________________ भरह 1475 - अभिधानराजेन्द्रः - भाग 5 भरह भो देवानुप्रिया ! यूयं हस्तिस्कन्धवरगताः विनीताया राजधान्याः शृङ्गाटकत्रिकचतुष्कचत्वराऽऽदिषु प्राग्व्याख्यातेषु आस्पदेषु महता महता शब्देनोद्घोषयन्तोजल्पन्तोजल्पन्तः, अत्र शत्रन्तस्यापि अविवक्षणान्न कर्मनिर्देशः, आभीक्ष्ण्ये द्विवचनम् उच्छुल्कं यावद् द्वादश संवत्सराः कालोमानं यस्यास्तीतिद्वादश-संवत्सरिकस्त प्रमोदहेतुत्वात् प्रमोदः - उत्सवस्ते घोषयत, घोषयित्वा च ममैतामाज्ञप्तिकां प्रत्यर्पयत, उच्छुल्काऽऽदिपदव्याख्या प्राग्वत्, अथ ते आज्ञप्ता यथा प्रवृत्तवन्तस्तथाऽऽह'तए णं' इति, ततस्ते कौटुम्बिकपुरषा भरतेन राज्ञा एवमुक्ताः सन्तो हृष्टतुष्ट-चित्ताऽऽनन्दिताः 'हरिसक्स त्ति' हर्षवशविसर्पद्धृदयाः विनयेन वचन प्रतिशृण्वन्ति, प्रतिश्रुत्य च क्षिप्रमेव हस्तिस्कंधवरगताः, यावत्पदात् ‘विणीआए रायहाणीए सिंघाडगतिग' वत्यादि ग्राहां, कियदन्तमित्याह-यावद्घोषयन्ति, घोषयित्वा च एतामाज्ञप्तिका प्रत्यर्पयन्ति। अथ भरतः किं चक्रे इत्याह- 'तएणं' इति, ततः स भरतो राजा महता महता राज्याभिषेकेणाभिषिक्तः सन् सिंहासनादभ्युतिष्ठति, अभ्युत्थाय च स्त्रीरत्नेन यावत् 'बत्तीसाए उडुकल्लाणिआसहस्सेहिं बत्तीसाए जणबयकल्लाणिआसहस्सेहिं बत्तीसाए बत्तीसइबद्धेहिं' इति ग्राह्य, द्वात्रिंशता द्वात्रिंशद्वद्वैर्नाटकसहौः सार्द्ध संपरिवृतोऽभिषेकपीठात् पौरस्त्येन त्रिसोपानप्रतिरूपकेण प्रत्यवरोहति, प्रत्यवरुह्य चाभिषेकमण्डपात प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य च यत्रैवाऽऽभिषेक्यं हस्तिरत्नं तत्रेवोपागच्छति, उपागत्य चाञ्जनगिरिकूटसन्निभं गजपति, यावच्छब्दात् 'नरवइत्ति' ग्राहां, नरपतिरारूढः, तदनु अनुचरजनो यथाऽनुवृत्तवांस्तथाऽऽह- 'तए णं' इत्यादि, व्यक्तम्, अथ यथा युक्त्या चक्री विनितां प्रतिवेश तामाह- 'तए णं' इत्यादि, ततस्तस्य भरतस्य राज्ञ आभिषेक्यं हस्तिरत्नमारूढस्य सत इमान्यष्टाष्टमङ्गलकानि पुरतो यावच्छब्दाद्यथानुपूर्व्या संप्रस्थितानि, अत्र ग्रन्थविस्तरभयादतिदेशमाह-योऽपि चातिगच्छतोविनीतां प्रविशतः क्रमः-परिपाटी प्रथमोऽधस्तनसूत्रोक्तो भरतविनीताप्रवेशवर्णकः कुबेरदृष्टान्तभाविसूत्रावसानः स एव क्रम इहापि सत्कारविरहितो नेतव्यः / अयं भावः- पूर्व प्रवेशे षोडशदेवसहस्रद्वात्रिंशद्राजसहस्राऽऽदीनां सत्कारो यथा विहितस्तथा नाति अस्य च द्वादशवार्षिकप्रमोदनिर्वर्तनोत्तरकाल एवावसरप्राप्तत्वात्।। अथ गृहाऽऽगमनानन्तरं यो विधिस्तमाह- 'तए णं से भरहे राया मजणघरं' इत्यादि, निगदसिद्धं प्राग बहुशो निगदितत्वात्, एवं च प्रतिदिन नवं नवं राज्याभिषेकमहोत्सव कारयतस्तस्य द्वादश वर्षाण्यतिक्रान्तानि, शत्रुञ्जयमाहात्म्याऽऽदौ तु राज्याभिषेकोत्सवस्थाने राज्याभिषेक एव द्वादशवार्षिकोऽभिहित इति, अथ तदुत्तरकाले यत्कृत्यं