________________ भरह 1425 - अभिधानराजेन्द्रः - भाग 5 भरह वः, अहतं-मलमूषिकाऽऽदिभिरनुपद्रुतं प्रत्यग्रमित्यर्थः, सुमहार्घबहुमूल्य यद्दूष्यरत्नप्रधानवस्त्र तत्सुसंवृतंसुष्टुपरिहितं येन स तथा, अनेनाऽऽदी | वस्त्रालङ्कार उक्तः, अत्र च वस्वसूत्रं पूर्व योजनीय, चन्दनसूत्रं पश्चात्. क्रमग्राधान्याद व्याख्यानस्य, न हि स्नानोरिथत एव चन्दनेन वपुर्विलिग्पतीति विधिक्रमः, शुचिनीपवित्रे मालावर्णकविलेपने पुष्पसग्मण्डनकारिकु डकुमाऽऽदिविलेपने यस्य स तथा अनेन पुष्पालङ्कारमाह, अधस्तनसूत्रेवपुःसौगन्ध्यार्थमेव विलेपनमभिहितम्, अत्र तुवपुर्मण्डनायेति विशेषः; आविद्धानिपरिहितानि मणिसुवर्णानि येन स तथा, एतेनास्य रजतरीरीमयाऽऽद्यलङ्कारनिषेधः सूचितः, मणिस्वर्णालङ्कारानेव विशेषत आह-कल्पितो-यथास्थानं विन्यस्तो हारः-अष्टादशसरिकोऽर्द्धहारोनवसरिकस्त्रिसरिकं च प्रतीत येन स तथा प्रलम्बमानः प्रालम्बोझुम्बनकं यस्य स तथा, सूत्रे च पदव्यत्ययः प्राकृतत्वात्, कटिसूत्रेणकट्याभरणेन सुष्टु कृता शोभा यस्य स तथा, अत्र पदत्रयस्य कर्मधारयः। अथवा-कल्पितहाराऽऽदिभिः सुकृता शोभा यस्य सतथा, पिनद्वानिबद्धानि |वेयकाणिकण्ठाऽऽभरणानि अङ्गुलीयकानिअड्गुल्याभरणानि येन स तथा, अनेनाऽऽभरणालङ्कार उक्तः, तथा ललितसुकुमालेऽङ्ग के मृर्द्धाऽऽदौ ललितानिशोभावन्ति कचानाकेशानाम् आभरणानि पुष्पाऽऽदीनि यस्य स तथा अनेन केशालङ्कार उक्तः / अथ सिंहावलोकनन्यायेन पुनरप्याभरणालङ्कार वर्णयन्नाहनानामणीना कटकत्रुटिकैः-हस्तबाहाभरणविशेषैर्बहुत्वात् स्तम्भिताविव स्तम्भिती भुजौ यस्य स तथा, अधिकसश्रीक इति स्पष्ट, कुण्डलाभ्यामुद्द्योतितम् आननं मुखं यस्य स तथा, मुकुटदीप्तशिरस्कः स्पष्ट, हारेणावस्तृतम्-आच्छादित तेनैव हेतुना प्रेक्षकजनाना सुकृतरतिकं वक्षो यस्य स तथा, प्रलम्बनदीर्घेण प्रलम्बमानेनदोलायमानेन सुकृतेन-सुष्टु निर्मितन पटेनबस्नेन उत्तरीयम् उत्तराऽऽसङ्गोयस्यस तथा, प्राकृतल्यात् पूर्वपदस्यदीर्घत्वं, मुद्रिकाभिः साक्षराङ्गुलीयकैः पिङ्गला अगुल्यो यस्य स तथा, बहुब्रीहिलक्षणः कप्रत्ययः, नानामणिमयं विमलं महार्घबहुमूल्यं निपुणेन शिल्पिना 'ओअविअ ति।' परिकर्मित मिसिभिसेंत त्ति दीप्यमानं विरचितं निम्मित सुश्लिष्ट- सुसन्धि विशिष्टम् अन्येभ्यो विशेषवत् लष्ट - मनोहर संस्थितं संस्थानं यस्य तत्, पश्चात् पूर्वपदैः कर्मधारयः, एवविध प्रशस्तम् आबिद्धपरिहितं वीरवलयं येन स तथा अन्योऽपि यः (दि) कश्चिद्वीरव्रतधारी तदाऽसौ मां विजित्य मोचयत्वेतद्वलयमिति स्पर्द्धयन् (यत्) परिदधाति तीखलयमिति इत्युच्यते; किं बहुना वर्णितेनेति शेषः, 'कप्परुखए चेव त्ति' अत्र चेवशब्द इवार्थे , तेन कल्पवृक्षक इवालकृतो विभूषितश्च, तत्रालड्कृतो दलाऽऽदिभिविभूषितः फलपुष्पाऽऽदिभिः कल्पवृक्षो राजा तु मुकुटाऽऽदिभिरलड़कृतो विभूषितस्तु वस्त्राऽऽदिभिरिति, नरेन्द्रः 'सकोरंट जाव ति' अत्र यावत्करणात् 'सकोरंटमल्लदामेणं छत्तेण धरिज्जमाणेणं' इति ग्राह्यम, तत्र सकोरण्टानिकोरण्टाभिधानकुसुमस्तवकवन्ति, कोरण्टपुष्पाणि हि