________________ भरह 1473 - अभिधानराजेन्द्रः - भाग 5 भरह ठभूमिवर्णनाऽऽदि प्रतिपदयन्नाह 'तस्स णं' इत्यादि, तस्याभिषेकपीठस्य बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य समभूभागस्य मध्ये एक महत् सिंहासनं विकुर्वन्ति, तस्य वर्णकव्यासो विजयदेवसिंहासनस्येव ज्ञेयः यावद्दाम्नां वर्णको यत्र तहमामवर्णकं सम्पूर्ण समस्तंसूत्रं वाच्यमिति शेषः, एनमेवार्थ निगमयन्नाह- 'तएणं' इत्यादि, ततोभरताऽऽज्ञानन्तरं ते देवा उक्तविशेषणविशिष्टमभिषेकमण्डपं विकुर्वन्ति, विकुर्य च यत्रैव भरतो राजा यावत्पदात् 'तेणेव' उवागच्छति उवागच्छित्ता एअमाणत्तिअं इति ग्राह्यं, 'तए णं' इत्यादि, व्यक्तम्, अथैतत्समयोचितं भरतकृत्यमाह- 'तए णं' इत्यादि प्राग्वत्, 'तएणं' इति, ततस्तस्य भरतस्य राज्ञ आभिषेक्यं हस्तिरत्नमारूढस्य सत इमान्यष्टावष्टौ मङ्गलकानि पुरतः सम्प्रस्थितानीति शेषः, अथग्रन्थलाघवार्थमतिदिशति- य एव गमो विनीतां प्रतिशतः स एव तस्य निष्क्रामतोऽपि भरतस्य, कियदन्तमित्याह-यावदप्रतिबुद्धयन् र विनीतांराजधानी मध्येमध्येन निर्गच्छति, शेष व्यक्त, ततः किं चक्रे इत्याह- 'पच्चोरहित्ता इत्थीरयणेणं' इत्यादि, ततः स भरतो राजा स्त्रीरत्नेन सुभद्रयाद्वात्रिंशता ऋतुकल्याणिकासहौः द्वात्रिंशता जनपदकल्याणिकासहौःद्वात्रिंशता द्वात्रिंशद्रद्धर्नाटकसहसः सार्द्ध संपरिवृतोऽभिषेकमण्डपमनुप्रविशति, अनुप्रविश्य च यत्रैयाभिषेकपीठं तत्रैवोपागच्छति, उपागत्य चाभिषेकपीठमनुप्रदक्षिणीकुर्वन् 2 स्वामिदृष्ट भक्तजनः प्रमोदतेतराम् इति आभियोगिकसुरमनस्तुष्ट्युत्पादनहेतोरित्थमेवसृष्टिक्रमाच्च पौरस्त्येन त्रिसोपानकप्रतिरूपकेण आरोहति, आरुह्य च यत्रैव सिंहासनं तत्रैवोपागच्छति, उपागत्य च पूर्वाभिमुखः सन्निषण्णः- सम्यग् यथौचित्येनोपविष्टः, अथानुचरा राजादयो यथोपचेरुस्तथाऽऽह- 'तएणं' इत्यादि, ततस्तस्य भरतस्य राज्ञो द्वात्रिंशद्राजसहस्राणि यत्रैवाभिषेकमण्डपः- तत्रैवोपागच्छतीत्यादि व्यक्तं, नवरमभिषेकपीठम् अनुप्रदक्षिणी-कुर्वन्तः 2 उत्तरत आरोहता प्रदक्षिणाकरणे नैव सृष्टिक्रमस्य जायमानत्वात्, 'तए णं' इत्यादि पाठसिद्धं , 'तए णं' इत्यादि, ततः स भरतो राजा आभियोग्यान देवान् शब्दयित्वा एवमयादीत्-क्षिप्रमेव भो देवानुप्रिया! मम महान् अर्थोमणिकनकरत्नाऽऽदिक उपयुज्यमानो यस्मिन् स तथा तं महान् अर्घः-पूजा यत्र स तथा तं महम् उत्सवमर्हत्तीति महार्हस्तंमहाराज्याभिषेकमुपस्थापयतसम्पादयत, आज्ञप्तास्ते यच्चक्रुस्त-दाह- 'तए णं' इत्यादि, तत आज्ञप्त्यनन्तरं ते आभियोग्या देवा भरतेन राज्ञा एवमुक्ताः सन्तो हृष्टतुष्टचित्तेत्यादिरानन्दाऽऽलापको ग्राह्यः,यावत्पदात्- 'करयलपरिगहिअंदसणहं सिरसावत्तं मत्थए अंजलिं कटटु एवं देवो तह ति आणाए विणएणं वयणं पडिसुणेति, पडिसुणेत्ता' इति ग्राह्यं, व्याख्या च प्राग्वत्, अत्रातिदेशसूत्रमाह-एवम्- इत्थंपकारमभिषेकसूत्रं यथा विजयस्यजम्बूद्वीपविजयद्वाराधिपदेवस्य तृतीयोपाने उक्तं तथाऽत्रापि ज्ञेयमिति, अत्र च सर्वाभिषेकसामग्री वक्तव्या, सा चोत्तरत्र जिनजन्माधिकारे वक्ष्यते, तत्र तत्सूत्रस्य साक्षाद्दर्शितत्वात्तथापि