________________ भावसुद्धि 1516 - अभिधानराजेन्द्रः - भाग 5 भावसुद्धि तं खलु पञ्चक्खाणं, भावविसुद्धं मुणेअव्वं / / 1 / / आव०६ अग 'पच्चक्खाण' शब्देऽस्मिन्नेव भागे 101 पृष्ठे गता व्याख्या) 'भावसुद्धि स्वी०(भावशुद्धि) भावस्तदावरणक्षयोपशमसमुत्थ आत्मपरि णामविशेषस्तस्य शुद्धिः स्वच्छता प्रकर्षा, भावशुद्धिः। ध०३ अधि०। चित्तप्रसादे, आव०४ अ० सूत्र०। पञ्चा०ा यमनियमाऽऽदिषु मनसोऽसंक्लिश्यमानतायाम, द्वा०६द्वा० अथ विरुद्धदानाऽऽदावपि भावशुद्धधर्म एव, न तु तद्व्या घात इत्यत आहभावशुद्धिरपि ज्ञेया, यैषा मार्गानुसारिणी। प्रज्ञापनाप्रियाऽत्यर्थ, न पुनःस्वाऽऽग्रहाऽऽत्मिका।१। भावशुद्धिर्मनसोऽसंक्लिश्यमानता या परैर्विरुद्धदानाऽऽदौ धर्मव्याघातपरिहारनिबन्धनतया कल्पिता, साऽपि न केवलं धर्मव्याप्तात एव ज्ञेयम्, इत्यपिशब्दार्थः / ज्ञेया ज्ञातव्या, या एषा वक्ष्यमाणस्यरूपा नान्या। तामेवाऽऽह- मार्ग जिनोक्तं ज्ञानाऽऽदिक मोक्षपथमनुसरत्यनुगच्छतीत्येवंशीला मार्गानुसारिणी। अथ परो ब्रूयात् सैषा ममेत्यत्राऽऽह प्रज्ञापना आगमार्थोपदेशनं सा प्रिया वल्लभा यस्यां भावशुद्धौ सा प्रज्ञापनाप्रिया, अत्यर्थमतिशयेन / उक्तन्यैवार्थस्य व्यतिरेकमाह न नैव, पुनःशब्दः पूर्वोक्तार्थापेक्षया प्रकृतार्थविलक्षणताप्रतिपादनार्थः, स्वः स्वकीयो न तुशास्त्रीयः, स चासावाग्रहश्वार्थाभिनिवेशः स्वाऽऽग्रह एवाऽऽत्मा स्वभावो यस्याः सा स्वाऽऽग्रहाऽऽत्मिकेति // 1 // अथ कस्मात् स्वाऽऽग्रहाऽऽत्मिकाऽपि भावशुद्धिर्न भवतीति? अत्रोच्यते-भावशुद्धिविपर्ययभूतभावमालिन्यरूप___ त्वात्स्वाग्रहस्येत्येतत्श्लोकत्रयेण दर्शयन्नाहरागो द्वेषश्च मोहश्च, भावमालिन्यहेतवः। एतदुत्कर्षतो ज्ञेयो, हन्तोत्कर्षोऽस्य तत्त्वतः / / 2 / / रागोऽभिष्वंग लक्षणो, द्वेषोऽप्रीतिरूपो, मोहश्चाज्ञानलक्षणः, चशब्दौ समुचयार्थी, ते त्रयोऽपि भावमालिन्यहेतवः, आत्मप-रिणामाशुद्धिनिबन्धनानिस्वाऽऽग्रहाऽऽदिभावकारणानीतिगर्भः। एतेषां रागाऽऽदीनामुत्कर्ष उपश्चय एतदुत्कर्षः, तत एतदुत्कर्षतो, ज्ञेयो ज्ञातव्यो, हन्तेति प्रत्ययधारणार्थः, कोमलाऽऽमन्त्रणार्थो वा, उत्कर्ष उपचयः, अस्य भावमालिन्यस्य स्वाऽऽग्रहाऽऽदिरूपस्य, तत्त्वतः परमार्थवृत्त्येति / / 2 / / ततः किमित्याहतथोत्कृष्ट च सत्यस्मिन, शुद्धिर्व शब्दमात्रकम् / स्वबुद्धिकल्पनाशिल्पनिमितं नार्थवद्भवेत्॥३॥ तथा तेन प्रकारेण रागाऽऽद्युत्कर्षलक्षणेन उत्कृष्ट उत्कटे, चशब्दः पुनरर्थः, सति भवति, अस्मिन् रागाऽऽदिहेतुके स्वाऽऽग्रहाऽऽदिरूपे भावमालिन्ये, शुद्धिः शुद्धत्वं, भावस्येति गम्यते। वैशब्दो वाक्यालङ्कारार्थः / शब्द एवाभिधानमेव शब्दमात्र, तदेव कुत्सितं शब्दमात्रक, निरभिधेयमित्यर्थः / मालिन्योत्कर्षे सति नास्ति भावशुद्धिर्मालिन्यस्य, तद्विरुद्धरूपत्वादग्निसद्भावे शीतवदिति भावना। अथ मालिन्ये सत्यपि शुद्धिरिष्यते, ततः कथं शव्दमात्रत्वमस्य