________________ भरह 1460 - अभिधानराजेन्द्रः - भाग 5 भरह समसरीरं भरहे वासम्मि सव्वमहिलप्पहाणं सुंदरथणजघणवरकरचलणणयणसिरसिजदसणजणहिअयरमणमणहरिं सिंगारागार० जाव जुत्तोवयारकुसलं अमरवहूणं सुरूवं रूवेणं अणुहरंत्ति सुभदं सुभद्दम्मि जोव्वणे वट्टमाणिं इत्थीरयणं णमी अरयणाणि य कडगाणि य तुडिआणि अगेण्हइ, गेण्हित्ता ताए उक्किट्ठाए तुरिआए० जाव उर्दूआए विज्जाहरगईए जेणेव भरहे राया तेणेव उवागच्छंति, उवागच्छित्ता अंतलिक्खपडिवण्णा सखिंखिणीयाई०जाव जएणं विजएणं वद्धावेंति वद्धावेत्ता एवं बयासी-अभिजिएणं देवाणुप्पिआ! जाव अम्हे देवाणुप्पिआणं आणत्तिकिंकरा इति कटु तं पडिच्छंतु णं देवाणुप्पिआ ! अम्हं इमं० जाव विणमी इत्थीरयणं णमी रयणाणि समप्पेइ। तए णं भरहे राया० जाव पडि-विसजेइ, पडिविसज्जित्ता पोसहसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता मजणघरं अणुपविसइ, अणुपविसित्ता भोअणमंडवे० जाव नमिविनमीणं विजाहरराईणं अट्ठाहि-अमहामहिमा, तए णं से दिव्वे चक्करयणे आउहघरसालाओ पडिणिक्खमइ० जाव उत्तरपुरच्छिमं दिसिं गंगादेवीभवणाभिमुहे पयाए आवि होत्था, सच्चेव सव्वा सिंधुवत्तव्वया० जाव नवरं कुंभट्ठसहस्सं रयणचित्तं णाणामणिकणगरयणभत्तिचित्ताणि अदुवे कणगसीहासणाई सेसं तं चेव०जाव महिम त्ति। (सूत्रम्-६४) 'तएणं' इत्यादि, ततः स भरतो राजा तदिव्यं चक्ररत्नंदक्षिणा-दिशि वैताढ्यपर्वताभिमुखं प्रयातं पश्यति, दृष्ट्वा चप्रमोदादि तावद् वक्तव्यं यावद्भरतो यत्रैव वैतादयस्य पर्वतस्योत्तरपार्श्ववर्ती नितम्बः- कटकस्तत्रैवोपागच्छति, उपागत्य च वैताढ्यस्य पर्वतस्योत्तरभागवर्तिनि नितम्बे द्वादशयोजनाऽऽयाम, यावत्पदकरणात् नवयोजनविस्तीर्णमित्यादिकं स्कन्धावारनिवेशाऽऽदि वाच्य, पौषधशालामनुप्रविशति भरतः, अत्र यावत्पदात् पौषधविशेषणानि सर्वाणि वाच्यानि, नमिविनम्योः- श्रीऋषभस्वामिमहासामन्तकच्छमहाकच्छसुतयोविद्याधरराज्ञोः साधनायाष्टमभक्तंप्रगृह्णाति, प्रगृहा च पौषधशालायां यावच्छब्दात् पौषधिकाऽऽदिविशेषणविशिष्टो नमिविनमिविद्याधरराजानौ मनसि कुर्वाणो मनसि कुर्वाणस्तिष्ठति, एते खगाअनुकम्प्याः एतेषामुपरि बाणमोक्षणेन प्राणदर्शनं न क्षत्रियधर्म इति सिन्ध्वादिसुरीणामिवानयोर्मनसि करणमात्ररूपे साधनोपाये प्रवृत्तः, तेन न द्वादशवार्षिकयुद्धमप्यत्राभिहितं, यत्तु हेमचन्द्रसूरिभिरादिनाथचरित्रे शरमोचनाऽऽदि चूर्णिकृता तु युद्धमात्रं द्वादशवर्शावधि अण्णे भणंति' इत्युक्त्वा उक्तं तन्मतान्तरमवसेयमिति, अत्रान्तरे यज्जातं तदाह- 'तएणं इत्यादि,तस्य भरतस्याष्टमभत्त परिणमिति सति नमिविनमी विद्याधरराजानौ दिव्यया दिव्यानुभावजनितत्वात्मत्याज्ञानेन चोदितमती प्रेरितमतिको अवधिज्ञानाऽऽद्यभावेऽपि यत्तयोर्भरतमनोविषयकज्ञानं तत्सौधर्मेशानदेवीनां मनः- प्रविचारिदेवानां कामानुषक्तमनोज्ञानमिव दिव्यानुभावादवगन्त व्यम्, अन्यथा तासामपि स्वविमानचूलिकाध्वजाऽऽदिमात्रविषयकावधिमतीनां तद्विरसाज्ञानासम्भवेन सुरतानुकूलचेष्टान्मुखत्वं न सम्भवेदिति, एतादृशावन्योऽन्यस्यान्तिकं