________________ भावणा 1514 - अभिधानराजेन्द्रः - भाग 5 भावणा काले च न ज्ञानमिति परस्पराऽऽवरणतैव प्राप्ता / अथ युगपदिति द्वितीय पक्षः, सोऽप्ययुक्तः, यत एककालत्वाद्वयोरप्येकताऽऽपत्तिः प्राप्नोति / उक्तं च- "एगतरसमुप्पाए, अन्नोन्नाऽऽवरणया दुवेण्हं पि। केवलदसणणाणाणमेगकाले य एगत्तं / / 1 / / " धर्माऽऽचार्याणामवर्णवादो यथा-न शोभनेतेषां जातिः, नैते लोकव्यवहारकुशलाः, नचैते औचित्यं विदन्तीत्यादि विविधं गुरून् प्रतिभाषते, न चैतेषां विनयवृत्त्या वर्तते / तथा अहितश्छिद्राण्य-न्वेषयन् सर्वसमक्ष गुरूणामेवासतोऽपि दोषान् वदति, सर्वदैव च तेषां प्रतिकूलतामाचरतीति। उक्तंच-"जच्चाईहिँ अवण्णं, विभासइ वट्टइन वावि उववाए। अहिओ छिद्दप्पेही, पगासवाई अणणुकूलो / / 1 / / ' सघस्यावर्णवादो यथा- बहवश्च पभुशृगालाऽऽदीनां सङ्घाः , तत्कोऽयमिह सधो भवतामाराध्य इत्यादि वदति। साधूनामवर्णवादो यथा-नामी साधवः परस्परमपि सहन्ते, अतएव देशान्तरंपरस्परस्पर्धया परिभ्रमन्ति, अन्यथा एकत्रैव संहत्या तिष्ठेयुः / मायावितया सर्वदैव लोकाऽऽवर्जनाय मन्दगामिनः, महतोऽपि च प्रकृत्यैव निष्ठुरोः, तदेव रुष्टास्तदैव तुष्टाश्च / तथा गृहिभ्यस्तैस्तैश्चाटुवचनैरात्मानं रोचयन्ति, सर्वदा सर्ववस्तु-सञ्चयपराश्व। उक्तंच"अविसहणाऽतुरियगई, अणाणुवित्तीय अवि गुरूणं पि। खणमित्तपीइरोसा, गिहिवच्छलगा य संजयगा / / 1 / / '' अन्यैरप्युक्तम्"अनित्यताशब्दमुदाहरन्ति, भग्नां च तुम्बी परिशोचयन्ति। यथा तथाऽन्यं च विकत्थयन्ति, हरीतकीं नैव परित्यजन्ति / / 1 / / अन्यत्र तु 'सव्वसाहूणं ति' पठित्वा 'मायीती भिन्नैव पञ्चमी भावना प्रतिपादिता। यथा- "गृहइ आइसहावं, छायइ य गुणे परस्स संतो वि। चोरो व्व सव्वसंकी, गूढाऽऽयारो हवई माई।।१।।" अथ आभियोगी भावना पञ्चभेदामाहकोउऐं 1 भूईकम्मे 2, पसिणेहिं 3 तह य पसिणपसिणेण / तह य निमित्तेणं 5 चिय, पंचवियप्पा भवे साय॥५१॥ अत्र सप्तमी तृतीयाऽर्थे, ततः कौतुकेन 1 'भूतिकर्मणा 2' प्रश्नेन 3, प्रश्नाप्रश्नेन 4, निमित्तेन 5 च पञ्चविकल्पा पञ्चभेदा भवेत् सा च आभियोगिकी भावना / तत्र बालाऽऽदीनां रक्षाऽऽदिकरणनिमित्तं स्नपनकरभ्रमणाऽऽभिमन्त्रणपृथक्करणधूपदानाऽऽदि यत्क्रियते तत्कौतुकम् / उक्तं च- "विन्हवणहोमसिरपरिरया य खारडहणाइँ धूवेइ / असरिसवेसागहणं, अवतासणउब्भमणबधो // 1 // " तथा च सति शरीरभाण्डकरक्षाऽर्थ भरमसूत्राऽऽदिना यत्परिवेष्टनकरणं तद् भूमिकर्म। उक्तंच- "भूईऍ मदियाए, इव सत्तेण व होइ भूइकमंतु। वसहीसरीरभंडयरक्खाअभिओग-माईया // 1 // " तथा यत्परस्य पार्वं लाभा लाभाऽऽदि पृच्छ्यते, स्वयं वा अड्गुष्ठदर्पणखड्ग तोयाऽऽदिषु दृश्यते स प्रश्नः / उक्तंच- "पण्हो य होइ पसिणं, ज पासइ वा सयं तुतं पसिणं। अंगुट्ठउच्चिट्ठपए, दप्पणअसितोयकुड्डाई॥