________________ बंभसेण 1283 - अभिधानराजेन्द्रः - भाग 5 बंभसेण 'गङ्गाविभूषिता नन्दि-कलिता वृषभूषिता। शम्भोर्मूर्तिरिवात्रास्ति पुरी वाराणसी वरा // 1 // दारिद्रयमुद्रितस्तत्र, ब्रह्मसेनोऽभवद्वणिक् / यशोमती च तत्पत्नी, सोऽन्यदाऽगान बहिः पुरात्।।२।। भव्यानां धर्ममाख्यान्तं दृष्ट्वोद्यानगतं मुनिम्। प्रणम्य मुद्रितः श्रेष्ठी. निषसाद तदन्ति के // 3 // मुनिराख्यदहो भव्याः! यावजीवोऽयमेजति। तावदाहारमादत्ते, तावत् कर्माणि चार्जयेत् / / 4 / / ततोऽप्यनन्तदुःखानि, सहतेदुःसहान्यसो। तस्मात्सुखैविणाऽऽहार - गृद्धिस्त्याज्या मनीषिणा // 5 // श्रेष्ठयूचेऽर्थादशक्योऽय-मुपदेशः प्रभो! ननु। मुनिः प्रोचे गृहस्थाना-मस्ति भोः! पौषधव्रतम्॥६॥ तत्राऽऽहारागसत्कारा-ऽब्रह्मव्यापारवर्जनम्। देशतः सर्वतो वाऽपि, कर्तव्यं द्विविधं त्रिधा / / 7 / / यावत्कालमिदं धन्यो, विभर्ति श्रावको व्रतम्। तावत्काल स विज्ञेयो, यत्याचारानुपालकः / / 8 / / श्रुत्वेत्यत्रान्तरे कश्चि-च्छ्राद्धः क्षेमधेराभिधः। बभाषे पौषधाऽऽख्येन, व्रतेनानेन म कृतम् / / 6 / / श्रेष्ठयूवेऽथ मुनि नत्वा, किं विद्वेषोऽस्य पौषधे?। प्रकृत्या भद्रकस्याऽपि, जातस्य श्रावके कुले॥ 10 // मुनिः स्माऽऽह भवादस्मात्, तृतीयेऽयं भवेऽभवत्। नगर्या किल कौशाम्ब्यां, क्षेमदेवाभिधो वणिक् / / 11 / / भ्रातरो तत्रा चाऽभूतां, महेभ्यो श्रावकोत्तमौ। जिनदेवाभिधो ज्येष्ठौ, धनदेवः कनिष्ठकः / / 12 // कुटुम्बभारमारोप्य, जिनदेवोऽन्यदाऽनुजे। पौषधं पौषधागारे, प्रत्यहं विधिना व्यधात् / / 13 // अन्यदा पौषधरथस्य, तस्योत्पेदेऽवधिस्ततः। ज्ञात्वा ज्ञानोपयोगेन सोऽवादीदनुजं यथा / / 14 // वत्सावशिष्टमायुस्ते, नूनं जाने दिनान् दश। विधेहि बान्धव स्वार्थ , सावधानमना भृशम् // 15 // धनदेवस्ततः कृत्वा, चैत्ये पूजां गरीयसीम्। दत्त्वा दानं च दीनाना-मदीनो निर्निदानकम्॥१६॥ संघं च क्षमयित्वाऽसौ, विधायानशन सुधीः। तृणसंस्तारके तस्थौ, स्वाध्यायध्यानतत्परः / / 17 // क्षेमदेवोऽथ तीव-मूचे भो भोः। कथं भवेत्? | गृहस्थस्य ससंगत्वा-दवधिज्ञानमीद्दशम? ||18 // अथैतदपि चेत् सत्यं, भवेद्भद्रंततो भृशम्। ग्रहीष्ये पौषधं ज्ञान-भानोः पूर्वाचलोपमम् // 16 / / धनदेवोऽथ तत्राह्नि, स्मरन पञ्चनमस्क्रियामा विपद्य द्वादशे कल्पे, इन्द्रसामानिकोऽजनि / / 20 // कलेवरस्य तस्याऽऽशु, यथा संनिहितामरैः। गन्धाम्बुपुष्पवृष्ट्याद्यैश्चक्रैतष्टैर्महामहः // 21 // क्षेमदेवोऽपि वीक्ष्यैत-दीषच्छ्रद्धालुतां दधतः। पौषधं प्रायशश्चक्रे, धर्मकामो यदा तदा / / 22 // कृत्वाऽऽषाढवतुर्मासे, सोऽन्यदा पोषधव्रतम्। तपस्विन्यां तपस्ताप- क्षुत्तृडार्को व्यचिन्तयत्।। 23 / / अहो! दुःखमहो ! दुःखं, क्षुत्तृधर्माऽऽदिसंभवम। एवमाातिचर्याऽसौ, पौषधं हि ततो मृतः / / 24 // व्यन्तरेषु सुरो भूत्वा, सोऽभूत क्षेमंङ्करो ह्ययम्। यत्पौषधान्मृतः प्राक् तत, त्रस्तोऽद्यापि तदाख्यया।। 