________________ भरह 1472 - अभिधानराजेन्द्रः - भाग 5 भरह हियरयणं सकारेइ, सम्माणेइ, सम्माणित्ता एवं तिणि सट्टे | सूआरसए अट्ठारस सेणिप्पसेणीओ सक्कारेइ, सम्माणेइ, / सम्माणित्ता अण्णे अ बहवे राईसरतलवर० जावसत्थवाहप्पभिइओ सकारेइ, सम्माणेइ, सम्माणित्तापडिविसजेति, पडिविसञ्जेत्ता उप्पि पासायवरगए०जाव विहरइ / (सूत्रम्-६८) 'तए ' इत्यादि, ततः स भरतो राजा मित्राणि-सुहृदः ज्ञातयःसजातीयाः निजकाः मातापितृभात्रादयः रवजनाः- पितृव्याऽऽदयः सम्बन्धिनः-श्वशुराऽऽदयः परिजनोदासाऽऽदिः,एकवद्भावे कृते द्वितीया, प्रत्युपेक्षते-कुशलप्रश्नाऽऽदिभिरापृच्छय आपृच्छय सम्भाषत इत्यर्थः, अथवा चिरमदृष्टत्वेन मित्राऽऽदीनुत्कण्ठुलतया पश्यति-स्नेहदृशा विलोकयति, प्रत्युपेक्ष्य च यत्रैव मज्जन-गृहं तत्रैवोपागच्छति, उपागत्य च, यावच्छब्दात् स्नानविधिः सर्वोऽपि वाच्यः, मज्जनगृहात् प्रतिनिष्का- 1 मतीत्यादि प्राग्वत् / अत्र च बाहुबल्यादिनवनवति भ्रातृराज्यानामात्मसातकरणपूर्वकं चक्ररत्नस्याऽऽयुधशालायां प्रवेशनमत्यत्र प्रसिद्धमपि सूत्रकारेण नोक्तमिति नोच्यते इति। एवं विहरतस्तस्य यदुदपद्यत तदाह'तएणं' इत्यादि, ततः तस्य भरतस्य राज्यधुरं चिन्तयतोऽन्यदा कदाचिदयमेतद्रूपः- उक्तविशेषणविशिष्टः सङ्कल्पः समुदपद्यत, स च का सङ्कल्प इत्याह- 'अभिजिएणं' इत्यादि अभिजितं मया निजकबलवीर्यपुरुषकारणपराक्रमेण क्षुलहिमवगिरिसागरमर्यादया केवलकल्पभरतं वर्ष तच्छ्रेयः खलु ममाऽऽल्मानं महाराज्याभिषेकेणाभिषेचयितुम- अभिषेक कारयितुम् इति कृत्वाभरतं जितमिति विचार्य एवं सम्प्रेक्षते-राज्याभिषेक विचारयति, अथैतद्विचारोत्तरकालीनकार्यमाह- 'संहिता' इत्यादि व्यक्तम् सिंहासने निषद्य यचक्रे तदाह- "निसीइत्ता' इत्यादि कण्ठ्यं, किमवादीदित्याह- 'अभिजिए ण-' इत्यादि, अभिजित मया देवानुप्रिया ! निजकबलवीर्यपुरुषकारपराक्रमेण क्षुद्रहिमवगिरिसागरमर्यादया केवलकल्पं भरतं वर्ष तद्यूयं देवानुप्रिया ! मम महाराज्याभिषेक वितरत दत्त, कुरुतेत्यर्थः, आवश्यकचूादौ तु भक्त्या सुसरास्तं महाराज्याभि काय विज्ञपयामासुर्भरतश्च तदनुमेने, अस्ति हि अयं विधेयजनव्यवहारो यत्प्रभूणां समयसेवाविधौ ते स्वयमेवोपतिष्ठन्ते, सत्यप्येवंविधे कल्पे यदरतस्यात्रानुचरसुराऽऽदीनामभिषेकज्ञापनमुक्तं तद् गम्भीरार्थकत्वादस्मादृशामन्दमेधसामनाकलनीयमिति / अथ यथा ते अडीचकुस्तथाऽऽह- 'तएणं' इत्यादि, ततस्तेषोडश देवसहरमाः, यावत्- शब्दात् द्वात्रिंशद्राजसहरसाऽऽदिपरिग्रहः यावद्राजेश्वरतलवराऽऽदिसार्थवाहप्रभृतय इति, भरतेन राज्ञा इत्युक्ताः सन्तो 'हट्टतुट्ठत्ति' इहैकदेशदर्शनमपि पूर्णतदधिकारसूत्रदर्शकं, तेन हद्वतुडचित्तमाणंदिआ इत्यादिपदानि ज्ञेयानि, करतल परिगृहीतं दशनखं शिरस्यावत मस्तके अञ्जलिं कृत्वा भरतस्य राज्ञ एतम्-अनन्तरोदितमर्थं सम्यग्- विनयेन प्रतिशृण्वन्तिअङ्गीकुर्वन्ति, अथ 'जलालब्धाऽऽत्मलामा कृषिर्जलेनैव वर्द्धते' इति ज्ञातात्तपसाऽऽप्तं राज्यं तपसैवाभिनन्दतीति चेतसि चिन्तयन् भरतो यदुपचक्रमे तदाह- 'तएणं' इत्यादि प्रागवत् 'तएणं से भरहे' इत्यादि, ततः | स