________________ पच्छित्त 130 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त द्रव्यव्रणक्रियाविशेष दर्शयन्नाहतणुओ अतिक्खतुंडो, असोणितो केवलं तयालग्गो। उद्धरिउं अवउज्झइ, सल्लो ण मलिजइवणो उ| तनुरेव तनुकः स्वरूपेण कृशः, अतीक्ष्णतुण्डोऽनत्यन्तभेदकमुखः, अत एवाशोणितोऽरूधिरप्राप्तः, केवलं नवरं, त्वम्लग्नः त्वड्मात्रावसक्तः, स एवंभूतः शल्यः / किमित्याहउद्धृत्याऽऽकृष्य देहाद्, अपोह्यते बहिः प्रक्षिप्यते, शल्यो देहप्रविष्टः कण्टकाऽऽदिः। शल्पशब्दः पुल्लिङ्गोऽपि प्राच्यानामस्ति / एवं तावच्छल्यविधिः। वणस्य तु को विधिरित्याहव्रणस्तुव्रणः पुनः,नमल्यतेन मृद्यते, शल्याल्पत्वेनतदूव्रणस्यायप्यल्पत्वाच्छल्योद्धारमात्रमेव तचिकित्सेति // 6 // तथालग्गुद्धियम्मि वीए, मलिज्जइ परं अदूरगे सल्ले / उद्धरणमलणपूरण-दूरयरगए य तइयम्मि / / 10 / / तथा लग्नश्चासावुद्धृतश्च लग्नोद्धृतस्तस्मिन् / द्वितीये, शल्य इति योगः। मल्यते मृद्यते, व्रण इतिगम्यते। परं केवलं नतु कर्णेमलपूरणाऽऽदि विधीयते व्रणस्थ अदूरगे शरीरानतिभेदके, शल्ये कण्टकाऽऽदौ। तथा उद्धरणमलनपूरणानि शल्योद्धारब्रणमर्दनकर्णमलपूरणानि, प्रथमाबहुवचनलोपोऽत्र दृश्यः। क्रियन्त इति गम्यते।दूरतरगते द्वितीयशल्यापेक्षया देहे दूरतरावगाढे, तृतीयके शल्य इति।।१०।। तथामा वेअणा उ तो उ-द्धरित्तु गालिंति सोणिय धउत्थे। रूभइ लहुं ति चेट्ठा, वारिजइ पंचमे वणिणो॥११।। तथा मा वेदना मा भूत्पीडा शल्यवतः। तुशब्दः पुनरर्थो, भिन्नक्रमश्च / (तो इति) तस्माद्वेदनानिवारणार्थित्वलक्षणोद्धेतोः, उद्धृत्य निःकृष्य शल्यं व्रणादगालयन्ति निःसारयन्ति, शोणितं रक्तं कियदपि। अनुस्वारस्य चाऽश्रवणं छन्दोवशात् / भिषज इति गम्यम्। चतुर्थे पुनः शल्ये। तथारूह्यते, व्रणेन रूढो भवत्यसावित्यर्थः / लघु शीघ्रं शल्योद्धारानन्तरंचेष्टानिरोधे सति, इति कृत्वा, चेष्टाऽध्वगमनाऽऽदिक्रिय,वार्यत निष्ध्यिते वैद्यैः / पञ्चमे शल्ये गाढतरावगाढे ब्रणिनो व्रणवत इति॥११॥ तथारोहेइ वणं छठे, हितमितभोजी अभुजमाणो या। तत्तियमेत्तं छिज्जति, सत्तमए पूइमसादी।।१२।। रोहित निराश्रवीकरोति व्रणीति, ब्रणं क्षतम् / क्व ?, तत् षष्ठे शल्ये उद्धृते। सति किंविधःसन्नित्याह-हितमितमोजी पथ्याल्पाऽऽहाराभ्यवहारी,अभुञ्जमानो वा भोजनत्यागी वा चिकित्स्यानुगुण्येन। तथा यावच्छल्पेन दूषितं तावन्मात्रंतावत्प्रमाणम्। छिद्यतेऽपनीयते. सप्तमके शल्ये उद्धृते। किमित्याहपूतिमांसाऽऽदि दुष्टणिशितमेदःप्रभृतीति॥