25 / / ब्रह्मसेन इति श्रुत्वा, प्रणिपत्य पुनर्मुनिम्। पौषधव्रतमादाय, धन्यंमन्यो ययौ गृहम् // 26 // ततः प्रभृति स श्रेष्ठी, सुखेन प्राप्तजीविकः / कियत्कालमतीयाय, कुर्वाणं पौषधव्रतम् / / 27 / / अन्यदा तत्पुराधीशे, मृतेऽकस्मादपुत्रिणि। पुरेऽरिभिर्भज्यमाने, श्रेष्ठ्यसौ शस्तमानुषः // 28 // गत्वा मगधदेशेष ग्रामे प्रत्यन्तवर्तिनि। कस्मिन्नाजीविकाहेतोरध्युवास विधेर्वशात्॥२६॥ एकदा सतु संप्राप्ते, चतुर्मासकपर्वणि। धर्मानुष्ठानकरणे, लालसोध्यातवानिति // 30 // अहो! मे हीनपुण्यत्व-महो! मे विधिवक्रता। यदहं न्यपतं स्थान, साधुसाधर्मिकोज्झिते।।३१।। अभविष्यदर्हच्चैत्य, मा चेत्तत्तदा मुदा। विधिसारमवन्दिष्ये, द्रव्यतो भावतोऽपि च / / 32 // गुरवोऽप्यभविष्यश्चे-दासर्वत्र निःस्पृहाः। अदास्यं द्वादशाऽऽवर्त, वन्दनं तत्तदहिषु / / 33 / / एवं विचिन्त्य स श्रेष्ठीः श्रेष्ठधीर्गहकोणके। स्वाऽऽयत्तं पौषधं चक्रे. कर्मव्याधिसदौषधम् // 34 / / इतश्च तद् गृहे नित्यं, क्रयविक्रयणच्छलात्। चत्वारः पुरुषाः केचि-निषेदुर्दुष्टबुद्धयः / / 35 / / ततश्च तैनरतिः , श्रेष्ठिनः पौषधक्षणः / सब्रह्मा ब्रह्मसेनोऽपि, कालेऽस्वाप्सीद्यथाविधि / / 36 / / निशीथप्रहरादूर्द्ध, तस्मिन् सुप्तेऽथ ते नराः। प्रविश्य तत्रा खात्रोणाऽऽ-रेभिरे मोषितुं गृहम् / / 37 / / प्रबुद्धः श्रेष्ठ्यथो गेह, मुष्यमाणं विदन्नपि। मनागपि शुभध्याना-नाचालीदचलाचलः / / 38 // संवेगतिशयात्सोऽनु-शिष्टिमित्यात्मनो ददौ। रेजीव! धनधान्याऽऽदौ, मा महः सर्वथा यतः / / 36 // एतद्बाह्यमनित्यंच, तुच्छं चातुच्छदुःखदम। एतस्माद्विपरीते तु, धर्मे चित्तं दृढं कुरु // 40 // श्रुत्वेस्यात्मानुशिष्टिं ते, तस्कराः श्रेष्ठिनो मुखात्। एवं विभावयामासुर्भावनां भवनाशिनीम // 41 // धन्योऽयमेव येनासो, स्वस्यापि स्वस्य निःस्पृहः / अधन्या वयमेवैक, ये परार्थ जिहीर्षवः / / 42 // ततश्च लघुकर्मत्वा-जातिस्मृतिमवाप्य ते। सर्वेऽपि देवतादत्त-लिङ्गा आददिरे व्रतम्॥४३॥ अथोदयमिते सूर्य, श्रेष्ठ्यकस्माद् विलोक्य तान्। नत्वाऽप्राक्षीत्किमेतद्वः, पूर्वापरविरोधकृत्? || 44 / / ततः सुपुण्यकारुण्या-वनयो मुनयोऽभ्यधुः। अत्रास्ति वास्तवश्रीभि- याप्ता तुरुमिणी पुरी।। 45 // तस्यामश्यामलस्वान्ताः, केशरिद्विजसूनवः। आसन्नाऽऽसन्नकल्याणाश्चत्वारो विप्रपुङ्गवाः / / 46 / / पितर्युपरते स्तोकशोकशङ्कनिपीडिताः। ये निर्ययुर्भवोद्विग्ना-स्तीर्थदर्शनकाम्यया।। 47 / / अद्राक्षुः पथि गच्छन्तो, मुनिमेकं क्षुद्दादिभिः। मूछा गतं ततो भक्त्या , तं सज्जीवचक्रिरे क्षणात् / / 46 / / सकर्णा धर्ममाकर्ण्य, तत्पार्श्वे जगृहतम्। विहरन्तः सम तेन, पेटुः पूर्वगताऽऽद्यपि / / 46 / /