________________ भरह 1467 - अभिधानराजेन्द्रः - भाग 5 भरह प्रस्थितवन्त इत्याह- 'तए णं' इत्यादि, ततस्तस्य भरतस्य राज्ञ आभिषेक्यं हरितरत्नमारूढस्य सत इमान्यष्टाष्टमङ्गलकानि पुरतो यथानुर्पूर्या-यथाक्रम संप्रस्थितानि चलितानि, तद्यथा-स्वस्तिकश्रीवत्स० यावत्पदात् पूर्वोक्तमङ्गलकानि ग्राह्यानि, यद्यप्येकाधिकारप्रतिबद्धत्वेनाखण्डस्याधिकारसूत्रस्य लिखनं युक्तिमत्तथापि सूत्रभूयिष्ठत्वेन वृत्तिर्दूरगता वाचयितॄणां सम्मोहाय स्यादिति प्रत्येकाऽऽलापक वृत्तिर्लिख्यते इति, 'तयणंतरं च णं' इत्यादि तदनन्तरं च पूर्णजलभृतं 'कलशभृङ्गार' कलश:- प्रतीतः भृङ्गार:- कनकालुका, ततः समाहारादेकवद्भावः, इद च जलपूर्णत्वेन मूर्तिमद् ज्ञेयं, तेनाऽऽलेख्यरूपाष्टमङ्गलान्तर्गतकलशादयं कलशो भिन्नः, दिव्येव दिव्याप्रधाना, चः समुच्चये, स च व्यवहितसम्बन्धः छत्रविशिष्टा पताका च, यावत्पदात् 'सचामरा दसणरइअआलोअदरिसणिज्जा वाउचूअविजयवेजयंती अब्भुस्सिआ गगणतलमणुलिहंती पुरओ अहाणुपुव्वीए' इति ग्राह्यम्, अत्र व्याख्यासचामरा-चामरयुक्ता-दर्शन-प्रस्थातुर्दृष्टिपथेरचिता मङ्गल्यत्वात् अत एवाऽऽलोके-बहिः प्रस्थानभाविनि शकुनानुकूल्याऽऽलोकने दर्शनीयाद्रष्टुं योग्या, ततो विशेषणसमासः, काऽसावित्याह- वातोद्धृता विजयसूचिका वैजयन्तीपार्श्वतो लघुपताकाद्वययुक्तः पताकाविशेषः प्राग्वत्, उच्छ्रिता-उच्चा गगनतलमनुलिखन्ती अत्युच्चतया, एते च कलशाऽऽदयः पदार्थाः पुरतोयथानुपूर्व्या संप्रस्थिता इति, 'तए ' इत्यादि, ततो वैडूर्यमयो 'भिसंत त्ति' दीप्यमानो विमलो दण्डो यस्मिस्तत्तथा, यावत्पदात् पलम्ब कोरण्टमल्लदामोवसोहिअंचन्दमंडलनिभं समूसिअं विमलं आयवत्तं पवर सिंहासणं च मणिरयणपायपीढ सपाउआजोगसमाउत्त बहुकिंकरकम्मकरपुरिसपायत्तपरिक्खित्तं पुरओ अहाणुपुव्वीए संपट्ठिअंति, अत्र व्याख्याप्रलम्बेन कोरण्टाभिधानवृक्षस्य माल्यदाम्ना, पुष्पमालयोपशोभितं चन्द्रमण्डलनिभं समुच्छितम् ऊयी कृतं विमलमातपत्रं-छत्रं प्रवरं सिंहासनं च मणिरत्नमयं पादपीठं-पदासनं यस्मिंस्तत्तथा, स्वः-स्वकीयो राजसत्क इत्यर्थः, पादुकायोगः-पादरक्षणयुगं तेन समायुक्तं, बहवः किङ्कराः- प्रतिकर्म पृच्छाकारिणः कर्मकराः- ततोऽन्यथाविधास्ते च ते पुरुषाश्चेति समासः / पादातंपदातिसमू-हरतैः परिक्षिप्त-सर्वतोवेष्टितं तैधृतत्वादेवपुरतोयथानुपूर्व्या संप्रस्थितं, 'तए णं' इत्यादि, ततः सप्त एकेन्द्रियरत्नानि पृथिवीपरिणामरूपाणि पुरतः संप्रस्थितानि, तद्यथाचक्ररत्नाऽऽदीनि प्रागभिहितस्वरूपाणि, चक्ररत्नस्य च एकेन्द्रियरत्नखण्डसूत्रपाठादेवात्र भणन, तस्य मार्गदर्शकत्वेन सर्वतः पुरः संचरणीयत्वात्, अत्र च गत्यानन्तर्यस्य वक्तुमुपक्रान्तत्वादिति, 'तयणंतरं च णं णव महाणिहिओ पुरओ' इत्यादि, ततो नव महानिधयोऽग्रतः प्रस्थिताः पातालमार्गेणेति गम्यम्, अन्यथा तेषां निधिव्यवहार एवन सङ्गच्छते, तद्यथा-नैसर्पः पाण्डुको यावच्छखः सर्व प्राग्वत्, उक्ता स्थावराणां पुरतो गतिः किड्करजनधृतत्वेन दिव्यानुभावेन वा, अथ जङ्गमानां गतेरवसर इति 'तयणंतरंच णं सोलस देव' इत्यादि, ततः षोडश देवसहस्राः पुरतो