरताः सदा एतदतिपाते सक्ताः कथमित्यत्राऽऽह-अब्रह्मचारिणः सञ्चयिनश्च यतः, अतोऽप्रधानत्वाद् द्रव्यभिक्षवः,चशब्दस्य व्यवहित उपन्यास इति गाथाऽर्थः // 337 // एते चाऽब्रह्मचारिणः संचयादेवेति। सञ्चयमाहदुपयचउप्पयधणधन्नकुविअतिअतिअपरिगहे निरया। सचित्तभोह पयमाणगा य उद्दिट्ठभोई अ॥३३८|| द्विपदं दास्यादि, चतुष्पदं गवादि, धनं हिरण्याऽऽदि, धान्यं शाल्याऽऽदि, कुप्यमलिजराऽऽदि, एतेषु द्विपदाऽऽदिषु क्रमेण मनोलक्षणाऽऽदिना करणत्रिकेण त्रिकपरिग्रहे कृतकारितानुमतपरिप्रहे निरताः सक्ताः , न चैतदनार्षम्- "विहारान कारयेद्रम्यान्, वासयेच्च बहुश्रुतान्।" इति वचनात्। सद्भूतगुणानुष्ठायिनो नेत्थंभूता इत्याशङ्कयाऽऽह-सचित्तभोजिनः तेऽपि मांसापकायादिभोजिनः, तदप्रतिषेधात्, पचन्तश्च स्वयं पचास्तापसाऽऽदयः उद्दिष्टभोजिनश्च सर्व एव शाक्याऽऽदयः, तत्प्रसिद्ध्या तपस्विनः अपि पिण्डविशुद्ध्यपरिज्ञानाद्। इतिगाथाऽर्थः // 338 / / त्रिकत्रिकपरिग्रहे निरता इत्येतद्व्याचि ख्यासुराहकरणतिए जोअतिए, सावजे आयहेउपरउभये / अट्ठाणट्ठपवत्ते, ते विजा दवभिक्खु त्ति॥३३६।। करणत्रिक इति- "सुपा सुपो भवन्तीति'' करणत्रिकेण मनोवाक्कायलक्षणेन, योगत्रितय इति-कृतकारितानुमतिरूपे, सावद्ये सपापे, आत्महेलो:-- आत्मनिमित्तदेहाऽऽधुपच्याय, एवं परनिमित्तमित्राऽऽद्युपभोगसाधनाय एवमुभयनिमित्तमुभयसाधनार्थम्, एवमर्थाय आत्माद्यर्थम्, अ