१॥" तथा स्वप्ने स्वयं विद्यया कथितं, घण्टिकाऽऽद्यवतीर्णदेवतया वा कथितं सत्यदन्यस्मै शुभाशुभजीवितमरणाऽऽदि परिकथयति स प्रश्नाप्रश्नः / उक्तं च- ''पसिणापसिणं सुमिणे, विजासिद्धं कहेइ अन्नस्स / अहवा आइंखणियाघटियसिद्ध परिक्हेइ / / 1 // " तथा निमित्तमतीतानागतवर्तमानवस्तुपरिज्ञानहेतुर्ज्ञानविशेषः। उक्तंच-"तिविहं होइ निमित्तं, तीयपडुपण्णऽनायगं चेव / तेण विणा वि न नेयं, नजइ तेणं निमित्तं तु॥१॥" एतानि च कौतुकभूतिकर्माऽऽदीनि गौरवाऽऽदिनिमित्तं कुर्वाणः साधुरभियोगनिर्वृत्तं कर्मावबध्नाति, अपवादपदेन तु गौरवरहितः सन्नतिशयज्ञाने सति निःस्पृहवृत्त्या यदाऽसौ करोति तदाऽसौ आराधक एव, उच्चं च-गोत्रं बध्नातीति तीर्थोन्नतिकरणात्। उक्तंच- "एयाणि गारवट्ठा, कुणमाणो आभिओगियं बंधे। बीयं गारवरहिओ, कुव्वइ आराहगुच्चं च // 1 // " __ अथ आसुरी भावनां पञ्चभेदामाहसइविग्गहसीलत्तं 1, संसत्ततवो 2 निमित्तकहणं च 3 / निक्किविया विय 4 अवरा, पंचमगं निरणुकंपत्तं 5, // 52 / / सदा विग्रहशीलत्वं १संसक्ततपः 2 निमित्तकथनं च 3 निष्कृफ्ताऽपि चापरा, पञ्चमंच निरनुकम्पत्वमिति। तत्र सदा सर्वकालं विग्रहशीलत्यं, पश्चादननुतापितया श्रमणाऽऽदावपि प्रसत्यप्राप्त्या च विरोधानुबन्धः। यदाह- "निच्चं विग्गहसीलो, काऊण य नाणुतप्पई पच्छा / न य खामिओ पसियइ, सपक्ख परपक्खिओवावि।।१||" तथा संसक्तस्य आहारोपधिशय्याऽऽदिषु सदा प्रतिबद्धभावस्य, आहाराऽऽद्यर्थमेव च तपोऽनशनाऽदितपश्चरणं संसक्ततपः / यदाह- "आहारउवहिसेजा, जस्स य भावओ उ निच्चसंसत्तो। भावोवहओ कुणइ, तवोवहाणं तु दिट्ठीए / / 1 / / ' तथा त्रैकालिकस्य लाभालाभसुखदुःखजीवितमरणविषयस्य निमित्तस्य कथनमभिमानाभिनिवेशाद् व्याकरणम् / यदाह"तिविहनिमित्तं एकेक-छविहं जंतु वन्नियं पुव्वं / अभिमाणा भिनिवेसा, वागरियं आसुरं कुणइ / / 1 / / " तथा स्थावराऽऽदिसत्त्वेष्वजीवप्रतिपत्त्या गतघृणः कार्यान्तरव्यासक्तः सन् गमनाऽऽसनाऽऽदि यः करोति, कृत्वा च नानुतप्यते केन चिदुक्तः सन् स निष्कृपः, तद्भावो निष्कृपतया / यदाहुः- "चंकमणाईजुत्तो, सुनिकिवो थावराइसत्तेसु / काउं च नाणुतप्पइ, एरिसओ निकिवो होइ // 1 // " तथा यः कृपापात्रं कुतश्चिद्धेतोः कम्पमानमपि परं दृष्टा क्रूरतया कठिनभावः सन् नानुकम्पाभाग्भवति स निरनुकम्पः, तस्य भावो निरनुकम्पत्वम् / यदाह- "जो उ परं कंपंतं, दट्टण न कंपए कविणभावो। एसोय निरणुकंपो, पण्णत्तो वीयरागेहिं॥१॥" अथ सांमोहीं भावनां पञ्चविधामाहउम्मग्गदेसणा १मग्गदूसणं 2 मम्गविपडिवत्तीय 3 /