स्थानाशून्यार्थ तथाशब्दसूचित संग्रहदर्शनार्थ किञ्चिल्लिख्यते, तदपिलाघवार्थ संस्कृतरूपमेव युक्तमिति तथैव दर्श्यते, अष्टसहस्र सौवर्णिककलशानां तथा रूप्यमयकलशानां तथा मणिमयकलशानामित्याद्यष्टजातीयकलशानाम् एवं भृङ्गाराणाम् आदर्शाना स्थालानां पात्रीणां सुप्रतिष्ठानां मनोगुलिकानां वातकरकाणा चित्ररत्नकरण्डकानां पुष्पचङ्गेरीणां यावल्लोमहस्तकचङ्गेरीणां पुष्पपटलकानां यावल्लोमहस्तपटलकानां सिंहासनाना छत्राणां चामराणां समुद्गकानां ध्वजाना धूपकडुच्छुकानां प्रत्येकमष्टसहसं विकुर्वन्ति, विकुऱ्याच स्वाभाविकान् वैक्रियाश्चैतान् पदार्थान् गृहीत्वा क्षीरोदे उदकमुत्पलाऽऽदीनि च गृह्णन्ति, पुष्करोदे तथैव, ततो भरतैरावतयोगिधाऽऽदितीर्थत्रये उदकं मृदं च ततस्तयोर्महानदीषूदकं मृदं च ततः क्षुल्लहिमाद्रौ सर्वतूवरसर्वपुष्पाऽऽदीनि, ततः पाद्रहपुण्डरीकद्रहयोरुदकमुत्पलाऽऽदीनि च एवं प्रतिवर्ष महानद्योरुदकं मृदं च प्रतिवर्षधरं च सर्वतूवरसर्वपुष्पाऽऽदीनिच द्रहेषु च उदकोत्पलाऽऽदीनि वृत्तवैताढ्येषु चसर्वतूवराऽऽदीनि विजयेषु तीर्थोदकं मृदं च वक्षस्कारगिरिषु सर्वतूवराऽऽदीन् तथा अन्तरनदीषु उदकं मृदंच, ततो मेरौ भद्रशालवने सर्वतूवराऽऽदीन्ततो नन्दनवने सर्वतूवराऽऽदीन् सरसंच गोशीर्षचन्दनं ततः सौमनसवने सर्वतूवराऽऽदीन् सरसंच गोशीर्षचन्दनं दिव्यं च समुनोदाम ततः पण्डकवने सर्वतूवरपुष्पगन्धाऽऽदीन गृह्णन्ति, गृहीत्वा चैकतः एकत्र मिलन्ति, एकत्र मिलित्वा यत्रैव दक्षिणार्द्धभरतवर्ष यत्रैव च विनीता राजधानी तत्रैवोपागच्छन्ति, उपागत्य च विनीता राजधानीमनुप्रदक्षिणीकुर्वन्तः 2 यत्रैवाभिषेकमण्डपो यत्रैव च भरतो राजा तत्रैवोपागच्छन्ति, उपागत्य च तत् पूर्वोक्त महार्थ महाघु महार्ह महाराज्याभिषेकोपयोगिक्षीरोदकाऽऽद्युपस्करमुपस्थापयन्ति- उपढौकयन्ति / अथोत्तरकृत्यमाह- 'तएणं' इत्यादि, ततस्तं भरतं राजानं द्वात्रिंशद्राजसहस्राणि शोभने निर्दोषगुणपोषे 'तिथिकरणदिवसनक्षत्रमुहूर्ते' तिथ्यादिपदानां समाहारद्वन्द्वः, तत सप्तम्येकवचनं तत्र तिथि:- रिक्तार्केन्दुदग्धाऽऽदिदुष्टतिथिभ्यो भिन्ना तिथिः, करणंविविष्टिदिवसो दुर्दिनग्रहणोत्पातदिनाऽऽदिभ्यो भिन्नदिवसः, नक्षत्रंराज्याभिषेकापयोगि श्रुत्यादित्रयोदशनक्षत्राणामन्यतरत्, यदाह- "अभिषिक्तो महीपालः, श्रुतिज्येष्ठलघुधुवैः / मृगानुराधापौष्णैश्च' चिरं शास्ति वसुन्धराम् // 1 // " इति, मुहूर्तः-अभिषेकोक्तनक्षत्रसमानदैवत इति, अत्रैव विशेषमाह- उत्तरप्रौष्ठपदा उत्तरभद्रपदा नक्षत्रं तस्य विजयो नाम मुहूर्तः-अभिजिदादयः क्षणस्तस्मिन्, अयं भायःमुहूर्तापरपर्यायः पञ्चदशक्षणाऽऽत्मकेदिवसेऽष्टमक्षणः तल्लक्षणंचेदंज्योतिः शास्त्रप्रसिद्ध- "द्वौ यामौ घटिकाहीनौ, द्वौ यामौ घटिकाधिको विजयो नाम योगोऽयं, सर्वकार्यप्रसाधकः॥१॥" ततस्तैः पूर्वोक्तैः स्वाभाविकैरुत्तरवैक्रियैश्च वरकमले आधारभूते प्रतिष्ठान स्थितिर्येषां तेतथातैः सुरभिवरवारिप्रतिपूर्णः, अत्र 'चंदणकयवच्चएहिं आविद्धकंठेगुणेपिउमुप्पलपिहाणेहिं करयलपरिगहिएहिं अट्ठसहस्सेणं सोवण्णिअकलसाणंजाव अवसहस्सेणं भोमेजाणं इत्यादिको ग्रन्थो यावत्पदसंग्राहा उत्तरत्र जिन