________________ पच्छासंथुय 126 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त - पुट्विं पच्छा संथुता इमे चिंत्यतेसामन्ने जे पुटिव, दिट्ठा भट्ठा व परिजिता दा वि। ते हुति पुव्वसंथुय, जे पच्छा एतरा हुंति / / 283 / / सामाणे प्रतिपत्तिकालात्पूर्व, पश्चाद्वा / अहवा-सामण्णकाल चेव विजिति। नि०चू०२ उ०। पच्छित्त न० (पापच्छिद) पापं छिनत्तीति पापच्छित् / जीत०। प्रायश्चित्त न० अथवा प्रायश्चित्तं जीव मनो वाऽतिचारमलमलिनितं शाधयतीति प्रायश्चित्तम् / जीत०। नं०। पा०। "पायः पापं विजानीया-चित्तं तस्य विशोधनम्" इत्युक्तेः / अथवाप्रकर्षण अयते गच्छत्यस्मादाचारधर्म इति प्रायो मुनिलोकः, तेन चिन्त्यते स्मर्यनऽतिचारविशुद्ध्यर्थमिति निरूक्तात्प्रायश्चित्तम् / शोधिरूपेऽनुष्ठानविशेषे, ध०२ अधि०1 पञ्चा०। (१)अय प्रायश्चित्तनिरूक्ताभिधानायाऽऽहपाव छिंदति जम्हा, पायच्छित्तं ति भण्णई तेणं। पारण वा वि चित्तं, सोहयती तेण पच्छित्तं / / 3 / / पापमशुभ, छिनत्ति कृन्तति, यस्माद्वेतोः पापच्छिदिति वक्तव्ये प्राकृतत्वेन 'पायच्छित्तमिति,' भण्यते निगद्यते, तेन तस्माद्धेतोः, प्रायेण बाहुण्येन, वाऽपीत्यथवा, चित्तं मनः, शोधयति निर्मलयति. तेन हेतुना प्रायश्चित्तमित्युच्यते / इति गाथार्थः / पञ्चा० 16 विव०। (2) इदाणि पायच्छित्ते अहिकारी ति छटुं दारं, चपछित्तं एवं भवतिआयारे चउसु य चू-लियासु उवएसवितधकारिस्स। पच्छित्तमिहऽज्झयणे, भणियं अण्णेसु य पदेसु // 71 / / आयारो णवबंभचेरमाईओ चउसु य आइल्लचूनासु पिंडेसणातिविमोक्खावसाणासु (2) एआसु जो उवदेसो उवदिस्सइ ति। उवदेसो क्रियेत इत्यर्थः / सो य पडिलेहणापप्फोडणाति, ते वितह विवरीय, करेंतस्स, आयरतस्सेत्यर्थः / पाव छिंदतीति पच्छित्तं, इह पकप्पज्झयणे, वुत्तं निर्दिष्टमित्यर्थः / किं इह अज्झयणे केवलं पच्छित्तं हवइ ? नेत्युच्यते, अण्णेसु य पदेसु अन्नपयाणि कप्पववहारईणि, तेसु वि वुत्तं। अहवावितहकारि त्ति अणायारो महिओ। किं अणायार एव केवलं पच्छित्त हवइ? नेत्युच्यते- अण्णेसु य पएसु अश्वमो वश्वमो अइयारो, एएसु वि पच्छित्त वुतं / अहवा-किमायार एव संचुते वितहकारिस्स केवलं पच्छित्तं बुत्तं ? नेत्युच्यते- अन्नेसु य पदेसु, अण्ण पदा सूयकडादओ पया, तेसु वि वितहकारिस्स पच्छित्तं वुत्तं / चः पूरणे / नि० चू० 1 उ० / दुःखप्राऽऽदिप्रतिघातकेऽनुष्ठाने,"कयकोउयमंगलपायच्छित्ता।" सूत्र० २श्रु०२०। (3) अथेदं प्रायश्चित्तं भावतः कस्य भवतीत्याहभध्वस्साऽऽगारूइणो, संवेगपरस्स वणियं एयं / उवउत्तस्स जहत्थं, सेसस्स उदव्वतो णवरं / / 4 / / भव्यस्य मुक्तिगमनोचितस्य, तस्याऽप्याज्ञारूचेरागमबहुमानिनः सभ्यग्दृष्टः, न जातिभव्यस्य / तस्याऽपि संवेगपरस्य संविग्रस्य, चारित्रिण इत्यर्थः / वर्णितमुक्तमागमे, एतत्त्रायश्चित्तम, तस्याऽप्युपयुक्तस्य सर्वापराधस्थानेषु दत्तावधानस्य, यथार्थमन्वर्थयुक्तम्, शुद्धिकारक मित्यर्थः / उक्तव्यतिरिक्तस्य का