________________ भासा 1526 - अभिधानराजेन्द्रः - भाग 5 भासा यदुतावधारिणी भाषेति, अतीवेदं साध्वनवद्यमित्यभिप्रायः, तथा तथा अविकलं परिपूर्ण मन्यस्व इत्येवं यदुतावधारणी भाषेति यथा पूर्व मतवान् / किमुक्तं भवति? यथा त्वया पूर्व मननं कृतमिदानीमपि मत्संमतत्वात् सर्व तथैव मन्यस्व मा मनागपि शङ्का कार्षीरिति; तथा तथा अविकलं परिपूर्ण चिन्तय इति एवं यदुतावधारिणी भाषेति, यथा पूर्व चिन्तितवान्, मा मनागपि शनिष्ठा, इति, तदेवं भाषा अवधारिणीति निर्णीतम्। इदानीमियमवधारिणी भाषा सत्या उत मृषेत्यादिनिर्णयार्थ पृच्छतिओहारिणी णं भंते ! भासा किं सचा मोसा सच्चा मोसा असच्चामोसा ? गोयमा ! सिय सच्चा, सिय मोसा, सिय सच्चामोसा, सिय असच्चामोसा। से केण?णं भंते ! एवं वुच्चइओहारिणी णं भासा सिय सच्चा, सिय मोसा, सिय सच्चामोसा, सिय असच्चा-मोसा? गोयमा ! आराहिणी सच्चा विराहिणी मोसा आराहणविराहिणी सच्चामोसा जा णेव आराहणी णेव विराहिणी सच्चामोसा जा णेव आराहणी णेव विराहिणी णेवाऽऽराहाणविराहिणीसा असच्चामोसा नामंसा चउत्थी भासा, से तेणद्वेणं गोयमा ! एवं वुच्चइ- ओहारिणी णं भासा सिय सच्चा, सिय मोसा, सिय सच्चामोसा, सिय असचा-मोसा / (सूत्रम्-१६१) 'ओहारिणी णं भंते!' इत्यादि, अवधारिणी अवबोधबीजभूता, णमिति प्राग्वत्, भदन्त ! भाषा किं सत्या, मृषा, सत्यामृषा, असत्यामृषा ? इति / तत्र सन्तो मुनयस्तेषामेव भगवदाज्ञासम्यगाराधकतया परमशिष्टत्वात् सद्भ्यो हिताइहपरलोकाऽऽराधकत्वेन मुक्तिप्रापिका सत्या, युगाऽऽदिपाठाभ्युपगमात् यः प्रत्ययः, यद्वा-यो यस्मै हितः स तत्र साधुरिति सत्सु साध्वी सत्या। 'तत्र साधौ' / 7 / 1 / 15 / इति यः प्रत्ययः, यदिवा-सन्तो मूलोत्तरगुणास्तेषामेव जगति मुक्तिपदप्रापकतया परमशोभनत्वात्, अथवा सन्तो विद्यमानास्तेच भगवदुपदिष्टा एवजीवाऽऽदयः पदार्थाः, अन्येषां कल्पनामात्ररचितसत्ताकतया तत्त्वतोऽसत्त्वात् तेभ्यो हिता तेषु साध्वी वा यथावस्थितवस्तुतत्त्वप्ररूपणेन सत्या, विपरीतस्वरूपा मृषा, उभयस्वभावा सत्यामृषा, या पुनस्तिसृष्वपि भाषास्वनधिकृतातल्लक्षणायोगतस्तत्रानन्तर्भाविनी सा आमन्त्रणाऽऽज्ञापनाऽऽदिविषया असत्यामृषा। उक्तं च- "सचा हिया सयामिह, संतो मुणयो गुणा पयत्था वा / तद्विवरीया मोसा, मीसा जा तदुभयसहावा // 1 // अणहिगया जा तीसु वि, सद्दो च्चिय केवलो असच्चमुसा ॥"