________________ भत्तपचक्खाण 1356 - अमिधानराजेन्द्रः - भाग 5 भत्तपचक्खाण व अभिसमिचा सव्वओ सव्वत्ताए सम्मत्तमेव सममिजाणिया, जस्स णं भिक्खुस्स एवं भवइ-पुट्ठो अबलो अहमसि नालमहमंसि गिहतरसंकमणं मिक्खायरियं गमणाए, से एवं वयंतस्स परो अमिहडं असणं वा पाणं वा खाइमं वासाइमं वा आहट्ट दलइजा, से पुव्वामेव आलोइजा-आउ संतो ! नो खलु मे कप्पइ अभिहडं असणं वा पाणं वा खाइमं वा साइमं वा भुत्तए वा पायए वा अन्ने वा एयप्पगारे। (सू०२१६) तत्र टिकल्पपर्युषितः स्थविरकल्पिको जिनकल्पिको वा स्यात्, कल्पद्वयपर्युषितस्तु नियभाञ्जिनकल्पिकपरिहारवि-शुद्धिकयथालन्दिकप्रतिमाप्रतिपन्नानामन्यतमः, अस्मिन् सूत्रोऽपदिष्टो यो भिक्षुर्जिनकल्पिकाऽऽदिभ्यां वस्त्राभ्यां पर्युषि तो वस्त्रशब्दस्य सामान्यवाचित्वादेकः क्षौमिकोऽपर और्णिकइत्याभ्या कल्पाभ्यां पर्युषितः-संयमे व्यवस्थितः, किम्भूताभ्यां कल्पाभ्या? पात्रतृतीयाभ्यां पर्युषित इत्याद्यनन्तरोद्देशकवन्नेयं यावत् "नालमहमंसि'' ति स्पृष्टोऽहं वातादिभी रोगैः 'अबल: असमर्थः 'नालं' न समर्थोऽस्भिगृहाद् गृहान्तरं सक्रमितुं, तथा भिक्षार्थ चरण-चर्या भिक्षाचर्या तगमनाय 'नालं' समर्थ इति, तदेवम्भूत भिक्षुमुपलभ्य स्याद् गृहस्थ एवम्भूतामात्मीयामवस्था वदतः साधोरवदतोऽपि परो गृहस्थाऽऽदिरनुकम्पाभक्तिरसाऽऽहृदयोऽभिहृतं जीवोपमर्दनिर्वृत्तं, किं तद् ? अशनं पानं खादिमं स्वादिमं चेत्यारादहत्य तस्मै साधये 'दलएज' त्ति दद्यादिति / तेन च ग्लानेनाऽपि साधुना सूत्रार्थमनुसरता जीवितनिष्पिपासुनाऽवश्यं मर्त्तव्यमित्यध्यवसायिना किं विधेयमित्याह-स जिनकल्पिकाऽऽदीनां चतुर्णामप्यन्यतमः पूर्वमेव-आदावेव' आलोचयेत्' विचारयेत्, कतरेणोद्गमाऽऽदिना दोषेण दुष्टमेतत् ? तत्राभ्याहृतमिति ज्ञात्वाऽभ्याहृतं च प्रतिषेधयेत्, तद्यथाआयुष्मान् गृहपते ! न खल्वेतन्ममाभिहृतमभ्याहृतं च कल्पते अशनं भोक्तुं पानंपातुमन्यद्वैतत्प्रकारमाधाकाऽऽदिदोषदुष्ट न कल्पते, इत्येवं तं गृहपति दानायोद्यतमाज्ञापयेदिति, पाठान्तरं वा "तं भिक्खु / केइगाहावई उवसंकमित्तु बूया-आउसंतो समणा ! अहन्नं तव अट्टाण असणं वा पाणं वा खाइमं वा साइमं वा अभिहडं दलामि, से पुव्वामेव जाणेजा आउसंतो गाहावई ! जन्नं तुम मम अट्ठाए असणं वा पाणं वा खाइम वा साइमं या अभिहडं चेतेसि, णो य खलु मे कप्पई एयप्पगार असणं वा पाणं वा खाइम वा साइमं वा भोत्तए वा, पायए वा अन्ने वा तहप्पगारे त्ति।' कण्ठ्यं, तदेवं प्रतिषिद्धोऽपि श्रावकसंज्ञिप्रकृतिभद्रकमिथ्यादृष्टीनामन्यतम एवं चिन्तयेत्, तद्यथा-एष तावत् ग्लानो न शक्नोति भिक्षामाटितुं न चापर कञ्चन ब्रवीति तदस्मै प्रतिषिद्धोऽप्यह केनचिच्छदाना दास्यामीत्येवमभिसन्धायाऽऽहाराऽऽदिकं ढौकसति, तत्साधुरनेषणीयमिति कृत्वा प्रतिषेधयेत् / किं च-- जस्स