यथानुपूर्व्या संप्रस्थिताः, 'तयणंतरं च णं बत्तीसं' इत्यादि, व्यक्तं- 'तएण' इत्यादि व्यक्तं, नवरं पुरोहितरत्नशान्तिकर्मकृत, रणे प्रहारार्दितानां मणिरत्नजलच्छटया वेदनोपशामक, हस्त्यश्वरत्नगमनं तु हस्त्यश्वसेनया सहैव विवक्ष्यते तेन नात्र कथनं, 'तएणं' इत्यादि, ततो द्वात्रिंशत् ऋतुकल्याणिकाः ऋतुषु षट्स्वपि कल्याणिकाः- ऋतुविपरीतस्पर्शत्वेन सुखस्पर्शाः। अथवाऽमृतकन्यात्वेन सदा कल्याणकारिण्यः, नतु चन्द्रगुप्तसहायपर्वतभूपतिपाणिगृहीतमात्रप्राणहारिनन्दनृपनन्दिनीवद्विषकन्यारूपास्तासां सहस्राः पुरतः प्रस्थिताः, समर्थविशेषणाद्विशेष्यं लभ्यते इति लक्षणगुणयोगाद्राजकन्या अत्र ज्ञेयास्तासामेवजन्मान्तरोपचितप्रकृष्टपुण्यप्रकृतिमहिम्ना राजकुलोत्पत्तिवद् यथोक्तलक्षणगुणसम्भवात् जनपदाग्रणीकन्यानामग्रेतनसूत्रेणाभिधानाच्च तासां सहस्राः पुरतो यथानुपूर्व्या-यथाज्येष्ठलघुपर्यायं संप्रस्थिताः, तथा द्वात्रिंशत् 'जण-यव त्ति' जनपदाग्रणीनां देशमुख्यानां कल्याणिकानां सहस्राः अग्रेतथैव, अत्रपदैकदेशे पदसमुदायोपचाराज्जनपदग्रहणेनजनपदाग्रण्यो ज्ञेयाः, न चैवं स्वमतिकल्पितमिति वाच्यं, 'तावतीभिर्जनपदाग्रणीकन्याभिरावृतः / ' इति श्रीऋषभचरित्रे साम्मत्यदर्शनात्, तदनन्तरं द्वात्रिंशत् द्वात्रिंशत् द्वात्रिंशता पात्रः- अभिनेतव्यप्रकारैर्बद्धाः- संयुक्ता नाटकसहस्राः पुरतो यथानुा प्रथमं प्रथमोढापितृप्राभृतीकृतनाटकं ततस्तदनन्तरोढानाटकमिति क्रमेण सम्प्रस्थिताः, एतेषां चोक्तस ख्याकता द्वात्रिंशता राजवरसहौः स्वस्वकन्यापाणिग्रहणकारणे प्रत्येक करमोचनसमयसमर्पिते-कैकनाटकसद्भावात्, 'तयणतरं चणं तिणि सट्टा सूयसया' इत्यादि / ततः त्रीणि सूपानां पूर्ववदुपचारात् सूपकाराणां शतानिषष्टानि-षष्ट्यधिकानि वर्षदिवसेषु प्रत्येकमेकैकस्य रसवतीवारकदानात् ततः कुम्भकाराऽऽद्या अष्टादश श्रेणयः तदवान्तरभेदाः प्रश्रेणयः ततः चतुरशीतिरश्वशतसहस्राः ततश्चतुरशीतिर्हस्तिशतसहस्राः ततः षण्णवतिर्मनुष्याणां पदातीना कोट्यः पुरतः प्रस्थिताः, 'तयणंतरं च णं' इत्यादि, ततो बहवो राजेश्वरतलवराः, यावत्पदात् 'माडबिअको९विय' इत्यादि-परिग्रहः / सार्थवाहप्रभृतयः पुरतः सम्प्रस्थिताः, अर्थः प्राग्वत्, 'तयणंतर चणं इत्यादि, ततो बहवोऽसिःखड्गः स एव यष्टिः- दण्डोऽसियष्टिस्तद्ग्राहाः- तद्ग्राहिणः, अथवा असिश्च यष्टिश्चेतिद्वन्द्वेतग्राहिण इति, एवमग्रेऽपि यथासम्भवमक्षरयोजना कार्या, नवरं कुन्ताश्चामराणि च प्रतीतानि, पाशा-बूतोपकरणानि, उत्त्रस्ताश्वाऽऽदिबन्धनानि वा फलकानि-सम्पुटकफलकानिखेटकानि वा अवष्टम्भानि वा द्यूतोपकरणानि वा पुस्तकानि- शुभाशुभपरिज्ञानहेतुशारखपत्रसमुदायरूपाणि, वीणाग्राहा व्यक्तं, कुतपः- तैलाऽऽदिभाजनं, 'हडप्फो -द्रम्माऽदिभाजनं, ताम्यूलार्थे पूगफलाऽऽदिभाजनंवा, 'पीढग्गाहा दीविअग्गाहा' इति पदद्वयं सूत्रे दृश्यमानमपि संग्रहगाथायामदृष्टत्वेन न लिखितं, तद्व्याख्यानं त्वेवम्- पीठम् - आसनविशेषःदीपिका च प्रतीतेति, स्वकः 2 स्वकीयैः २-रूपैः-आकारैः, एवं स्वकीयैः२ इत्यर्थः। वेषैःवस्त्रालङ्काररूपैः चिह्नः-अभिज्ञानः नियोगःव्यापारः स्वकीयप