________________ भिक्खाग 1556 - अमिधानराजेन्द्रः - भाग 5 भिक्खायरिया णाममेगे णो परिवइत्ता, परिवइत्ता णाममेगे णो णिवइत्ता, एगे | णिवइत्ता विपरिवइत्ता वि, एगे णो णिवइत्ता णो परिवइत्ता।३८/ (सूत्रम् 351) निपतिता नीडादवतरीता अवतरीतुं शक्तो नामैकः पक्षी धृष्टत्वादज्ञत्वाद्वा. न तु परिवाजिता न परिव्रजितुं शक्तो बालत्वादित्येकः, एवगन्यः परिव्रजितुं शक्तः पुष्टत्वान्न तु निपतितुंभीरुत्वादन्यस्तूभयथा चतुर्थस्तुभयप्रतिषेधवानतिबालत्वादिति।३७। निपतिता भिक्षाचर्यायामवतरीता भोजनाऽऽद्यर्थित्वान्न तुपरिव्रजिता परिभ्रमको ग्लानत्वादलसत्वालजालुत्वाद्वेत्येकः, अन्यः परिव्रजिता परिभ्रमणशील आश्रयानिर्गतः सन्न तु निपतिता भिक्षार्थमवतरीतुमशक्तः सूत्रार्थाशक्तत्वाऽऽदिना, शेषो स्पष्टौ // 38 // (351) / स्था० 4 ठा० 4 उ०। चत्तारि भिक्खागा पण्णत्ता।तं जहा-अणुसोयचारी, पडिसोयचारी, अंतचारी, मज्झचारी॥२३|| भिक्षाकः साधुर्यो ह्यभिग्रहविशेषादुपाश्रयसमीपात् क्रमेण कुलेषु भिक्षते सोऽनुश्रोतश्चारी मत्स्यवदनुश्रोतश्चारी प्रथमः, यस्तूतक्रमेण गृहेषु भिक्षमाण उपाश्रयमायाति स द्वितीयः, यस्तु क्षेत्रान्तरेषु भिक्षतेस तृतीयः, क्षेत्रमध्ये चतुर्थः / / 23 / / स्था० 4 ठा० 4 उ०॥ पंच मच्छा पण्णत्ता / तं जहा- अणुसोयचारी पडिसोयचारी अंतचारी मज्झचारी सव्वचारी। एवमेवपंच भिक्खागा पण्णत्ता। तं जहा-अणुसोयचारी० जाव सव्वचारी।। तत्र मत्स्यः प्राग्वत् भिक्षाकस्तु अनुश्रोतवारी प्रतिश्रयादारभ्य भिक्षाचारी स च प्रथमः प्रतिश्रोतश्चारी दूरादारभ्य प्रतिश्रयाभिमुखचारीत्यर्थः, स च द्वितीयः अन्तचारीपार्श्वचारीतितृतीयः, शेषो प्रतीती। स्था०५ ठा०३ उ०। भिक्खागकुल न०(भिक्षाककुल) भिक्षणवृत्तिके कुले, स्था० 8 ठा०। "भिक्खागकुलेसुवा।' भिक्षाकास्तालचाराः। तेषु. कल्प०१ अधि० २क्षण। मिक्खाड पुं०(भिक्षाट) भिक्षामटतीति भिक्षाटः भिक्षणशीले साधी, आचा०२ श्रु०१चू०१अ०११ उ०। भिक्षाटोभिक्षाभोजीति। ज्ञा०१ श्रु०१४ अग भिक्खादोस पुं०(भिक्षादोष) आधाकर्मादिके, ते च षोडशोद्गमदोषाः षोडशोत्पादनादोषाः दशैषणादोषाः। आचा०१ श्रु०२ अ०५ उ०। भिक्खाभायण न०(भिक्षाभाजन) भिक्षापात्रे भिक्षाभाजनमिव भिक्षाभाजनम्। भिक्षोर्निहिकरणे च1"जोव्वणगमणुप्पत्ते, तव मम भिक्खा भायणे भविस्सइ" ज्ञा०१ श्रु०१४ अ01 मिक्खामत्तवित्ति त्रि०(भिक्षामात्रवृत्ति) भिक्षामात्रेण सर्वोपाधिशुद्धेन वृत्तिरस्य। भिक्षामात्रेण वृत्तिं कुर्वति, दश० 10 अ०। भिक्खायर पुं०(भिक्षाचार) भिक्षुके, आचा०२ श्रु०१चू०१ अ०३ उ०। द०प० भिक्खायरिया स्त्री०(भिक्षाचा) भिक्षार्थ चर्या चरणमटन भिक्षाचा। स्था०६ ठा०ा आचा०। आव० भिक्षाटने सूत्र०१ श्रु०३ अ०१ उ०। / भिक्षाच- भिक्षानिमित्तं विचरणमिति। ज्ञा०१ श्रु०१४ अ०। ग० / वृत्तिसंक्षेपे, स्था०६ ठा० / तद्रूपे अनशनभेदे, भिक्षाचर्या तपो निर्जराङ्गत्वादनशनवत्। स्था०६ठा विपा०। तभेदाःसे किं तं भिक्खायरिया? भिक्खायरिया अणे गविहा पण्णत्ता / तं जहा-दव्वामिग्गहचरए खेत्ताभिग्गहचरए, कालाभिग्गहचरए, भावाभिग्गहचरए, उक्खित्तचरए, णिक्खित्तचरए, उक्खित्तणिक्खित्तचरए, णिक्खित्तउक्खित्तचरए, वट्टिजमाणचरए, साहरिजमाणचरए, उवणीअचरए, अवणीअचरए, उवणीअअवणीअचरए, अवणीयउवणी-अचरए संसठ्ठचरए, असंसहचरए तजातसंसट्टचरए, अण्णाय-चरए, मोणचरए, दिट्ठलाभिए, अदिठ्ठलाभिए, पुट्ठलाभिए, अपुट्ठलाभिए, भिक्खालामिए, अमिक्खालाभिए, अण्णगिलायए, ओवणिहिए, परिमितपिंडवाइए, सुद्धेसणिए, संखायतिए। से तं भिक्खाय(द)रिया (सूत्र-१६) (दत्वाभिग्गहचरए त्ति) द्रव्याऽऽश्रिताभिग्रहेण चरति भिक्षामटति द्रव्याऽऽश्रिताभिग्रहं वा चरन्यासेवते यः स द्रव्याभिग्रहचरकः इह च भिक्षाचर्यायां प्रक्रान्तायां यद् द्रव्याभिग्रहचरक इत्युक्तं तद्धर्मधमिणोरभेदविवक्षणात् / द्रव्याभिग्रहश्च लेपकृताऽऽदिद्रव्यविषयः / क्षेत्राभिग्रहः स्वग्रामपरग्रामाऽऽदिविषयः / कालाभिग्रहः पूर्वाह्नाऽऽदिविषयः भाषाभिग्रहस्तु गानहसनाऽऽदिप्रवृत्तपुरुषाऽऽदिविषयः। भिग्रहतश्वरति तगवेषणाय गच्छतीत्युत्क्षिप्तचरकः / एवमुत्तरत्रापि / (निक्खित्तचरए त्ति) निक्षिप्त पाकभाजनादनुधृतम् (उक्खित्तनिक्खितचरए त्ति) पाकभाजनादुत्क्षिप्य निक्षिप्तं तत्रैवान्यत्र वा स्थाने यत्तदुत्क्षिसनिक्षिप्तम्। अथवोत्क्षिप्तं च निक्षिप्तं च यश्चरति स तथोच्यते (निक्खित्तउक्खित्तचरए त्ति) निक्षिप्त भोजनपात्र्यामुविज्ञप्तं च स्वार्थ तत एव निक्षिप्तोत्क्षिप्तम्, (वट्टिजमाणचरए त्ति) परिवेष्यमाणचरकः (साहरिज्जमाणचरएत्ति) यत् कूराऽऽदिकं शीतलीकरणार्थ पटाऽऽदिषु विस्तारित तत्पुनर्भाजने क्षिप्यमाणं संहियमाणमुच्यते, (उवणीयचरए त्ति) उपनीत केनचित्कस्यचिदुपढौकितं प्रहेणकाऽऽदि. (अवणीयचरए त्ति) अपनीत देयद्रव्यमध्यादपसारितमन्यत्र स्थापितमित्यर्थः / (उवणीयावणीयचरएत्ति) उपनीतं विनीतं ढौकितं सत्प्रहेणकाऽऽद्यपनीतं स्थानान्तरस्थापितम्; अथवोपनीतं चापनीतं च यश्चरति स तथा / अथवाउपनीतं दायकेन वर्णितगुणम्; अपनीतं निराकृतगुणम्, उपनीतापनीत यदेकेन गुणेन वर्णितं गुणान्तरापेक्षया तु दूषितं यथाऽहो शीतलं जलं केवल क्षारमिति, यत्तु क्षारं किं तु-शीतलं तदपनीतोपनीतमुच्यते इति / अत आह- (अवणीयउवणीयचरए त्ति) (संसठ्ठचरए त्ति) संसृष्टेन खरण्टितेन हस्तादिना दीयमानं संसृष्टमुच्यते, तच्चरति यः स तथा। (असंसट्टचरए त्ति) उक्तविपरीतः (तज्जायसंसट्टचरए ति) तज्जातेन देयद्रव्याविरोधिना यत् संसृष्ट हस्ताऽऽदि तेन दीयमानं यश्वरति स तथा / (अण्णायचरए त्ति) अज्ञातः अनुपदर्शितसौजन्याऽऽदि