________________ भरह 1443- अमिधानराजेन्द्रः - भाग 5 भरह तावुत्कृष्टवस्तूनि प्रतीच्छगृहाण, प्रतीष्य च ममैतामाज्ञप्तिकां प्रत्यर्पयेति, ततः सुषेणो यथा चक्रे तथाऽऽह-'ततेणं' इत्यादि, ततो भरताऽऽज्ञानन्तरं स सुषेणः एवं स्वामिस्तथेत्याज्ञया विनयेन वचनं प्रतिशृणोति इति पर्यन्तपदयोजना, व्याख्या त्वस्य प्राग्वत्, किंभूतः सुषेणः? सेनाहस्त्यादिस्कन्धस्तद्रूपस्य बलस्य नेताप्रभुः स्वातन्त्र्येण प्रवर्तकः भरते वर्षे विश्रुतयशाः महतः-अतुच्छस्य वलस्यसैन्यस्य प्रक्रमात् भरतचक्रवर्तिसम्बन्धिनः पराक्रमो यस्मात् तथा, दृष्ट हि बलवति प्रभौ बलं बलवद्भवतीति, एतेन 'ओअंसी ति' पदे: न पौनरुक्त्य, महात्मा उदा(र) तस्वभावः, ओजस्वी आत्मना वीर्याधिकः तेजसा शारीरेण लक्षणैश्वसत्त्वाऽऽदिभिर्युक्तः, म्लेच्छभाषासुपारसीआरवीप्रमुखासु विशारदः-पण्डितः, तत्तन्म्लेच्छदेशभाषाज्ञो हि तत्तद्देशीयम्ले-च्छान् सामदानाऽऽदिवाक्यैर्वोढुं समर्थो भवति, अत एव चित्र-विविधं चारुअग्राम्यताऽऽदिगुणोपेतं भाषत इत्येवंशीलः, भरतक्षेत्रे निष्कुटाना निम्नानां च-गम्भीरस्थानानां दुर्गमानांच-दुःखेन गन्तुं शक्यानां दुष्प्रवेशानांदुःखेन प्रवेष्टु शक्यानां भूभागानां विज्ञायकस्तत्र तद्वासीव प्रचारचतुरः, अत एवैना योग्यता विभाव्यैतादृशे शासने नियुक्तः, अर्थशारत्रनीतिशास्त्राऽदि तत्र कुशलः रत्न सेनापतिः-सैन्येशेषु मुख्यः, भरतेन राज्ञा एवमुक्तः सन् हृष्टतुष्टेत्यादि प्राग्वत्, ततः स किं करोतीत्याह'पडिसुणेत्ता' इत्यादि, सर्व चैतत् पाठसिद्ध नवरं सुषेणविशेषणं सन्नद्ध शरीराऽऽरोपणात् बद्ध कसाबन्धनतः वर्मलोहकत्तलाऽऽदिरूप सञ्जातमस्येति वम्मितम् ईदृश कवचंतनुत्राणं यस्य स तथा, उत्पीडिताऽऽगाढं गुणाऽऽरोपणादृढीकृता शराऽऽसनपट्टिकाधनुर्दण्डो येनसतथा, पिनद्धं ग्रेवयंग्रीवात्राणं ग्रीवाऽऽभरणं वा येन स तथा बद्धोग्रन्थिदानेन आविद्धः परिहितो मूर्धवेष्टनेन विमलवरचिह्नपट्टोवीरातिवीरतासूचकवस्त्रविशेषो येन स तथा, पश्चात्पदद्वयस्य कर्मधारयः, गृहीतान्यायुधानि प्रहरणानि च येन स तथा, आयुधप्रहरणयोस्तु क्षेप्याक्षेप्यकृतो विशेषो बोध्यः, तत्र क्षेप्यानि बाणाऽऽदीनि अक्षेप्यानि खङ्गाऽऽदीनि, अथवा- गृहीतानि आयुधानि प्रहरणाय येन स तथेति। 'तएणं' इत्यादि-प्राग्व्याख्यातार्थ, नवरं वाक्ययोजनाया ततः सुषेणश्चर्मरत्नं परामृशतिस्पृशति, इत्यन्तं सम्बन्ध इति, एतत्प्रस्तावाच्च रत्नवर्णनमाह- 'तएणं तं' इत्यादि, तच्चर्मरत्नम् उक्तविशेषणविशिष्ट भवतीत्यन्चयः, ततो-विस्तीर्णो विस्तृतनामक इत्यर्थः, एवंविधः इनः-स्वामी चक्रवर्तिरूपो यस्य तत् ततेनं, यस्य हस्तस्पर्शतः इच्छया वा विस्तृणाति स स्वामीत्यर्थः, श्रीवत्ससदृश-श्रीवत्साऽऽकारं रूपं यस्य तत्तथा, नन्वस्य श्रीवत्साऽऽकारत्वे चत्वारोऽपि प्रान्ताः समविषमा भवन्ति तथा चास्य किरातकृतवृष्ट्युपद्रवनिवारणार्थ तिर्यविस्तृतेन वृत्ताऽऽकारेण छत्ररत्नेन सह कथं सङ्घटना स्यादिति? उच्यते-स्वतः श्रीवत्साऽऽकारमपि सहस्रदेवाधिष्ठितत्वाद्यथावसरं चिन्तिताऽऽकारमेव भवतीति न काऽप्यनुपपत्तिः, मुक्तानांमौक्तिकानां ताराणांतारकाणाम् अर्द्धचन्द्राणां चित्राणिअलिख्यानि यत्र तत्तथा, अचलं अकम्पं द्वौ सदृशार्थको शब्दावतिशयसूचकावित्यत्यन्तदृढपरिणामं