प्रादुर्भवतः, प्रादुर्भूय च एवमवादिपाता, किमवादिषातामित्याह- 'उप्पण्णे खलु' इत्यादि, उत्पन्नः खलुःअवधारणे भो देवानुप्रिया ! जम्बूद्वीपे द्वीपे भरतवर्षे भरतनामा राजा चतुरन्तचक्रवर्ती तस्माजीतमेतत् कल्प एषोऽतीतवर्तमानानागताना विद्याधरराज्ञां चक्रवर्तिनामुपस्थानिक प्राभूत कर्तु, तद् गच्छामो देवानुप्रिया ! वयमपि भरतस्य राज्ञ उपस्थानिकं कुर्मा 'इति कट्ट' इत्यादि इति कृत्वा-इति अन्योऽन्यं भणित्वा विनमिरुत्तरश्रेण्याधेपतिः सुभद्रां नाम्ना स्त्रीरत्न नमिश्च दक्षिणश्रेण्यधिपतिः रत्नानि कटकानि त्रुटिकानिच गृह्णातीत्यन्वयः। अथ कीदृशः सम् विनमिः किं कृत्वा सुभद्रां कन्यारत्नं गृहणातीत्याह- दिव्यया मत्या नोदितमतिः सन् चक्रवर्तिनं ज्ञात्वा, अत्रानन्तरोक्तसूत्रतश्चक्रवर्तित्वे लब्धेऽपि यत् ‘णाऊण' चमवट्टि इत्याधुक्तं तत् सुभद्रा स्त्रीरत्नमस्यैवोपयोगीति योग्यताख्यापनार्थ, किंलक्षणां सुभद्रामित्याह- 'मानोन्मानप्रमाणयुक्ता' तत्र मानं जलद्रोणप्रमाणता, उन्मान- तुलारोपितस्यार्द्धभारप्रमाणता यश्च स्वमुखानि नव समुच्छितः स प्रमाणोपेतः स्यात् / अयमर्थः - जलपूर्णायां पुरुषप्रमाणादीषदतिरिक्तायां महत्यां कुण्डिकायां प्रवेशितो यः पुरुषः सारपुद्गलोपचितो जलस्य द्रोणं त्रिटङ्कसौवर्णिकगणनापेक्षया द्वात्रिंशत्सेरप्रमाणं निष्काशयति, जलद्रोणोनां वा तां पूरयति स मानोपेतः, तथा सारपुद्गलोपचितत्वादेव यस्तु-लायामारोपितः सन्नद्धभारंपलसहस्राऽऽत्मकं तुलयति स उन्मानोपेतः, तथा यद्यस्याऽऽत्मीयमगुल तेनाङ्गुलन द्वादशाङ्गुलानि मुखं प्रमाणयुक् अनेन च मुखप्रमाणेन नव मुखानि पुरुषः प्रमाणयुक्त : स्यात्, प्रत्येक द्वादशाङ्गुलैनवभिर्मुखैरष्टोत्तरशतमगुलानां सम्पद्यते, ततश्चैतावदुच्छ्रयः पुरुषः प्रमाणयुक्तः स्यात्, एवं सुभद्राऽपि मानोन्मानप्रमाणयुक्ता, तथा तेजस्विनी व्यक्तं रूपसुन्दराऽऽकारो लक्षणानि च-छत्रादीनि तैर्युक्तां, स्थितमविनाशित्याद्यौवनं यस्याः सा तथा, केशवदवस्थिता-अवद्धिष्णवो नखा यस्याः सा तथा, ततः पदद्वयकर्मधारये ताम्। अयं भावः- भुजमूलाऽऽदिरोमाण्यजहद्रोमस्वभावान्येव तस्याः स्युरिति, अन्यथा तत्केशपाशस्य प्रलम्बतया व्याख्यानम् उत्तर-सूत्रे करिष्यमाणं नोपपद्यते,( तस्याः स्पर्शः चक्रवर्तिनः सर्वदोषनाशक इत्यर्थः, त चैवमन्तरामये दाघज्वरोपगते ब्रह्मादत्तचक्रवर्तिनि व्यभिचारः, प्रत्यासन्नमृत्योस्तदानी तत्स्पर्शसहने सामर्थ्याभावात् अवश्यंभाविवस्तुत्वाच्च (ही० वृत्तौ) सर्वरोगनाशनी , तदीयस्पर्शमहिम्ना सर्वे रोगा नश्यन्तीति, तथा बलकरी सम्भोगतो बलवृद्धिकरी नापरपुरन्ध्रीणामिवास्याः परिभोगे परिभोक्तुबलक्षय इति भावः / ननु यदि श्रूयते समये हस्तस्पृष्टाश्वग्लानिदर्शनेन स्त्रीरत्नस्य स्वकामुकपुरुषविभीषिकोत्पादनं तर्हि कथमेतदुपपद्यते ? उच्यते- चक्रवर्त्तिनमेवापेक्ष्यैतद्विशेषणद्वयस्यव्याख्यानात्, यत्तु सत्यपि स्त्रीरत्ने ब्रह्मदत्तचक्रभृतो दाहानुपशमः तत्र समाधानमधस्तनग्रन्थ दण्डकवर्णनव्याख्यातोऽवसेयम्, ईप्सिताऋतुविपरीतत्वेनेच्छागोच