________________ भय 1381 - अभिधानराजेन्द्रः - भाग 5 भय रिकप्रवर्तते श्रान्तस्यार्तिः एतेषां द्वन्द्वे कृते, तेषां यः सन्तानः परम्पराप्रवाहस्तस्य तानवं तनोविस्तानवं तनुता, स्वल्पतेति यावत् / किं न भवेत् ? अपितु भवेदेवेत्यर्थः / / 1 / / सभयत्यनिर्भयत्वाभ्यां सांसारिकज्ञानसुखयो रसारता सारते दर्शयन्नाहभवसौख्येन किं भूरि-भयज्वलनभस्मना ? सदा भयोज्झितं ज्ञानं, सुखमेव विशिष्यते // 2 // भवेति-भो भव्य ! भूरिभयज्वलनभरमना भूरीणि च तानि भयानि च भूरिभयानि इहलोकपरलोकाऽऽदानाऽकरमादजी विकाऽपश्लोकमरणरूपाणि, तान्येव ज्वलनाः सुखेन्धनज्वलनसमर्था वह्नयस्तेभ्यो जातं यद्भस्मरक्षा तेन भयज्वलनज्वालितभस्मरूपेणेति भावः। भवसौख्येन भवे संसारे गतं यत्सुखस्य भावः सौख्यं तेन / (किम्) किं फलं? न किमपि, भयशोषिताऽऽनन्दरसत्वेन निःस्वादनीयत्वात्। सदासर्वकालम्। भयोज्झितंभयैः पूर्वोक्तस्त्यक्तम्।यद्वाभयान्युज्झितानियेन तत् / ज्ञान निजस्वरूपाऽऽवेदनम्। एवं निश्चितं सुखमानन्दरूपं, विशिष्यते सर्वाधिकसुखत्वेन भिद्यते, केवल सुखत्वेनावधार्थत इत्यर्थः / / 2 / / योगिनां भयाभावे हेतून दर्शयन्नाह - न गोप्यं क्वापि नागोप्यं, हेयं देयं च न चित् / क्व भयेन मुनेः स्थेयं, ज्ञेयं ज्ञानेन पश्यतः ?||3|| न गोप्यमितिः मुनेः परमाऽऽत्मभावप्राप्त्युपाये प्रवृत्तस्य साधोः / क्वापि ग्रामे वने दिवा रात्री च। गोप्यंगोपनीयं कपाट वस्त्राऽऽदिभिः स्थगनीयमिति यावत्। न विद्यते केनाप्यहरणीयधर्मधनत्वात्। आरोप्यमारोपणीयं क्वचित् स्थानान्तरे न्यासत्वेन स्थापनीयमपि तस्य न विद्यते स्व भावधर्मस्यान्यत्रा नेतुमशक्यत्वात् / हेय स्वभावमध्यात्त्याज्य, देयं परस्मै स्वरूपस्य दातव्यमपि च न क्वचित् कुत्रचिदपि न विद्यते, अमेदे स्वाऽऽत्मभावे तयोर विषयत्वात् ज्ञेयं ज्ञातुं योग्यं वस्तु ज्ञानेन स्यानुभवबोधस्वभावेन / पश्यत। विलोकयतः मुनेः। भयेन प्रोक्तलक्षणत्रासेन। व कुत्र। स्थेय स्थातव्यम्। तस्य सभया स्थितिः क्वास्ति ? न वापीत्यर्थ // 3 // पूर्वोक्तहेतुतो मुनिर्निर्भय एवेत्याहएकं ब्रह्मास्त्रमादाय, निघ्नन्मोहचमू मुनिः। विभेति नैव संग्राम-शीर्षस्थ इव नागराट् // 4 // एकमिति - मुनिधर्मवर्मधारकः साधुः / एकं सर्वपरिहारेणाद्वितीयं, ब्रह्मास्त्रं ब्रह्म जीवस्य निरञ्जनावस्थाऽनुयायि शुद्धज्ञानं तदेव तद्रूपं वा अस्वम् अप्रतिहतशक्तिमद् वजाऽऽदि प्रहरणं तत् आदायगृहीत्वा, (मोहवमूम) मोहोऽज्ञानं मोहनीयकर्म वा, तस्य उपलक्षणत्वाच्छेषकर्मणामपि या चमूः सैन्यं तां, निघ्नन् नितरांध्वंसयन्। (न बिभेति) भयं न गच्छति। क इव ? संग्रामशीर्षस्थः संग्रामो युद्धं तस्य यच्छीर्ष प्रकर्षतारूपं मस्तकं तास्थितः। नागराट् गजराज इव यथा न विभेति, तथा मुनिरपि भीमपरीषहोपसर्गसम्पातेऽपिन बिभेति। ब्रह्मस्वरूपावेदने संलीनचित्तत्वेन