तदाह- 'तएण' इत्यादि प्राग्वत् / ननु सुभूमचक्रवर्तिनः पशुरामहतक्षत्रियदाढाभृतस्थालमेव चक्ररत्नतया परिणतमिति श्रुतेश्चक्ररत्नानामनियतोत्पत्तिस्थानकत्वं ज्ञायते तेन प्रस्तुतप्रकरणे तेषां क्वोत्पत्तिरित्याशड्क्याऽऽह अथ चतुर्दशरत्नाधिपतेर्भरतस्य यानि रत्नानि यत्रोदपद्यन्त तत्तथाऽऽह भरहस्स रण्णो चक्करयणे 1 दंडरयणे 2 असिरयणे ३छत्तरयणे 4 / एते णं चत्तारि एगिंदियरयणे आउहघरसालाए समुप्पण्णा, चम्मरयणे 1 मणिरयणे 2 कागणिरयणे 3 णव य महाणिहिओ। एए णं सिरिघरंसि समुप्पण्णा, सेणावइरयणे 1 गाहावइरयणे 2 वद्धइरयणे 3 पुरोहिअरयणे 4 / एए णं चत्तारि मणुअरयणा विणीआए रायहाणीए समुप्पण्णा, आसरयणे 1 हत्थिरयणे 2, एए णं दुवे पंचिंदिअरयणा वेअडगिरिपायमूले समुप्पण्णा, सुभद्दा इत्थीरयणे उत्तरिल्लाए विजाहरसेढीए समुप्पण्णे। (सूत्रम्-६८) 'भरहस्स रण्णो' इत्यादि, भरतस्य राज्ञश्चक्राऽऽदीनि चत्वारि एकेन्द्रियरत्नानि आयुधशालायां समुत्पन्नानिलब्धसत्ताकानि जातानि / एवमुत्तरसूत्रेऽपि बोध्यं, तेन चर्मरत्नाऽऽदीनि नव महानिधयश्च एतानिश्रीगृहे-भाण्डागारे समुत्पन्नानिलब्धसत्ताकानि जातानीत्यर्थः / इत्थं च निधयः शाश्वतभावरूपाः कथमुत्पद्यन्ते इत्याशङ्का निरस्ता / ननु इदं सूत्र ‘पादाधः स्थितयस्तस्य, नवापि निधयोऽनिशम् / हेमाब्जानीव वृषभप्रभोर्विहरतोऽभवन्॥१॥ इति ऋषभचरित्रवचनेन अत्रेव पूर्वसूत्रेण च सह न विरुध्यते? उच्यते- राज्ञां यत्र तत्र स्थितमपि कोशद्रव्यं कोश एव कथ्यत इति लौकिकव्यवहारस्य सुप्रसिद्धत्वात्न दोषः, सेनापत्यादिमनुजरत्नानि चत्वारि विनीतायां समुत्पन्नानि, अश्वरत्नेहस्तिरत्ने एते द्वे पञ्चेन्द्रियतिर्यग्रत्ने वैतान्यगिरेः पादमूलेमूलभूमौ समुत्पन्ने, समुद्रा नाम स्त्रीरत्नम् उत्तरस्या विद्याधरश्रेण्यां समुत्पन्नम्। अथ षट्रखण्डं पालयश्चक्री यथा प्रववृते तथाऽऽहतए णं से भरहे राया चउदसण्हं रयणाणं णवण्हं महाणिहीणं सोलसण्हं देवसाहस्सीणं बत्तीसाए रायसहस्साणं बत्तीसाए उडु कल्लाणिआसहस्साणं बत्तीसाए जणवयकल्लाणिआसहस्साणं बत्तीसाए बत्तीसद्दवद्धाणं णाडगसहस्साणं तिण्हं सट्ठीणं सूयारसयाणं अट्ठारसण्हं सेणिप्पसेणीणं चउरासीइए आससयसहस्साणं चउरासीइए दंतिसयसहस्साणं चउरासीइए रहसयसहस्साणं छण्णउइए, मणुस्सकोडीणं बावत्तरीए पुरवरसहस्साणं बत्तीसाए जणवयसहस्साणं छण्णउइए गामकोडीणं णवणउइए दोणमुहसहस्साणं अडयालीसाए पट्टणसहस्साणं चउव्वीसाए कब्बडसहस्साणं चउव्वीसाएमडंबसहस्साणं वीसाए आगरसहस्साणं सोलसण्हं खेडसहस्साणं चउदसण्हं संवाहसहस्साणं छप्पण्णाए अंतरोदगाणं एगूणपण्णाए कुरज्जाणं विणीआए रायहाणीए चुल्लहिमवंतगिरिसागरमेरागस्स केवलकप्पस्स भरहस्स वासस्स अण्णेसिं च बहूणं राईसरतलवर०जाव सत्थवा-हप्पभिईणं आहेवचं पोरेवचं भट्टित्तं सामित्तं महत्तरगतं आणाईसरसेणावच्चं कारेमाणे पालेमाणे ओहयणिहएसुकटएसुउ