________________ भरह 1423 - अभिधानराजेन्द्रः - भाग 5 भरह वरेहिं गंधेहिं मल्ले हि अ अच्चिण्णइ, पुप्फारुहणं मल्लगंधवण्णचुण्णवत्थारुहणं आमरणारुहणं करेइ, करित्ता अच्छेहिं सण्हेहिं सेएहिं रययामएहिं अच्छरसातंडुलेहिं चक्करयणस्स पुरओ अट्ठऽट्ठमंगलए आलिहइ / तं जहा-सोत्थिय सिरिवच्छ णंदिआवत्त बद्धमाणग भद्दासण मच्छ कलस दप्पण अट्ठमंगलए आलिहित्ता काऊणं करेइ, उवयारंति, किं ते? पाडलमल्लिअचंपगअसोगपुण्णागचूअमंजरिणवमालिअबकुलतिलगकणवीरकुंदकोजयकोरंटयपत्तदमणयवरसुरहिसुगंधगंधिअस्स कयग्गह-गहिअकरयलपब्भट्ठविप्पमुक्कस्स दसद्धवण्णस्स कुसुमणिगरस्स तत्थ चित्तं जाणुस्सेहप्पमाणमित्तं ओहिनिगरं करेत्ता चंदप्पभवइरवेरुलिअविमलदंडं कंधणमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुक्कतुरुक्कधूवगंधुत्तमाणुविद्धं च धूमवट्टि विणिम्मुअंतं वेरुलिअमयं कडुच्छुअंपग्गहेत्तु पयते धूवं दहइ, दहित्ता सत्तऽट्ठपयाई पच्चोसक्कइ, पच्चोसक्कित्ता वामं जाणुं अंचेइ,०जाव पणामं करेइ, करेत्ता आउहघरसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव बाहिरिआ उवट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता सीहासणवरगए पुरत्थाभिमुहेसण्णिसीअइ, सण्णिसित्ता अट्ठारस सेणिपसेणीओ सद्दावेइ, सद्दावेत्ता एवं बयासी-खिप्पामेव भो देवाणुप्पिआ ! उस्सुक्कं उक्करं उक्किट्ठ अदिज्ज अभिज्ज अभडप्पवेसं अदंडकोदंडिमं अधरिमं गणिआवरणाडइज्जकलिअं अणेगतालायराणुचरियं अणुद्धअमुइंगं अभिलायमल्लदामं पमुइअपक्कीलिअसपुरजणजाणवयं विजयवेजइअं चक्करयणस्स अट्ठाहि महामहिमं करेइ, करेत्ता ममेअमाणत्तिअंखिप्पामेव पच्चप्पिणह। तएणं ताओ अट्ठारस सेणिप्पसेणीओ भरहेणं रन्ना एवं वुत्ताओ समाणीओ हट्ठाओ० जाव विणएणं पडिसुणेति, पडिसुणेत्ता भरहस्स रण्णो अंति-आओ पडिणिक्खमिंति, पडिणिक्खमित्ता उस्सुक्कं उक्करंजाव करेंति अ, कारवेंति अ, करेत्ता कारवेत्ता जेणेव भरहे राया तेणेव उवागच्छंति, उवागच्छित्ता० जावतमाणत्तिअंपञ्चप्पिणंति। (सूत्र-४३) (तए णमित्यादि) ततो-माण्डलिकत्वप्रालेरनन्तरं तस्य-भरतस्यराज्ञ अन्यदा कदाचित् माण्डलिकत्वं भुञानस्य वर्षसहस्र गते इत्यर्थः, आयुधगृहशालायां दिव्यं चक्ररत्न समुदपद्यत, 'तए ण से' इत्यादि। ततः-चक्ररत्नोत्पत्तेरनन्तरं स आयुधगृहिको, यो भरतेन राज्ञा आयुधाध्यक्षः कृतोऽस्तीति गम्यम् / भरतस्य राज्ञ आयुधगृहशालायां | दिव्यं चक्ररत्नं समुत्पन्नं पश्यति, दृष्ट्वा च हृष्ट-तुष्टम्अत्यर्थ तुष्ट हृष्ट वाअहो मया इदमपूर्व दृष्टमिति विस्मितं, तुष्ट-सुष्छु जातं यन्मयैव | प्रथममिदमपूर्व दृष्ट यन्निवेदनेन स्वस्वामी प्रीतिपात्रं करिष्यति इति सन्तोषमापन्न चित्तं यत्र तद्यथा भवति तथा आनन्दितः-प्रमोदं प्राप्तः / यद्वा- हृष्टतुष्टः-अतीव तुष्टः, तथा