भरतो-ऽष्टमभक्ते परिणमति सति आभियोग्यान देवान् शब्दयति, शब्दयित्वा च एवमवादीत, किमवादीदित्याह- "खिप्पामेव त्ति क्षिप्रमेव भो देवानुप्रिया ! विनीताया राजधान्या उत्तरपौरस्त्ये दिग्भागे ईशानकोणे इत्यर्थः, तस्यात्यन्तप्रशस्तत्वात्, अभिषेकाय मण्डपः अभिषेकमण्डपस्तं विकुर्वत, विकुळ च मम एतामाज्ञप्तिं प्रत्यर्पयत, 'तएण' इत्यादि, ततस्ते आभियोग्या देवा भरतेन राज्ञा एवमुक्ताः सन्तो, हृष्टतुष्टाऽऽदिपदानि प्राग्वत्, एवं स्वामिन् ! यथैव यूयमादि शत आशयास्वामिपादानामनुसारेण कुर्म इत्येवरूपेण विनयेन वचनं प्रतिशृण्वन्ति-अभ्युपगच्छन्ति, 'पडिसुणित्ता' इत्यादि, प्रतिश्रुत्य च विनीताया राजधान्या उत्त-रपौरस्त्यं दिग्भागमपक्रामन्ति-गच्छन्ति, अपक्रम्य च वैक्रियसमुद्घातेन- उत्तरवैक्रियकरणार्थक प्रयत्नविशेषेण समवघ्नन्ति-आत्मप्रदेशान् दूरतो विक्षिपन्ति, तत्स्वरूपमेव व्यनक्ति सङ्ख्येयानि योजनानि दण्ड इव दण्डः- ऊर्ध्वाधआयतः शरीरवाहल्यो जीवप्रदेशस्तं निसृजन्ति-शरीराबहिनिष्काशयन्ति, निसृज्य च तथाविधान् पुद्गलान् आददते इति, एतदेव दर्शयति, तद्यथा- रत्नानांकतनाऽऽदीनां, यावत्पदात् 'वइराण वेरुलिआणं लोहियक्खाणं मसारगल्लाणं हंसगभाणं पुलयाणं सोगन्धिआणं जोईरसाणं अंजणाणं अंजणपुलयाण जायसवाणं अंकाणं फलिहाणं इति संग्रहः, रिट्ठाणमिति साक्षादुपत्तिम्, एतेषा सम्बोन्धना यथाबादरान्- असारान् पुद्गलान् परिशातयन्ति त्यजन्ति यथासूक्ष्मान्- सारान् पुद्गलान् पर्याददते-गृहणन्ति, पर्यादाय च चिकीर्षितनिर्माणार्थ द्वितीयमपि वारं वैक्रियसमुद्घातेन समवघ्नन्ति, समवहत्य च बहुसमरमणीयं भूमिभाग विकुर्वन्ति / तद्यथा- 'से जहा णामए आलिंगपुक्खरेइ वा' इत्यादि, सूत्रतोऽर्थतश्च प्राग्वत, ननु रत्नाऽऽदीनां पुद्गला आदारिकास्ते च वैक्रियसमुद्घाते कथं ग्रहणार्हाः, उच्यते- इह रत्नाऽऽदिग्रहणं पुद्गलानां सारतामात्रप्रतिपादनार्थ , न तु तदीयपुगलग्रहणार्थ, ततो रत्नाऽऽदीनाभिवेति द्रष्टव्यम्, अथवा औदारिका अपि ते गृहीताः सन्तो वैक्रियतया परिणमन्ते, पुद्गलानां तत्तत्सामग्रीवशात्तथातथापरिणमनभावादतो न कश्चिद्दोष इति, पूर्ववैक्रियसमुद्घातस्य जीवप्रयत्नरूपत्वेन क्रमक्रममन्दमन्दतरभावाऽऽपन्नत्वेन क्षीणशक्तिकत्वात् इष्टकार्यासिद्धेः, अथ समभूभागे ते यच्चक्रुस्तदाह- 'तस्सणं इत्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महान्तमेकमभिषेकमण्डपं विकुर्वन्ति, अनेकस्तम्भशतसन्नि-विष्टं, यावत्पदात् राजप्रश्रीयोपाङ्गगतसूर्याभदेवयानविमानवर्णको ग्राह्यः, स च कियत्पर्यन्तमित्याह-यावद् गन्धयतिभूतमिति विशेषणम्, अत एव सूत्रकृदेव साक्षादाह- प्रेक्षागृहमण्डपवर्णको ग्राह्य इति, एतत्सूत्रव्याख्ये सिद्धाऽऽयतनाऽऽदिवर्णके प्राग्दर्शिते इति नेहोच्यते। 'तस्सणं' इत्यादि तस्याभिषेकमण्डपस्य बहुमध्यदेशभागे अत्र-अस्मिन् देशे महान्तमेकमभिषेकपीठं विकुर्वन्ति अच्छम् अस्तरजस्कत्वात् लक्ष्णं सूक्ष्मपुगलनिर्मितत्वात्, 'तस्स णं' इत्यादि, वापीत्रिसोपानप्रतिरूपकवर्णकवदत्र वर्णव्यासो ज्ञेयः यावत्तोरणवर्णनम् / अथाभिषेकपी