णं भिक्खुस्स अयं पगप्पे-अहं च खलु पडिन्नत्तो अपडि नतेहिं गिलाणो अगिलाणेहिं अमिकंख साहम्मिएहिं कीरमाणं वेयावडियं साइजिस्सामि, अहं वावि खलु अप्पडिन्नतो पडिनत्तस्स अगिलाणो गिलाणस्स अभिकंख साहम्मियस्स कुजा वेयावडियं करणाए आहट्ट परिन्नं अणुक्खिस्सामि आहडं च साइञ्जिस्सामि१, आहट्ट परिन्नं आणक्खिस्सामि आहडं च नो साइञ्जिस्सामि 2, आहटु परिन्नं नो आणक्खिस्सामि आहडं च सा इजिस्सामि 3, आहट्ट परिन्नं नो आणक्खिस्सामि आहडं च नो साइजिस्सामि 5, एवं से अहाकिट्टियमेव धम्म सममिजाणमाणे संते विरए सुसमाहियलेसे तत्थ वितस्स कालपरियाए से तत्थ विअंतिकारए, इचेयं विमोहाययणं हियं सुहं खमं निस्सेसं आणुगामियं ति बेमि / (सू० 217) '' इति वाक्यालङ्कारे, यस्य भिक्षोः परिहारविशुद्धिकस्य यथालन्दिकस्य वा अयं-वक्ष्यमाणः प्रकल्पः' आचारो भवति, तद्यथा अहं च खलु 'चः समुचये 'खलुः वाक्यालङ्कारे, आह क्रियमाणं वैयावृत्यमपरैः 'स्वादयिष्यामि अभिलषिष्यामि, किम्भूतोऽहं ? प्रतिज्ञप्तौ वैयावृत्यकरणायापरैरुक्त:- अभिहितो यथा तव वयं वैयावृत्यं यथोचितं कुर्मा इति, किम्भूतैः परैः ? अप्रतिज्ञप्तैः-अनुक्ते, किम्भूतोऽहंग्लानो विकृष्टपसा कर्तव्यताऽशक्तो वाताऽऽदिक्षोभेण वा ग्लान इति, किम्भूतैरपरैः? उचित कर्त्तव्यसहिष्णुभिः / तत्रा परिहारवि--शुधिकस्यानुपाहारिकः करोति कल्पस्थितो वा परो, यदि पुनस्तेऽपि ग्लानास्ततोऽन्ये न कुर्वन्ति, एवं यथालन्दिकस्यापीति, केवलं तस्य स्थविरा अपि कुर्वन्तीति दर्शयति निर्जराम् 'अभिकाक्ष्य' उद्दिश्य 'साधम्मिकैः सदृशकल्पिकैरेककल्पस्थैरपरसाधुभिर्वा क्रियामाणं वैयावृत्त्यमहं स्वादयिष्यामि अभिकाशयिष्यामि यस्यायं भिक्षोः प्रकल्पः-आचारः स्यात् सतमाचारमनुपालयन् भक्तपरिज्ञयाऽपि जीवितं जह्यात्, न पुनराचारखण्डनं कुर्यादितिभावार्थः / तदेवमन्यन साधर्मिकेण वैयावृत्त्यं क्रियमाणमनुज्ञात / साम्प्रतं स एवापरस्य कुर्यादिति दर्शयितुमाह -चः समुचे, अपिशब्दः पुनःशब्दार्थे सच पूर्वस्माद्विशेषदर्शनार्थः 'खलुः वाक्यालङ्कारे अहं च पुनरप्रतिज्ञप्तः अनभिहितः प्रतिज्ञप्तस्य वैयावृत्त्यकरणायाभिहि तस्थ अग्लानो ग्लानस्य निर्जरामभिकाक्ष्य साधर्मिकस्य वैयावृत्त्य कुर्या , किमर्थम् ? 'करणाय' तदुपकरणाय तदुपकार येत्यर्थः, तदेवं प्रतिज्ञा परिगृह्याऽपि भक्तपरिज्ञया प्राणान् जह्यात्, न पुनः प्रतिज्ञामिति सूत्रभावार्थः / इदानी प्रतिज्ञाविशेषद्वारेण चतुर्भङ्गिकामाह-एकः कश्चिदेवम्भूता प्रतिज्ञा गृह्णति, तद्यथा-लानस्यापरस्य साधर्मिकस्याऽऽहारssदिकमन्वेषयिष्यामि, अपरं च ययावृत्त्यं यथोचित्तं करिष्यामि, तथाऽपरेण चसाधर्मिकणाऽऽहतमानीतमाहाराऽऽदिकं स्वादयिष्यामि-उपभोक्ष्ये, एवम्भूतां प्रतिज्ञामाहृत्यगृहीत्वा वैयावृत्यकुर्यादिति 1, तथाऽपरः-आहत्य प्र