चित्तेन आनन्दितः, मकारः प्राकृतत्वात् अलाक्षणिकः ततः कर्मधारयः, नन्दितोमुखसोमताऽऽदिभावैः समृद्धिमुपागतः प्रीतिः- प्रीणनं मनसि यस्य सतथा. चक्ररत्ने बहुमानपरायण इत्यर्थः / परम सौमनस्य-सौमनस्कत्वं जातमस्येति परमसौमनस्थितः। एतदेव व्यनक्तिहर्षवशेन विसर्पद-उल्लसद् हृदयं यस्य स तथा, प्रमोदप्रकर्षप्रतिपादनार्थत्वान्नैतानि विशेषणानि पुनरुक्ततया दुष्टानि, यतः 'वक्ता हर्षेति,' "वक्ता हर्षभयाऽऽदिभि-राक्षिप्तमनाः स्तुवन् तथा निन्दन् / यत् पदमसकृद् ब्रूयात, ततपुनरुक्तं न दोषाय / / 1 / / " यत्रैव तदिव्यं चक्ररत्नंतत्रैवोपागच्छति, उपागत्य च त्रिकृत्वः-- त्रीन् वारान् आदक्षिणप्रदक्षिणंदक्षिणहस्तादारभ्य प्रदक्षिणं करोति, त्रिप्रदक्षिणयतीत्यर्थः / तथा कृत्वा च (करतल त्ति।) अत्र यावत्पदात् 'करयलपरिग्गहिअंदसणहं सिरसावत्तं मत्थए अंजलिं त्ति / ' अत्र व्याख्या-करतलाभ्यां परिगृहीतः-अतस्तंदश करद्वयसम्बन्धिनो नखाः समुदिता यत्र तं शिरसिमस्तके आवतः-आवर्तनं प्रादक्षिण्येन परिभ्रमण यस्य तं शिरसाऽप्राप्तमित्यन्ये। मस्तके अञ्जलिं-मुकुलितकमलाssकारकरद्वयरूपं कृत्वा चक्ररत्नस्य प्रणामं करोति, कृत्वा च आयुधगृहशालातः प्रतिनिष्क्रामतिनिर्याति, प्रतिनिष्क्रम्य च यत्रैव 'बाहिरिका'-आभ्यन्तरिकापेक्षया बाह्या उपस्थानशाला-आस्थानमण्डपो, यत्रैव च भरतो राजा तत्रैवोपागच्छति, उपागत्य च करतलजाव' त्ति पूर्ववत। जयेनपरानभिभवनीयत्वरूपेण विजयेन-परेषामसहमानानामभि, भावकत्वरूपेण वर्द्धयतिजयविजयाभ्यां त्वं वर्द्धयस्वेत्याशिष प्रयुक्ते, वर्द्धयित्वा चैवमवादीत्। किं तदित्याह- ‘एवं खलु' इत्यादि, इत्थमेव यदुच्यते मया, न च विपर्ययाऽऽदिना यदन्यथा भवति, यद्देवानुप्रियाणा-राजपादानाम् आयुधगृहशालायां दिव्यं चक्ररत्नं समुत्पन्नं तदेव तत्, णमिति प्राग्वत्, देवानुप्रियाणां प्रियार्थतायै-प्रीत्यर्थं प्रियम्इष्ट निवेदयामः एतत् प्रियनिवेदनं प्रियं (भे ) भवतां भवतु, ततो भरतः किं चक्रे इत्याह- 'तते ण' इत्यादि, ततः स भरतो राजा तस्याऽऽयुधगृहिकस्य समीपेएनमर्थं श्रुत्वाआकर्ण्य कर्णाभ्यां निशम्य-अवधार्य हृदयेन तुष्टो यावत्सौमनस्थितः प्राग्वत् प्रमोदाऽतिरेकाये ये भावा भरतस्य संवृत्तास्तान विशेषणद्वारेणाऽऽह-विकसितकमलवन्नयनवदने यस्य स तथा, प्रचलितानिचक्ररत्नोत्पत्तिश्रवणजनितसम्भ्रमातिरेकात् कम्पितानि वरकटके प्रधानवलये त्रुटिके-बाहुरक्षको केयूरे-बाह्वोरेव भूषणविशेषौ मुकुट कुण्डले च यस्य सतथा, सिंहावलोकनन्यायेन प्रचलितशब्दो ग्राह्यः, तेन प्रचलितहारेण विराजद्र तिदं च वक्षो यस्य स तथा, पश्चात् पदद्वयस्य कर्मधारयः / प्रलम्बमानः सम्भ्रमादेव प्रालम्बोझुम्बनकं यस्य स तथा, घोलदोलायमान भूषणम् उक्तातिरिक्तं धरति यः स तथा, ततः