पीतवर्णानि मालान्तेशोभार्थ दीयन्ते, मालायै हितानि माल्यानिपुष्पा णीत्यर्थः, तेषा दामानिमाला यत्र तत्तथा, एवंविधेन छत्रेण ध्रियमाणेन शिरसि, विराजमान इति गम्य, चतुर्णाम्-अग्रतः पृष्ठतः पार्श्वयोश्च वीज्यमानत्वाच्चतुःसंख्याकानां चामराणां बालैर्वी जितमङ्गं यस्येति, मङ्गलभूतो जयशब्दो जनेन कृत आलोकेदर्शन यस्य स तथा अनेन गणनायकामल्लाऽऽदिगणमुख्याः दण्डनायकाः-तन्त्रपालाः / यावत्पदात् 'ईसरतलवरमाडविअकोडुबिअमंतिमहामंतिगणगदोवारिअअमच्चचेडपीढमद्दणगरणिगमसेट्ठि-सेणावइसत्थवाह / ' इति द्रष्टव्यम् / अत्र व्याख्या- तत्र राजानो-माण्डलिकाः, ईश्वराः-युवराजानो मतान्तरण अणिमाऽऽद्यैश्वर्य-युक्ताः, तलवराः परितुष्टनृपदत्तपट्टबन्धविभूषिता राजस्थानीयाः, माडम्बिकाः-छिन्नमडम्बाधिपाः, कौटुम्बिकाःकतिपय-कुटुम्बप्रभवोऽवलगकाः मन्त्रिणः-प्रतीताः-महामन्त्रिणोमन्त्रिमण्डलप्रधानाः, गणका-गणितज्ञा भाण्डागारिका वा, दौवारिका:-प्रतीहाराः, अमात्या-राज्याधिष्ठा-यकाः, चेटाः-पादमूलिका दासा वा, पीठमा-आस्थाने आसन्नासन्नसेवकाः; वयस्या इत्यर्थः / वेश्याऽऽचार्या वा। नगरं-तात्स्थ्यात्तद्व्यपदेशेन नगरनिवासिप्रकृतयः, निगमाः-कारणिका वणिजो वा श्रेष्ठिन:-श्रीदेवताऽध्यासितसौवर्णपट्टभूषितोत्तमाङ्गाः। अथवा-नगराणां निगमाना च-वणिग्वासानां श्रेष्ठिनोमहत्तराः, सेनापतयः-चतुरङ्ग सैन्यनायकाः, सार्थवाहाःसार्थनायकाः, दूता अन्येषां राज्यं गत्वा राजाऽऽदेशनिवेदकाः, सन्धिपाला-राज्यसन्धिरक्षकाः / एषां द्वन्द्वस्ततस्तैः, अत्र तृतीयाबहुवचनलोपो द्रष्टव्यः, सार्द्ध सह न केवलं तत्सहितत्वमेय, अपि तु-तैः समितिसमन्तात् परिवृतः-परिकरित इति, नरपतिर्मज्जनगृहात् प्रतिनिष्कामतीति सम्बन्धः, किम्भूतः? प्रियदर्शनः, क इव ? धवलमहामेघः- शरन्मेघस्तस्मान्निर्गत इव, अत्र यावत्पदात्, 'गहगणदिप्पंतरिक्खतारागणाण मज्झे' इति संग्रहःतेन शशिपदाग्रस्थ इवशब्दो ग्रहगतिविशेषणेन योज्यः, ततोऽयमर्थः सम्पन्न उपमानिर्वाहाय-यथा चन्द्रः शरदभ्रपटलनिर्गत इव ग्रहगणानां दीप्यमानऋक्षाणा-शोभमाननक्षत्राणां तारागणस्य च मध्ये वर्तमान इव प्रियदर्शनो-भवति तथा भरतोऽपि सुधाधवलान्मज्जनगृहानिर्गतोऽनेकगण-नायकाऽऽदिपरिवारमध्ये वर्तमानः प्रियदर्शनोऽभवत्, पुनः कीदृशो नृपतिः प्रतिनिष्क्रामतीत्याह-धूपपुष्पगन्धमाल्यानि पूजोपकरणानि हस्तगतानि यस्य स तथा तत्र धूपो दशाङ्गाऽऽदिः, पुष्पाणिप्रकीर्णककुसुमानि, गन्धावासाः, माल्यानिग्रथित-पुष्पाणीति। प्रतिनिष्क्रम्य च किं कृतवानित्याह- (जेणेव इत्यादि) यत्रैवाऽऽयुधगृहशाला यत्रैव च चक्ररत्न तत्रैव प्रधारितवान् गमनायगन्तुं प्रावर्तत इत्यर्थः / अथ भरतगमनानन्तरं यथा तदनुचराशुकुस्तथाऽऽह- (तएण इत्यादि) ततो-भरताऽऽगमनादनुतस्य-भरतस्य राज्ञो बहव ईश्वरप्रभृतयः-यावत्पदसड्-ग्राह्यास्तलवर-प्रभृतयः पूर्ववत्, अपिढिाथै, एके केचन पद्महस्तगताः, एके केचन उत्पलहस्तगताः, एवं सर्वाण्यपि विशेषणानिवाच्यानि,यावत्पदात्- 'अप्पेगइआ कुमुअहत्थगया अप्पेगइया नलिणहत्थ-गया अप्पेगइया सोगंधिअहत्थगया अप्पे