इत्यत्राऽऽह स्वबुद्धया प्रमाणा- 1 परतन्त्रया मत्या कल्पना क्लिप्तिः, सैव शिल्पं चित्राऽऽदिकौशलं, तेन निम्मितं विरचितं, स्वबुद्धिकल्पनाशिल्पनिर्मितं यच्छब्दरूपं तदिति गम्यं, न नैव, अर्थवत्साभिधेयं, भवेज्जायेतेति // 3 // अथ स्वाऽग्रहस्य भावमालिन्यरूपता स्पष्टयन्नाहन मोहोद्रिक्तताऽभावे, स्वाऽऽग्रहो जायते क्वचित्। गुणवतपारतन्त्रयं हि, तदनुत्कर्षसाधनम् ||4|| न नैव मोहस्याज्ञानस्य, उपलक्षणत्वात् रागद्वेषयोश्चोद्रिक्तता उद्रेकस्तस्या अभावः अविद्यमानता मोहोद्रिक्तता भावस्तत्र मोहोद्रिक्तताभावे, स्वाऽऽग्रहो नाऽऽगमिकार्थाभिनिवेशो भावशुद्धिविपर्ययलक्षणो, जायते भवति, क्वचित् कुत्रचिदपि वस्तुनि। इदमुक्तं भवति-मोहोत्कर्षजन्यत्वात् स्वाऽऽग्रहो भावमालिन्यं, मोहोत्कर्षजन्यत्वं चास्य रागो द्वेषश्चेत्यादिवचनप्रामाण्यात्, तदेवं स्वाऽऽग्रहस्य भावमालिन्यरूपत्याद्भावशुद्धिर्न तदात्मिकेति स्थितम्। अथ मोहहासस्य स्वाऽऽग्रहाभावहेतोः क उपायः? इत्याह- गुणवता विद्यमानसम्यग्ज्ञानक्रियागुणानां पारतन्त्र्यमधीनत्त्वं गुणवत् पारतन्त्र्यमधीनत्वं गुणवत्पारतन्त्र्यम्, हिशब्दः पुनरर्थः, गुणवत्पारतन्त्र्यं पुनस्तस्य मोहस्यानुत्कर्षोहासस्तस्य साधनं कारणं तदनुत्कर्षसाधनम्। दृश्यते ह्यागमस्याऽऽगमविदां वा पारतन्त्र्यान्मोहानुत्कर्ष इति // 4 // गुणवत्पारतन्त्र्यस्य मोहानुत्कर्षसाधकत्य मागमज्ञावसितेन समर्थयन्नाहअत एवाऽऽगमज्ञोऽपि, दीक्षादानाऽऽदिषु ध्रुवम्। क्षमाश्रमणहस्तेनेत्याह सर्वेषु कर्मसु / / 5 / / यत एव कारणात् गुणवत्पारतन्त्र्यं मोहानुत्कर्षस्य साधकमत एव एतस्मादेव कारणादागमज्ञोऽपि आत्मवचनवेद्यपि सन्नास्तामनागमज्ञः, दीक्षादानाऽऽदिषु प्रव्रज्यावितरणप्रभृतिषु, आदिशब्दादुद्देशसमुद्दशाऽऽदिषु, कर्मस्थितियोगः / ध्रुयं निश्चितं क्षमाश्रमणहस्तेन सगुरुकरण, न स्वातन्त्र्येण, इत्येवरूपमभिलापमाहब्रूते दीक्षाऽऽदिदाता मोहानुत्कमिव सर्वेषु समस्तेषुकर्मसुव्यापारेष्विति तस्मात् गुणवत्पारतन्त्र्यादेव मोहानुत्कर्षलक्षणा भावशुद्धिनान्यथेति॥५|| एतदेवाहइदं तु यस्य नास्त्येव, सनोपायेऽपि वर्तते / भावशुद्धः स्वपरयोर्गुणाऽऽद्यज्ञस्य सा कुतः ||6|| इदमनन्तरोदितं गुणवत्पारतन्त्र्यं, तुशब्दः पुनरर्थः, यस्य प्राणिनो, नास्त्येव न विद्यत एव, स प्राणी, न नैव, उपायेऽपि हेतावपि, आस्तां भावशुद्धौ, गुणवत्पारतन्त्र्यस्यैव तदुपायत्वात्, कस्या नोपायेऽपि वर्तत इत्याह- भावशुद्धेः परिणामशुद्धेः, कुतएतदित्याह-यस्मात् स्वपरयोरात्मेतरयोर्विषये, गुणाऽऽद्यज्ञस्य गुणदोषानभिज्ञस्य, सा भावशुद्धिः कुतो, न कुतोऽप्यस्तीत्यर्थः। अयमभिप्रायः-यो हि गुणवत्पारतन्त्र्ये न वर्तत स गुणवद्गुणान् स्वगतगुणदोषांश्च जानाति, कथमन्यथा गुणवत्पारतन्त्रो न भवति, यश्च तान्न जानाति तस्य मोहोपहतबुद्धित्वान्नास्ति भावशुद्धिः, तस्या मोहानुत्कर्षरूपत्वादिति // 6 //