________________ बंभदत्त 1274 - अभिधानराजेन्द्रः - भाग 5 बंभदत्त गाथा एकादश / आसामपि तथैव व्याख्या, काम्पिल्यं पुरं यत्राऽस्य जन्म, ततोऽसौ गतो गिरितटक सन्नियेशं तस्माचम्पा, ततो हस्तिनापुरं चानन्तरं च साकेतं, साकेतात्समकटक, ततश्च नन्दिनामकं सन्निवेश, ततोऽवस्यानक नाम स्थान, ततोऽपि चाऽरण्यं परिभ्रमन् वंशीति वंशगहनं तदुपलक्षितं प्रासादं वंशीप्रासाद ततोऽपि समकटकम् // 344 / / समकटकादटवीं , तां च पर्यटतो ब्रह्मदत्तस्य तृडतिशयतः शुष्ककण्टौष्ठतालुताऽजनि, ततस्तेनोक्तो वरधनुः-भ्रातः! बाधते मां तृट् तदुपहर कुतोऽपि जलम्, अत्रान्तरे दृष्टोऽनेन निकटयर्ती वटपादपः, शायितस्तत्र शीतलच्छाये तत्पल्लवोपरचितस्रस्तरे ब्रह्मदत्तः, कृतश्च वरधनुना तेन सह सड्केतो-यथा यदि मां कथश्चिद्दीर्घपृष्ठप्रहितपुरुषाः प्राप्स्यन्ति ततोऽहमन्योक्त्याऽभिज्ञानं करिष्ये, तत इतस्त्वया पलायितव्यमिति। गतोऽसौ जलान्वेषणाय, दृष्ट चैकत्र पद्मिनी खण्डमण्डितं सरो, ग्रहीत च पद्मिनीपत्रपुटके जलम्, प्रत्यावृत्तस्य च ब्रह्मदत्ताऽभिमुखमागन्तुं ग्रहणं तवटाऽऽसन्नदेशे कथञ्चिदुपलब्धनदपसरणवृत्तान्तैर्दीर्घपृष्ठप्रहितपुरुषैः अतिदोषवद्भिर्वरधनोर्बन्धनं वल्लीवितानेन आक्रोशन चैव दुष्टववसा कृतम्।। 345 / / अन्यच्च स हन्यते मुष्टिप्रहाराऽऽदिभिरमात्यो वरधनुः भण्यते च-यथा देहीति ढोकय कुमारमरे! दुराचार! क पुनरसौ नीतः त्वया राजपुत्र इति?। अत्रा चाऽन्तरे सकेतमनुसरता पठितमिदमनेन-- "सहकारमञ्जरीमनु, धावति मधुपो विमुच्य मधु मधुरम्। कमले कलयन् पश्चात्संकोचकृता स्वतनुबाधाम् / / 1 / / " (गुलियविरेयणपीओ ति) प्राकृतत्वात् पतिविरेचनगुलिकः, स हि तैर्ग्रहीतुसुपक्रान्तोऽन्यथा ऽऽत्मनो विमुक्तिमनवगच्छन् पूर्वलब्धा विरेचनगुटिका प्रथममेव पयसा पीतवान्, विरक्तश्च, तया जाताश्च मुखे फेनबुदबुदाः। एवं च कपटेन मृतः कपटमृतो मृत इति छर्दितस्त्यत्कस्तैः / / 346 / / इतश्च तत्पठित श्रुत्वा कुमारो भीत इति त्रस्तः / अथाऽनन्तरम् (उप्पह ति) उत्पथेन (पलाइत्थ त्ति) पलायितवान, तथा च तं पलायमानमवलोक्य कृत्या स्थविररूपं देवः किमस्य सत्त्वमस्त्युत नेति परीक्षणार्थम् (वाहेसि य त्ति) वाहितवान् व्यंसितवानित्यर्थः कुमाररम्॥३४६॥ ततश्च परिभ्रमतो वटपुरकं तस्माश्च ब्रह्मस्थलकं वटस्थलकं चैव भवति विश्रामविषयः कौशाम्बी वाराणसी राजगृह गिरिपुरं मथुरा अहिच्छ्वा च / 348 / / ततोऽपि गच्छता ऽरण्यानीं प्रविष्टन दृष्टास्तापसाः प्रत्यभिज्ञातश्च तैर्ब्रह्मराजस्यास्मन्निजकस्य सुत इति धृतश्चातुर्मास तत्रा च तापसकुमारकैः सह क्रीडतैकस्मिन् दिनेऽवलोकितो वन हस्ती समुत्पन्नं च नृपसुतसुलभमस्य कुतूहलं, प्रारब्धश्च विविधगज शिक्षाभिरमुखेदयितुमारूढश्च निष्पन्दीकृत्य तत् प्रवृत्त श्चासौ कुमारापहरणाय, वीक्षितश्च कियदपि दूरं गतेनैकस्तरुर्लग्नश्च तदधो व्रजति हस्तिनि विटयेकदेशे | कुमारः, अपक्रान्ते च करिणि ततस्तरोरुत्तीर्य विमूढदिग्भागो भ्रमितुमारेभे | भ्राम्यंश्चारण्याद्विनिर्गत्य गतो वटपुरं वटपुराच प्रस्थितः श्रावस्ती गच्छंश्च प्राप्तस्तथाविधमे कमन्तरा ग्रामम् उपविष्टश्च तन्निकट विटपिनि विश्रमितुं, दृष्ट