इति / भगवानाह- ‘गौतम ! सिय सच्चा' इत्यादि, स्यात् सत्या सत्याऽपि भगवतीत्यर्थः, एवं स्यादसत्या स्यात्सत्यामृषा स्यादसत्यामृषेति। अत्रैवार्थे प्रश्रमाह- 'से केण-तुणं भते!' इत्यादि, सुगमम्। भगवानाह- | गौतम ! आराधनी सत्या, इह विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठापनबुद्ध्या या सर्वज्ञमतानुसारेण भाष्यते अस्त्यात्मा सदसन्नित्यानित्याऽऽद्यनेकधर्मकलापाऽऽलिङ्गित इत्यादि सा यथावस्थितवस्त्वभिधायिनी आराध्यते मोक्षमार्गोऽनयेत्याराधिनी, आराधिनीत्वात् सत्येति, विराधिनी मृषेति, विराध्यते मुक्तिमार्गोऽनयेति विराधिनी, विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठाऽऽशया सर्वज्ञमतप्रातिकूल्येन या भाष्यते यथा नास्त्यात्मा एकान्तनित्यो वेत्यादि तथा सत्याऽपि परपीडोत्पादिका सा विपरीतवस्त्वभिधानात् परपीडाहेतुत्वाद्वा मुक्तिविराधानाद्विराधिनी विराधिनीत्वाच्च मृषेति, या तु किञ्चन नगरं पत्तनं वाऽधिकृत्य पञ्चसु दारकेषु जातेष्वेवमभिधीयते, यथाऽस्मिन् अद्य दश दारका जाता इति सा परिस्थूरव्यवहारनयमतेन आराधनाविराधिनी, इयं हि पञ्चानां दारकाणा यजन्म तावताऽशेन संवादनसम्भवादाराधिनी, दश न पूर्यन्ते इत्येतावताऽशेन विसंवादसम्भवात् विराधिनी, आराधिनी चासौ विराधिनी च आराधनविराधिनी, कर्मधारयत्वात् पुम्वद्भावः, आराधनविराधिनीत्वाच्च सत्यामृषा, या तु नैवाऽऽराधनी तल्लक्षणविगमात् नापि विराधिनी विपरीतवस्त्वभिधानाभावात् परपीडाहेतुत्वाभावाच्च नाप्याराधनविराधिनी एकदेशसंवादविसंवादाभावात्, हे साधो ! प्रतिक्रमण कुरु स्थण्डिलानि प्रत्युपेक्षस्वेत्यादिव्यवहारपतिता आमत्रिण्यादिभेदभिन्ना सा असत्यामृषा नाम चतुर्थी भाषा, 'से एएणडेण' इत्याद्युपसंहारवाक्यम्॥ इह यथावस्थितवस्तुतत्त्वाभिधायिनी भाषा आराधिनीत्वात् सत्येत्युक्त, ततः संशयाऽऽपन्नस्तदपनोदाय पृच्छतिअह भंते ! गाओ मिया पसू पक्खी पण्णवणी णं एसा भासा ण एसा भासा मोसा? हंता गोयमा! जाय गाओ मिया पसू पक्खी पण्णवणी णं एसा भासा, [पण्णवणी ] ण एसा भासा मोसा / अह भंते ! जा य इत्थीवऊ जा य पुरिसवऊ जा य णपुंसगवऊ पण्णवणी णं एसाभासा ण एसा भासामोसा ! हंता गोयमा! जाय इत्थीवऊ जा य पुमवऊ जा य नपुंसगवऊ पण्णवणी णं एसा भासान एसा भासा मोसा। अह भंते ! जाय इत्थीआणमणी जा य पुमआणमणी जाय नपुंसगआणमणी पण्णवणी णं एसा भासा ण एसा भासा मोसा? हंता गोयमा ! जाय इत्थीआणवणी जाय पुमआणवणी जा य नपुंसगआ-णवणी पण्णवणी णं एसा भासा न एसा भासामोसा। अह भंते!जाय इत्थिपण्णवणी जायपुमपण्णवणी जाय नपुंसगपण्णवणी पण्णवणीणं एसा भासा ण एसा भासामोसा? हंता गोयमा ! जा य इत्थिपण्णवणी जा य पुमपण्णवणी जा य नपुंसगपण्णवणी, पण्णवणी णं एसा भासा ण एसा भासा मोसा। अह मंते ! जा जायीति इत्थिवऊ जातीइ पुमवऊ जातीति णपुंसगवऊ पण्णवणी णं एसा भासा ण एसा भासा मोसा? हंता! गोयमा ! जातीति इत्थिवऊ जाईति पुमवऊ जातीतिणपुंसगवऊ