________________ भासा 1523 - अभिधानराजेन्द्रः - भाग 5 भासा वाक्यं वचनं च गीः सरस्वती भारती च गौर्वाक् भाषा प्रज्ञापनी देशनी च वागयोगो योगश्च, एतानि निगदसिद्धान्येवेति गाथार्थः / दश०७ अ०२ उ०। संस्कृतप्राकृताऽऽदिके वाक्ये, उत्त०७ अ० "न चित्ता तायए भासा।" चित्राः प्राकृतसंस्कृताऽऽद्याः षट्भाषाः। अथवा- अन्या अपि देशविशेषात् नानारूपा भाषा इति / उत्त०६ अ०) वक्रशब्दतयोत्सृज्यमानायां द्रव्यसंततौ, नं० विशे० भाषानिक्षेपो वाक्यनिक्षेपवत्। आचाराङ्ग निर्युक्तौ 'जह चक तह भासा। (313)" यथा वाक्यशुद्ध्यध्ययने वाक्यस्य निक्षेपःकृत स्तथा भाषाया अपि कर्तव्यः। आचा०२ श्रु०१ चू०४ अ०१उ० (2) द्रव्याऽऽदिभाषामाहदवे तिविहा गहणे, य निसिरणे तह भवे पराघाए। भावे दव्वे य सुए, चरित्तमाराहणी चेव।।२७१।। द्रव्य इति द्वारपरामर्शः, द्रव्यभाषा त्रिविधा-ग्रहणे च निसर्गे तथा भवेत् पराघाते / तत्र ग्रहणं भाषाद्रव्याणां काययोगेन यत् सा ग्रहणद्रव्यभाषा, निसर्गस्तेषामेव भाषाद्रव्याणां वाग्योगेनोत्सर्गक्रिया, पराघातस्तु निसृष्टभाषाद्रव्यैस्तदन्येषां तथापरिणामाऽऽपादनक्रियावत्प्रेरणम्, एषा त्रिप्रकाराऽपि क्रिया द्रव्ययोगस्य प्राधान्येन विवक्षितत्वात् द्रव्यभाषेति। भाव इति द्वारपरामर्शः, भावभाषा त्रिविधैव, द्रव्ये च श्रुते चारित्र इति, द्रव्यभावभाषा, श्रुत-भावभाषा, चारित्रभावभाषा च, तत्र द्रव्यं प्रतीत्योपयुक्तैर्या भाष्यते सा द्रव्यभावभाषा। एवं श्रुताऽऽदिष्वपि वाच्यम्, इय त्रिप्रकाराऽपि वक्त्रभिप्रायत्तद्रव्यभावप्राधान्यापेक्षया भावभाषा, इयं चौधत एवाऽऽराधनी चैवेति, द्रव्याऽऽद्याराधनात्, चशब्दाद्विराधना चौभयं चानुभयं च भवति, द्रव्याऽऽद्याराधनाऽऽदिभ्य इति। आह- इह द्रव्यभाववाक्यस्वरूपमभिधातव्यं, तस्य प्रस्तुतत्वात, तत् किमनया भाषयेति? उच्यते- वाक्यपर्यायत्वाद्भाषाया नदोषः, तत्त्वतस्तस्यैवाभिधानादिति गाथासमुदायार्थः। अवयवार्थ तु वक्ष्यति। (3) तत्र द्रव्यभावभाषामधिकृत्याऽऽराधन्यादिभेदयो जनामाहआराहणी उदव्वे, सच्चा मोसा विराहणी होइ। सचामोसा मीसा, असचमोसाय पडिसेहा // 272 / / आराध्यते परलोकाऽऽपीडया यथावदभिधीयते वस्त्वनयेत्याराधनी तु 'द्रव्य' इति-द्रव्यविषया भावभाषा सत्या, तुशब्दात् द्रव्यतो विराधन्यपि काचित् सत्या, परपीडासंरक्षणफलभावाऽऽराधनादिति, मृषा विराधनी भवति, तद्रव्यान्यथाऽभिधानेन तद्विराधनादिति भावः / सत्यामृषा मिश्रा, मिश्रेत्याराधनी विराधनी च, असत्यामृषा च प्रतिषेध इति न आराधनी नापि विराधनी, तद्वाच्यद्रव्ये तथोभयाभावादिति / आसां च स्वरूपमुदाहरणैः स्पष्टीभविष्यतीति गाथाऽर्थः / तत्र सत्यामाहजणवयसम्मयठवणा, नामे रूवे पडुच सच्चे अ। ववहारभावजोगे, दसमे ओवम्मसचे य // 273 / / सत्यं तावद्वाक्यं दशप्रकारं भवति, जनपदसत्याऽऽदिभेदात्, तत्र | जनपदसत्यं नाम नानादेशभाषारूपमप्यविप्रतिपत्त्या