१२।। तह वि य अठायमाणे, गोणसखइयादि रप्पुए वा वि। कीरति तदंगछेदो,सअद्वितोसेसरक्खट्ठा / / 13 / / तथाऽपि चैवमपिच विधीयमाने कर्मणि, अतिष्ठति विसर्पति, गोनसखा-1 दिताऽऽदौ सरीसृपभक्षितप्रभृतौ, आदिशब्दाद्गोधेरकखादिताऽऽदिपरिग्रहः। रप्पुके वाऽपिवल्मीकरोगे, वाऽपीति समुच्चये। क्रियते विधीयते तदङ्ग च्छोदो दूषिताऽवयवकर्तन, सहास्थ्ना वर्तत इति सास्थिकः / शेषरक्षार्थमदूषिताङ्गत्राणायेति, सप्तम एव शल्ये। इतिगाथाषट्कार्थः // 13 // एवं तावद् द्रव्वशल्योद्धारद्वारेण द्रव्यव्रणचिकित्सोक्ता, अथ भावग्रणेन तथैव प्रतिपादयिषुभविव्रणप्ररूपणायाऽऽहमूलुत्तरगुणरूव-स्स ताइणो परमचरणपुरिसस्स। अवराहसल्लपभवो, भाववणो होइणायव्वो१४|| मूलोत्तरगुणा महाव्रतपिण्डविशुद्ध्यादयस्तएव रूपमात्मायस्य स तथा तस्य / तायिनः संसारसागरात्प्राणिपूगपालकस्य, परमचरणपुरूषस्य प्रधानचरित्रलक्षणनरस्य, अपराधशल्यप्रभवः पृथ्वीसंघऽऽद्यतिचाररूपशल्यनिमित्तः, भावव्रणो भावक्षतरूपो, भवति स्यात्, ज्ञातव्यो ज्ञेयः / इति गाथार्थः // 14 // भावव्रणचिकित्साप्रस्तावनायाऽऽहएसो एवंरूवो, सचिगिच्छो एत्थ होइ विण्णेओ। सम्भं भावाणुगतो, णिउणाए जोगिबुद्धीए।।१५।। एष भावव्रणः, एवंरूप उक्तस्वभावः, सचिकित्सो वक्ष्प्रमाणप्रतिक्रियोपेतः, अत्र प्रायश्चित्ताधिकारे, भवति स्याद्, विज्ञयो ज्ञातव्यः, सम्यगविपरीततया भावानुगत ऐदम्पर्यसंगतः, निपुणया सूक्ष्मया, योगिबुद्ध्या समाधिविशेषवन्नरावबोधेन, योगिन एवाध्यात्मिकार्थविवेचनचतुरचेतसो भवन्ति। इति गाथार्थः / / 15|| . अथ भावव्रणचिकित्सां गाथात्रयेण दर्शयन्नाह - भिक्खायरियादि सुज्झति, अतियारो कोइ वियडणाए उ। वितिओ उ असमितो मि,त्ति कीस सहसा अगुत्तोवा ? ||16|| भिक्षाचर्याऽऽदिः भिक्षाऽटनप्रभृतिः, तत्र गमनाऽऽगमनयोर्योsतिचारःस भिक्षाटनाऽऽदिरेव / आदिशब्दाद्विहारभूमिगमनाऽऽदिभवातिचारपरिग्रहः / शुझ्यत्यपैति, अतिचारोऽतिक्रमः, कोऽपि कश्चिदत्यन्तमल्पः,प्रथमशल्यतुल्यः विकटनया त्वालोचनयैव प्रथम शल्योद्धरणमात्रकल्पनया, न तत्र मलनाऽऽदिचिकित्साकल्पं प्रायश्चि. तान्तरमुपयोगीति। तथा द्वितीयस्तु द्वितीयः पुनरतिचारः समित्यादिभङ्ग रूपः, शुद्ध्यतीति प्रकृतम्। कथम्? असमितः समितिषु प्रमत्तः, अस्मि भवाम्यहम् / इतिशब्दोऽन्यत्र योक्षयते / कस्मात् कुतो हेतोः? सहसा प्रयोजनमन्तरेण, अगुप्तो वा गुप्तिप्रमत्तो वा, न किश्चिदप्यसमितत्वेऽमुप्तत्वे वा पुष्टाऽऽलम्पनमस्ति इत्येवंविधापश्चात्तापरूपविकल्पन मिथ्यादुष्कृतदानरूपा प्रतिकमणचिकित्सेत्यर्थः / इयं च द्वितीयशल्योद्धारे व्रणमलनकल्पे इति / / 16 / / / सद्दादिएसु राग, दोसं व मणे गओ तइयगम्मि। णाउं अणेसणिज्ज,भत्तादि विगिवण चउत्ये / / 17 / / शब्दाऽऽदिकेषु शब्दरूपप्रभृतिष्विष्टानिष्टविषयेषु, रागमभिष्य, द्वेषमप्रीतिम्, वाशब्दो विकल्पार्थः / मनसि चेतसि, मनोमात्रेणेत्यर्थः। गतः प्रतिपन्नः, मुनिरिति गम्यते / तृतीयके देविकित्साविष्ण व्रणमलनपूरणकल्पे मिश्राऽऽख्ये सति शुद्ध्यतीति प्रकृतम्। तदुमयाई हि मनोगतरागाऽऽदिशल्यमिति / तथा ज्ञात्वाऽववुध्य, अनेषणीयमकप्यम्, भक्ताऽऽद्यशनप्रभृति चतुर्थद्रव्यशल्पकल्पम् / (विगिंचप