देहपीडा न जानातीत्यर्थः / / 4 / / सजागरायां ज्ञानदृष्टौ भयभाव एवेत्याह मयूरी ज्ञानदृष्टिश्चे-त्प्रसर्पनि मनोवने। वेष्टनं भयसाणां, न तदाऽऽनन्दचन्दने / / 5 / / मयूरीति - हे श्लाघ्यशील ! चेद्-यदि मनोवने हृदयरूपाऽऽरामे, ज्ञानदृष्टिः शुद्धचैतन्यस्वरूपानुपायिनी ज्ञानपरिणतिस्तद्रूपा मयूरी शिखिनी मयूराणां संहतिर्वा सा। प्रसर्पत्यपूर्वापूर्वज्ञा नपरम्पराऽऽविर्भावरूपया स्वेच्छया विलासं करोति, तदा। आनन्दचन्दने परमप्रमादरूपे श्रीखण्डवृक्ष, भयसाणां भयानि पूर्वोक्तानि तान्येव सर्पा अहयस्तषां, वेष्टनं स्वशरीराऽऽभोगेन परिवेष्टनं भयानां स्वोत्पत्तितया व्यापनं, न भवति। अयं भावः-ज्ञानेन स्वस्वरूपे अविनाशित्वाऽऽदिना निर्धारित सति भयकारणाभावः स्यादित्यर्थः / / 5 / / पुनरप्युक्तार्थमेव विशेषयन्नाहकृतमोहस्त्रवैफल्यं, ज्ञानवर्म बिभर्ति यः। क्व भीस्तस्य व वा भङ्गः, कर्मसङ्ग केलिषु? // 6 // कृतेति-हे शान्तचित्त ! यो ज्ञानी, कृतमोहारत्रवैफल्यं कृत-रचित मोहस्य पूर्वोक्तरूपस्य यान्यस्त्राणि कामक्रोध हर्षशोकारत्यज्ञानभयजुगुप्साऽऽदीनि प्रहरणानि तेषां यद्वि-फलस्य भावः कर्म वा वैफल्य विगत्तशक्तित्वं येन तत्। ज्ञानवर्म ज्ञानं स्वपरत्वविवेचनमर्थबोधस्तदेव तद्रूपंवा यदर्भ तनुत्राणं, कवचमिति याचत् तत्, बिभर्ति स्थाड़े धारयतियथार्थज्ञानं प्राप्तः / तस्य पूर्वोक्तगुणविशिष्टस्य, कर्मसङ्गरकेलिषुकर्मभिर्जानाऽऽवरणाऽऽदिभिः सह यः सगरो युद्ध तस्मिन् याः केलवो दुःखाऽऽघातरूपाः क्रीडास्तासु, भीर्मयं क भवेत् ? न कापि वाअथवा भड्पराजयः क्व ? ज्ञानोदयेन निरस्तभय-मोहनीयत्वान्न क्वापीत्यर्थः / / 6 / / / भयकृतपीडाऽज्ञानिनामेवास्तीत्याह - तूनवल्लघवो मूढाः, भूमन्त्यभे भयानिलैः। नैकं रोमापि तैनि-गरिष्ठानां तु कम्पते // 7 // तूलवदिति- हे माध्यस्थ्यभङ्ग भीरो ! मूढाः-अज्ञातस्वस्वरूपाः / तूलवल्लघवः तूलमर्कतरुरू तं, तद्वत्तत्सदृशा लघवोऽल्पा महत्त्वेन रहिताः / भयानिलैर्भयानि पूर्वोक्तानि तान्येवानिला वायवस्तै / अभे सकललोकाऽऽकाशऽऽत्मके गगनमण्डले, भ्रमन्ति नानाजन्मरूपस्थानात्स्थानान्तरे वर्तुलाऽऽकारेणाटन्ति तु-पुनः ज्ञानगतिष्ठानां ज्ञानेनपूर्वोत्केन गरिष्ठागुरुतराः विशालबोधित्वेनातिवहान्त इति यावत् तेषां / तैर्भयानिलैः। एकम् आसतांप्रभूतानिएकमपीत्यंपरर्थः / रोम देहजः सूक्ष्मः केशः। उपलक्षणतो जीवप्रदेशः, तदपि। न कम्पतेनैजत इति / / 7 / / अथोपसंहारतो निर्भयताया स्थानं दर्शयन्नाह - चित्ते परिणतं तस्य, चारित्रामकुतोभयम्। अखण्डज्ञानराज्यस्य, तस्य साधोः कुतो भयम् ? ||8|| चित्त इति - हे कल्याणाऽऽचरण ! अकुतोभयं न विद्यते कुतोऽपि क स्मादपि भयं भीतिर्यस्मिंस्तदकुतो भयं, चारित्रा सकलविभावनिवृत्तिपरिणामरूपः संयमः, यस्य भव्यजनस्य, चित्तेमानसि, परिणतं सकलाऽऽत्मप्रदेशेष्वङ्गाङ्गिभा