चक्रिसकलसैन्याऽऽक्रान्तत्वेऽपि न / मनागपि कम्पते, अभेद्यदुर्भेदं कवचमियाभेद्यकवचं लुप्तोपमा वजपञ्जरमिव दुर्भेदमित्याशयः, सलिलासुनदीषु सागरेषु चोत्तरणयन्त्र पारगमनोपायभूतं दिव्यंदेवकृतप्रातिहार्य चर्मरत्नंचर्मसु प्रधानं, अनलजलाऽs - दिभिरनुपघात्यवीर्यत्वात्, यत्र शणंशणधान्यं सप्तदशंसप्तदशसङ्ख्यापूरकं येषुतानि शणसप्तदशानि सर्वधान्यानि रोहन्तेजायन्ते एकदिवसेनोप्तानि, अयं सम्प्रदायः-गृहपतिरत्नेवास्मिश्चर्मणिधान्यानि सूर्योदये उप्यन्ते अस्तमनसमये च लूयन्ते इति, सप्तदश धान्यानि त्विमानि- "सालि 1 जव 2 वीहि 3 कुद्दव 4, रात्नय 5 तिल 6 मुग्ग 7 मास 8 चवल : चिणा 10 / तूअरि 11 मसूरि 13 कुलत्था 13. गोहुम 14 णिप्फाव 15 अयसि 16 सणा 17 // 1 // " प्रायो बहूपयोगीनीमानीतीयन्त्युक्तानि, अन्यत्र चतुर्विंशतिरप्युक्तानि, लोके च क्षुद्रधान्यानि बहून्यपि, पुनरस्यैव गुणान्तरमाह-वर्षजलदवृष्टिं ज्ञात्वा चक्रवर्त्तिना परामृष्ट दिव्यं चर्मरत्नद्वादशयोजनानि तिर्यक् प्रविस्तृणातिवर्द्धते, तत्रोत्तरमध्यखण्डवर्तिकिरातकृतमेघोपद्रवनिवारणाऽऽदिकार्य साधिकानि-किञ्चिदधिकानि, ननु द्वादशयोजनावधि तस्थुषश्चक्रिस्कन्धावारस्यावकाशाय द्वादशयोजनप्रमाणमेवेदं विस्तृतं युज्यते किमधि-कविस्तारेण? उच्यते- चमच्छत्रयोरन्तरालपूरणायोपयुज्यते साधिकविस्तार इति / यच्चात्र प्रकरणाद् यच्छब्देनैव विशेष्या-प्राप्ती सूत्रे पुनरपि "दिव्वे चम्मरयणे' इति ग्रहणं तदालपकान्त-रव्यवधानेन विस्मरणशीलस्य विनेयस्य स्मारणार्थम, अथ प्रकृतं प्रस्तूयते- 'तंए ण' इत्यादि, ततस्तदिव्यं चर्मरत्नं सुषेणसेनापति-ना परागृष्टं-स्पृष्ट तत् क्षिप्रमेवनिर्विलम्बमेव नौभूतं-महानद्युत्ताराय नौतुल्यं जातं चाप्यभवत्, नावाकारेण जातमित्यर्थः, 'तएणं' इत्यादि, ततः- चर्मरत्ननौभवनानन्तरं सुषेणः सेनापति:- सेनानीः स्कन्धावारस्य-सैन्यस्य ये बलवाहने-हरत्यादिचतुरङ्गशिबिकाऽऽदिरूपे ताभ्यां सह वर्तते यः स सस्कन्धावारबलवाहनः नौभूतं चर्मरत्नमारोहति, सिन्धुमहानदी विमलजलस्य तुङ्गाअत्युच्चा वीचयः-कल्लोला यस्यां सा तां नौभूतेन चर्मरत्नेन बल-वाहनाभ्यां सह वर्तते, यः स सबलवाहनः, एवं सशासनो भरता-ज्ञासहितः समुत्तीर्ण इति। 'तओ महाणई तत इति कथान्तरप्रस्तावनायां महानदी सिन्धुमुत्तीर्याऽप्रतिहतशासनः अखण्डिताऽऽज्ञः सेनापतिः सेनानीः क्वचिद् ग्रामाऽऽकरनगरपर्वतान्, सूत्रे क्लीबत्वं प्राकृतत्वात्, 'खेड़े' त्यादि, सिंहावलोकनन्यायेन क्वचिच्छब्दो-त्रापि ग्राहस्तेन क्वचित् खेटमडम्बानि क्वचित्पत्तनानि तथा सिंहलकान्. सिंहलदेशोद्भवान्, बर्बरकाँश्च बर्बरदेशोद्भवान्, सर्वं च अङ्ग लोकं बलावलोकं च परमरम्यम्, इमे च द्वे अपिम्लेच्छजातीयजनाऽऽश्रयभूते स्थाने, यवनदीपं-द्वीपविशेषम्, अत्र चकाराः समुच्चयार्थाः, एवमग्रेऽपि, त्रयाणामप्यमीषां साधारणविशेषणमाह-प्रवरमणिरत्नकनकानां कोशागाराणि-भाण्डा-गाराणि तैः समृद्धभृशं भृतम्, आरबकान् आरबदेशोद्भवानोमकांश्व-रोमकदेशोद्भवान् अलसण्डविषयवासिनश्च पिक्खुरान् कालमुखान् जोनकांश्च म्लेच्छविशेषान् ‘ओअवेऊण त्ति' पदेन योगः,अथैतैः साधितैरशेषमपि निष्कुट साधितमुत नेत्याह- उत्तरःउत्तरदिग्वर्ती वैताढ्यः, इदं हि दक्षिणसिन्धुनिष्कुटान्तेन, अ