वार्ते त्याहशेषस्य तूक्तादन्यस्य पुनर्भवति नवर केवलं द्रव्यतो भावशून्यत्वेनाप्रधानतया अयथार्थमित्यर्थः / इति गाथार्थः ||4|| एतदेव भावयन्नाहसत्थत्थवाहणाओ, पायमिणं तेण चेव कीरंत। एयं चि संजायति, वियाणियव्वं वुहजणेण // 5 // शास्त्रार्थबाधनादागमार्थविराधनात् प्राणातिपाताऽऽदिरूपात्, प्रायो बाहुल्येन, प्रायोग्रहण च हिंसाऽऽदावप्यप्रमत्तस्य "उच्चालियम्मि पाए'' इत्यादिन्यायेन न प्रायश्चित्तमिति ज्ञापनार्थम् / इदमिति प्रायश्चितं, भवतीति गम्यते। इह च प्रायश्चित्तशब्देन तद्विशोध्यमुपचारात्पापं गृह्यते। ततः किमित्याह- तेनैव शास्त्रार्थबाधनेनैव, क्रियमाणं विंधीयमानम्, विशुद्धिरूप प्रायश्चित्तम्, एतदेव प्रायश्चित्तमेव, पापमेवेत्यर्थः / संजायते संपद्यते, शास्त्रनिषिद्धानुष्ठानवत्। विज्ञातव्यं ज्ञेयम् बुधजनेन समयज्ञलोकेन। समयानभिज्ञजनो हि यथा कथंचिदपि क्रियमाणं तत्साध्वेव मन्यते, बुद्धिदोषादिति। अथवा शास्त्रार्थबाधनात्प्राय इदं द्रव्यप्रायश्चित्तं भवति, प्रायोग्रहणादन्यथाऽपि योग्यताविवक्षायां स्यादिति। ततश्च तेनैव शास्त्रार्थबाधनेनैव, क्रियमाणं प्रायश्चित्तम्, इदमेव द्रव्यप्रायश्चित्तमेव, संजायते। शेषं तथैव। इति गाथार्थः // 5 // एतदेव स्पष्टयन्नाहदोसस्स जं णिमित्तं, होति तगो तस्स सेवणाए / ण उ तक्खउ त्ति पयह, लोगम्मि विहंदि एयं ति॥६।। दोषस्यापराधस्य, यद्वस्तु शास्त्राऽर्थबाधनमिति / हृदयम् निमित्त कारण, भवति जायते, तकोऽसौ दोषः, तस्य निमित्तस्य शास्त्रार्थबाधनरूपस्य, सेवनया तु आश्रयणेनैव, नान्यथा, न तु न पुनः। तन्क्षयो दोषक्षयः, इत्येतद्वस्तु, प्रकटं प्रसिद्ध रोगाद्युदाऽऽहरणैः, लोकेऽपि पृथग्जनेऽपि, आस्तां लोकोत्तरजने / हन्दीत्युपप्रदर्शन। एतद्दोंषोत्पाददोषाक्षयलक्षणद्वयम्, इतिशब्दः समाप्तौ / इति गाथाऽर्थः / / 6 / / एतच्च प्रायश्चित्तं व्रणचिकित्सातुल्यं पूर्वसूरिभि रभिहितमित्येतदर्शनाय प्रस्तायन्नाहदव्ववणाऽऽहरणेणं, जोजितमेतं विदूहि समयम्मि। भाववणतिगिच्छाए, सम्मति जतो इमं भणितं / / 7 / / द्रव्यव्रणोदाहरणेन वक्ष्यमाणक्षतज्ञातेन करणेन, योजितमुपनीतम्, एतत्प्रायश्चित्तम्, विद्वद्भिर्बुधैः, समये कायोत्सर्गनियुक्तिलक्षणे सिद्धान्ते। क्कयोजितमित्याह-भावव्रणचिकित्सायां चरणातिचाररूपक्षतप्रतिक्रियायां, सम्यग यथावत्। इतिशब्दः समाप्तौ। यतो यस्मादिदं वक्ष्यमाणं, भणितमुक्तं श्रीभद्रबाहुस्वा-मिर्भिः। इति गाथार्थः // 7 // यदुक्तं तदेव गाथाषट्केनाऽऽहदुविहो कायम्मि वणो, तदुटभवाऽऽणतुगो य णायव्वो। आगंतुगस्स कीरति, सल्लुद्धरणं ण इयरस्स / / 8 / / द्विविधो द्विप्रकारः, काये देहे, व्रणःक्षतम्। द्वैविध्यमेवाऽऽहतस्मिन् काये भवतीति-तद्भवो गण्डाऽऽदिः, आगन्तुकश्च कण्टकाऽऽदिकृतः, ज्ञातव्यो ज्ञेयः, तत्राऽऽगन्तुकस्य कण्टकाऽऽदिजन्यस्य, क्रियते विधीयते, शल्योद्धरणं कण्टकाऽऽद्युद्वारः, नेतरस्य न कायसंभवस्य, आगन्तुकशल्याभावादिति / / 8 / /