________________ बहग 1294 - अभिधानराजेन्द्रः - भाग 5 बहपरीसह बहग पुं० (बधक) घन्तीति बधकाः / प्राण्युपमर्दकर्तृषु, दश०१ अ०। स्वयं हन्तृषु, ज०२ वक्ष०। 'कुर्याद् वर्षसहस्रं तु. अहन्यहनि मजनम्। | सागरेणाऽपि कृत्स्नेन, बधको नैव शुध्यति॥१॥" उत्त०१२ अ०। बहडाइचणयर न० (बृहदादित्यनगर) सरयूसविधे स्वनामख्याते पुरे, "अलावुदीणसुरताणस्समल्लिकेण हेव्वसे नामेणं बहडाइचनगराओ।" ती०३६ कल्प। बहता स्त्री० (ब्यधता) ताडनतायाम्, भ० १२श०६उ०। बहपरिणय पु० (बधपरिणत) मारणाध्यवसायवति, प्रश्न० 3 आश्र० द्वार। बहपरीसह बध (व्यघ)-पुं० (परीषह) बधो व्यधो वा यष्टया दिताडनं तत्परिषहणं च परैर्हि दुरात्मकैः पाणिपार्णिलत्ताकशाऽऽदिभिः प्रद्वेषाऽऽदितः कोपकलुषितान्तः करणेन क्रियमाणस्य ताडनस्य (प्रव०८६ द्वार) क्षान्त्यवलम्बनतः सहने, भ०८ श०८ उ०।"हतः सहेतैव मुनिः, प्रतिहन्यान्न साम्यवित्। जीवानाशात् क्षमायोगात्, गुणाऽऽसेः क्रोधदोषतः / / 1 // " आव०१ अ०। 'सहेत हन्यमानोऽपि, प्रतिहन्यान्मुनिर्न तु। जीवनाशात्कुधो दौष्ट्यात्, क्षमया च गुणार्जनात्॥१॥ध०३ अधि०। एतदेव सूत्राकृदाहहओ न संजले भिक्खू, मणं पि न पओसए। तितिक्खं ऊपरमं नचा, मिक्खुधम्मं विचिन्तए।। 26 / / कश्चिदाक्रोशमाोणातुष्यन्नधमाधमो बधमपि विदध्यादिति बधपरीषहमाह-हतोयष्ट्यादिभिस्ताडितो न संज्वलेत् कायतः कम्पनप्रत्याहननाऽऽदिना वचनतश्च प्रत्याक्रोशदानाऽऽदिना भृशं ज्वलन्तमिवाऽऽत्मानं नोपदर्शयत्, भिक्षुः मनश्चित्तं तदपि न प्रदूषयेत् न कोपतो विकृतं कुर्वीत, किं तु तितिक्षां क्षमाम् “धर्मस्य दया मूलं, न चाऽक्षमावान् दयां समाधत्ते / तस्माद्यः शान्तिपरः, स साधयत्युत्तमं धर्मम् / / 1 // " इत्यादिवचनतः परमा धर्मसाधनं प्रति प्रकर्षवती ज्ञात्वाऽवगम्यं भिक्षुधर्म यतिधर्म, यद्वाभिक्षुधर्म क्षान्त्यादिकं वस्तुस्वरुपं वा चिन्तयेत्, यथा-क्षमामूल एव मुनिधर्मोऽयं चास्मन्निमित्तं कर्मोपचिनोत्यस्मदोष एवायमतो नैन प्रति कोप उचितः। इति सूत्रार्थः / अमुमेव प्रकारान्तरेणाऽऽह - समणं संजय दत्तं, हणिज्जा कोऽवि कत्थऽवि। नत्थि जीवस्स नासु त्ति, ण तं पेहे असाहुवं / / 27 / / (समणं ति) श्रमणं सममनसंवा, न तथाविधबधेऽपि धर्म प्रति प्रहत चेतसं, श्रमणश्च शाक्याऽऽदिरपि स्यादित्याह-संयतं पृथिव्यादिव्यापादननिवृत्तं, सोऽपि कदाचिल्लाभाऽऽदिनिमित्तं बाह्यवृत्त्यैव सम्भवेदत्त आह–'दान्तम्' इन्द्रियनोइन्द्रियदमेन हन्यात्ताडयेत, कोऽपीति तथाविधोऽनार्यः कुत्रापि ग्रामाऽऽदौ, तत्र किं विधेयमित्याह-नास्ति जीवस्याऽऽत्मन उपयोगरूपस्य नाशोऽभावः, तत्पर्यायविनाशरूपत्वेन हिंसाया अपि तत्र तत्राऽभिधानादितीत्यस्माध्देतो तमिति घातकं प्रेक्षत असाधुमर्हति यत्प्रेक्षणं भुकुटिभङ्गाऽऽदियुक्तं तदसाधुवत, किंतु रिपुजय प्रति सहायोऽयमिति धिया