यदेकार्थप्रत्यायनव्यवहारसमर्थमिति, यथोदकार्थे कोङ्कणकाऽऽदिषु पयः पिचं नीरमुदकमित्याद्यदुष्टविवक्षाहेतुत्वात् नानाजनपदेष्विष्टार्थप्रतिपत्तिजनकत्वात् व्यवहारप्रवृत्तेः सत्यामेतदिति, एवं शेषेष्वपि भावना कार्या। सम्मतसत्यं नाम कुमुदकुवलयोत्पलतामरसानां समाने पङ्कसंभवे गोपाऽऽदीनामपि सम्मतमरविन्दमेव पङ्कजमिति। स्थापनासत्यं नामअक्षरमुद्राविन्यासाऽऽदिषु यथा मासकोऽयं कार्षापणोऽयं शतमिदंसहस्रमिदमिति, नामसत्य नामकुलमवर्द्धयन्नपि कुलवर्द्धन इत्युच्यते, धनमव.. “यन्नपि धनवर्द्धन इत्युच्यते, अयक्षश्च यक्ष इति / रूपसत्यं नामश्रतद्गुणस्य तथा-रुपधारणं रूपसत्यं, यथा प्रपञ्चयतेः प्रव्रजितरूपधारणमिति प्रतीत्यसत्यं नाम-यथा अनामिकाया दीर्घत्वंहस्वत्वं चेति। तथाहि- अस्यानन्तपरिणामस्य द्रव्यस्य तत्तत्सहकारिकारणसन्निधानेन तत्तद्रपमभिव्यज्यत इति सत्यता / व्यवहारसत्यं नामदह्यते गिरिगलति भाजनमनुदरा कन्या अलोमा एडकेति गिरिगततृणाऽऽदिदाहे व्यवहारः प्रवर्तते तथोदके च गलति सति तथा सम्भोगजवीजप्रभवोदराभावेच सति तथा लवनयोग्यलोमाभावेसति। भावसत्यं नामशुक्ला बलाका, सत्यपि पञ्चवर्णसम्भवे शुक्लवर्णोत्कटत्वात्। शुक्ला इति। योगसत्यं नाम- छत्रयोगात् छत्री,दण्डयोगात् दण्डी इत्येवमादि। दशममौपम्यसत्यं च, तत्रौपम्यसत्यं नाम-समुद्रवत्तडाग इति गाथाऽर्थः / उक्ता सत्या। अधुना मृषामाहकोहे माणे माया, लोभे पेजे तहेव दोसे य / हासभए अक्खाइय, उवघाए निस्सिया दसमा / / 274|| क्रोध इति क्रोधानिः सृता, यथा क्रोधाभिभूतः पिता पुत्रमहा- न त्वं ममपुत्रः यद्वा क्रोधाभिभूतो वक्तितदाशयविपत्तितः सर्वमेवासत्यमिति। एवं माननिः सृता मानाध्मातः क्वचित्केनचिदल्पधनोऽपि पृष्ट आहमहाधनोऽहमिति।मायानिःसृतामायाऽऽकारप्रभृतय आहुः- नष्टो गोलक इति, लोभनिः सृता-वणिक-प्रभृतीनामन्यथाक्रीतमेवत्थमिदं क्रीतम इत्यादि / प्रेमनिः सृता अतिरक्तानां दासोऽहं तवेत्यादि। द्वेषनिः सृतामत्सरिणां गुणवत्यपि निर्गुणोऽयमित्यादि। हास्यनिः सृता कान्दर्पिकानां किञ्चित् कस्यचित्संबन्धि गृहीत्वा पृष्टानां न दृष्टमित्यादि। भयनिः सृता तस्कराऽऽदिगृहीताना तथा तथा असमञ्जसाभिधानम्, आख्यायिकानिःसृता तत्प्रतिबद्धोऽसत्प्रलापः / उपधातनिः सृता अचौरे चौर इत्यभ्याख्यानवचनमिति गाथार्थः / उक्ता मृषा। साम्प्रतं सत्यामृषामाहउप्पन्नविगयमीसग, जीवमजीवे यजीवअज्जीवे। तहऽणंतमीसगा खलु, परित्त अद्धाय अद्धद्धा / / 275 / / उत्पन्न विगतमिश्रकेति-उत्पन्नविषया सत्यामृषा यथैकं नगरमधिकृत्यास्मिन्नद्य दशदारका उत्पन्ना इत्यभिदधतस्तद्न्यूनाधिकभावे, व्यवहारतोऽस्याः सत्यामृषात्वात्, श्वस्तेशतं दास्यामीत्यभिधा पञ्चाशत्स्वपि दत्तेषु लोके मृषात्वादर्शनात्, अनुत्पन्नेष्वेवादत्तेष्वेवच मृषात्वसिद्धेः, सर्वथा क्रियाभावेन सर्वथा व्यत्ययादित्येवं विगताऽऽदिष्वपि भावनीयमिति /