चैकेन तात्य श्रेष्ठिना, नीतश्च तेन स्वगृहं, कृतं चाम्यागतकर्त्तव्यं, परिणायितश्चनैमित्तिकाऽऽदेशतः स्वदुहितरमुपचरितश्च भुजगनिर्मोकसदृशै विविधवसनैर्वजेन्द्रनीलाऽऽदिप्रधानमणिभिः कटककेयूरकुण्डलाऽऽदिभिश्चाऽऽभरणैः, ततस्तद्गुण लुब्धमानसः स्थितस्तौव कियत्कालं, जनयति तदा तद् दुहितरि कुभारम् / / 346 / / इतश्च प्राप्ताः कृतान्तानुकारिणो दीर्घपृष्ठप्रहितपुरुषाः, प्रारब्धाः समन्ततस्तमवलोकितुमुप लब्धतद् वृत्तान्तश्च नष्टस्तद्भयात्प्रचलितश्च सुप्रतिष्ठपुरा भिमुखं गन्तुं, ता च मिलितः कश्चिद्विटः कार्पटिको, दृष्ट चाभिमुखमागच्छत् किश्चित्तथाविधं मिथुनकं, दृष्ट्वा च तदङ्गना मुदाररूपा कुमारमयमवोचत् यदि युष्मत्प्रसादतः कथश्चिदेनां कामयेय इति, ततस्तदुपरोधात्तेनोक्तम्-प्रविश तर्हिवंशीकुडङ्ग स्थितः पथि कुमारः, प्राप्तं च मिथुनम्. उक्तस्तत्पतिर्मदीयं कलामिह गर्भशूलाभ्याहतमास्ते तद्विसर्जय क्षणमेकं स्वकीयपल्ली , विसर्जिता चासौ तेनानुकम्पापरेण, दृष्टश्च तयाऽसौ, जातस्तस्या अपि तदनुरागः, प्रवृत्तं च तयोर्मोहनकम एवं च कियतीमपि वेलामतिक्रम्य विनिर्गताऽसौ कुडङ्गात्, उक्तं चाऽऽत्मान ख्यापयितुं कुमारं प्रति, यथा-गहनंनदीकुडङ्ग, ततोऽपि गहनतराण्येव गहनतरकाणि पुरुषहृदयानि भवन्ति / अयं चानेन ध्वनितोऽर्थः यथा वयं जानीमः स्त्रीहृदयान्यतिगहनानि, भवचित्तेन च तान्यपि जितानीत्युक्त्वा पतिं प्रत्याययितुमाह-(देहाणिं ति) देहीदानी पूर्णदानी पूर्णपाठाम्-अक्षतभृतभाजनं प्रियंखलु नो ऽस्माकं यहारको जात इति, ते इति वक्तव्ये यन्न इत्युत्कं तदैक्यं द्योतयितुम्, इत्युक्त्वा च तय धूर्त्या गृहीतं ब्रह्मदत्तोत्तरीयं, गता च पत्यैव सह, ततश्च निर्गतोऽसौ कुडगात्कृतश्च परिहासः, प्रवृत्तो गन्तुं प्राप्तः सुप्रतिष्ठम्।।३५०॥ तत्राच कुसुकुण्डी नाम कन्या (भिकुंडिवित्तासियम्मि जियसत्तु नि) आर्षत्वादुभयत्र सूपव्यत्ययः भिकुण्डिवित्रासितादि-कुण्डिनामनृपति निष्कासिताजितशत्रोः जितशत्रुनामंनृपतेः सकाशान्मथुरांतो ऽहिच्छत्रा व्रजन्नन्तरेऽन्तराले लभते-प्राप्नोति॥३५१।। तथैन्द्रपुरे शिवदत्तो नाम (रुद्रपुरे च) भद्रपुरे च विशाखदत्ताऽभिधानः, तदुहितरो वटुकत्वेन दीर्घपृष्ठपुरुषभीत्या कृतब्राह्मणवेषेण लभते कन्येद्वराज्यं च / / 352 // ततो राजगृहं मिथिला हस्तिनापुरं चम्पा तथैव श्रावस्तीम्, अभ्रमीदिति शेषः / एषा त्वनन्तरमुपदर्शिता नगरहिण्डिबर्बोद्धव्या ब्रह्मदत्तस्येति // 353 / / एवं च भ्रमतोऽस्य मिलिताः कटककरेणु दत्ताऽऽदयः पितृवयस्याः, गृहीताः कियन्तोऽपि प्रत्यन्तराजानः, चक्ररत्नं समुत्पन्नं, प्रारब्धस्तदुपदर्शितमार्गेण दिग्विजयः, प्राप्तः काम्पिल्ये, निर्गतः तदभिमुखं दीर्घपृष्ठो, लग्न मनयोरायोधनं, विनिपातितोऽसौ ब्रह्मदत्तेन, एवं च बोधद्धव्यस्तस्यदीर्घपृष्ठविषयरोषमोक्षश्च, अत्रान्तरे मिलिताः परिणीतकन्याः पितरः, समुत्पन्नानि च यथावसरं शेषरत्नानि, साधितषट्खण्डमपि भरतं, प्राप्ताश्च नवापि निधयः परिणतं चक्रवर्तिपदम्, एवं च सुकृतपुण्यफलमुपभुजतोऽति क्रान्तः कियानपि कालोऽन्यदा चोपनीत देवतया मन्दारदाम, समुत्पन्नं तद्दर्शनादस्य जातिस्मरणनुभूतानि