साधुवदेव प्रेक्षतेति भावः / अथवा-अपेर्गम्यमानत्वात् नतप्रेक्षेताप्यसाधुनातुल्यं वर्तत इत्वसाधुवत्, किं पुनरपकारायोपतिष्ठेत् संल्किवाति वा? असाधुर्हि सत्यां शक्तो प्रत्युपकारायोपतिष्ठते असत्यां तु विकृतया दृशा पश्यति संल्केशं वा कुरुत इत्येवमभिधानम्। पठ्यतेच- "नय पेहे असाहुयं ति'' चकारस्यापिशब्दार्थस्य भिन्नक्र मत्वा-त्प्रेक्षेतापि न चिन्तयेदपि न,कामसाधुनां, तदुपरि द्रोहस्वभाव-ताम् / पठन्ति च"एवं पेहेन संजओ' इति सूत्रार्थः / / 27 / / अधुना 'वणे त्ति द्वार, तत्रा 'हतो (तः) संज्वलेत इत्यादि सूत्रमर्थतः स्पृशन्नुदाहरणमाह-- सावत्थी जियसत्तू, धारणि देवी य खंदओ पुत्तो! धूया पुरंदरजसा, दत्ता सा दंडईरण्णो / / 111 // मुणिसुव्वयंतेवासी, खंदगपमुहा य कुंभकारकडे / देवी पुरंदरजसा, दंडइ पालग मरूए य / / 112 / / पंचसया जंतेणं, बहिया उ पुरोहिएण रुटेणं / रागद्दोसतुलग्गं, समकरणं चिंतयंतेहिं / / 113 / / श्रावस्ती जितशत्रुर्धारणी देवी च स्कन्दकः पुत्रो दुहिता पुरन्दरयशा, दत्ता सा दण्डकिराजाय, मुनिसुव्रतान्तेवासिनः स्कन्दकप्रमुखाश्च कुम्भकारकटे देवी पुरन्दरयशा दण्डकिः पालकः मर / पञ्चशतानि यन्त्रण घातितानि, तुः पूरणे पुरोहितेन राष्टेन पालव, गद्वेषयोस्तुलाग्रमिव तदनभि भाव्यत्वेन रागद्वेषतुलाग्रं समकरण माध्यस्थ्यपरिणाम भावयद्भिः स्वकार्य साधितमिति शेषः / इति गाथात्रयाक्षरार्थः / / भावार्थस्तु संप्रदायादवसेयः। स चायम् - "सावत्थीए नयरीए जितसत्तू राया, धारि (र) णी देवी, तीसे पुत्तो खंदओ नाम कुमारो, तस्स भगिणी पुरन्दरजसा सा कुंभकारकडे नयरे, दंडगी नाम राया तस्स दिन्ना, तस्स य दंडकिस्स रण्णो पालगो नाम मरुओ पुरोहिओ। अण्णया सावत्थीए मुणि सुव्वयसामी तित्थयरो समोसरिओ, परिसा निग्गया, खंदओ वि निगओ, धम्मं सोचा सावगो जाओ। अण्णया सोपालकमरुको दूयत्ताए आगतो सावत्थिनयरि, अत्थाणिमज्झे साहूणं अवण्णं वयमाणो खंदएणं निप्पिट्टपसिणवागरणो कओ, पओसमावण्णो, तप्पभिई चेव खंदगस्स छिद्दाणि चारपुरिसेहिं मम्गावितो विहरति, जाव खंदओ पचहि जणसएहिं कुमारो लग्गएहि सद्धिं मुणिसुव्वयसामिसगासे पव्वइओ,बहुस्सुतो जातो, ताणि चेव से पंच सयाणि सीसत्ताए अणुण्णायाणि। अण्णया खंदओ सामि आपुच्छति-वचामि भगिणीसगांस? सामिणा भणियंउवसगो मारणंतिओ। भणति-आराहगा विराहगावा? सामिणा भणियंसव्वे आराहगा तुम मोत्तु / सो भणति-एयं लट्ठ जदि एत्तिया आराहगा, गओ कुंभकारकड, मरुएणं जहिं उज्जाणे ठितो तहिं आउहाणि णूमियाणि / राया दुग्गाहिओ-जहा एस कुमारो परीसहपराजितो एएण उवाएणं तुमं मारेत्ता रजं गिहिहि त्ति, जदि तेविपचओ उजाणंपलोएहि, आउहाणि ओलइयाणि दिट्ठाणि, ते बंधिऊण तस्स चेव पुरोहियस्स समप्पिया, तेण सव्वे पुरिसजतेण पीलिया तेहि सम्म अहियासियं तेसि केवलनाणं उप्पण्ण सिद्धा य / खंदओ वि